स्कन्दाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
विश्वामित्रस्तु भगवान्कुमारं शरणं गतः ।
स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः ॥१२३॥
अष्टोत्तरशतं नाम्नां शृणु त्वं तानि फाल्गुन ।
जपेन येषां पापानि यान्ति ज्ञानमवाप्नुयात् ॥१२४॥
ॐ त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः ।
ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसङ्ग्रहः ॥१२५॥
त्वं परं परमं तेजो मङ्गलानां च मङ्गलम् ।
अप्रमेयगुणश्चैव मन्त्राणां मन्त्रगो भवान् ॥१२६॥
त्वं सावित्रीमयो देव सर्वत्रैवापराजितः ।
मन्त्र शर्वात्मको देवः षडक्षरवतां वरः ॥१२७॥
माली मौली पताकी च जटी मुण्डी शिखण्ड्यपि ।
कुण्डली लाङ्गली बालः कुमारः प्रवरो वरः ॥१२८॥
गवाम्पुत्रः सुरारिघ्नः सम्भवो भवभावनः ।
पिनाकी शत्रुहा श्वेतो गूढः स्कन्दः कराग्रणीः ॥१२९॥
द्वादशो भूर्भुवो भावी भुवः पुत्रो नमस्कृतः ।
नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः ॥१३०॥
त्वं भर्ता सर्वभूतात्मा त्वं त्राता त्वं सुखावहः ।
शरदक्षः शिखी जेता षड्वक्त्रो भयनाशनः ॥१३१॥
हेमगर्भो महागर्भो जयश्च विजयेश्वरः ।
त्वं कर्ता त्वं विधाता च नित्यो नित्यारिमर्दनः ॥१३२॥
महासेनो महातेज वीरसेनश्च भूपतिः ।
सिद्धासनः सुराध्यक्षो भीमसेनो निरामयः ॥१३३॥
शौरिर्यदुर्महातेजा वीर्यवान्सत्यविक्रमः ।
तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्ज्जितः ॥१३४॥
कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः ।
सुव्रतः सूर्यसङ्काशो वह्निगर्भः कणो भुवः ॥१३५॥
पिप्पली शीघ्रगो रौद्री गाङ्गेयो रिपुदारणः ।
कार्त्तिकेयः प्रभुः क्षन्ता नीलदंष्ट्रो महामनाः ॥१३६॥
निग्रहो निग्रहाणां च नेता त्वं सुरनन्दनः ।
प्रग्रहः परमानन्दः क्रोधघ्नस्तार उच्छ्रितः ॥१३७॥
कुक्कुटी बहुली दिव्यः कामदो भूरिवर्धनः ।
अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वमोदनः ॥१३८॥
अव्ययो ह्यमरः श्रीमानुन्नतो ह्यग्निसम्भवः ।
पिशाचराजः सूर्याभः शिवात्मा शिवनन्दनः ॥१३९॥
अपारपारो दुर्ज्ञेयः सर्वभूतहिते रतः ।
अग्राह्यः कारणं कर्ता परमेष्ठी परं पदम् ॥१४०॥
अचिन्त्यः सर्वभूतात्मा सर्वात्मा त्वं सनातनः ।
एवं स सर्वभूतानां संस्तुतः परमेश्वरः ॥१४१॥
नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा ।
प्रसन्नमूर्तिराहेदं मुनीन्द्रं व्रियतामिति ॥१४२॥
मम त्वया द्विजश्रेष्ठ स्तुतिरेषा निरूपिता ।
भविष्यति मनोऽभीष्टप्राप्तये प्राणिनां भुवि ॥१४३॥
विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम् ।
न राक्षसाः पिशाचा वा न भूतानि न चापदः ॥१४४॥
विघ्नकारीणि तद्गेहे यत्रैव संस्तुवन्ति माम् ।
दुःस्वप्नं च न पश्येत्स बद्धो मुच्यते बन्धनात् ॥१४५॥
स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत् ॥
इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, कौमारिकाखण्डे,
एकोनत्रिंशाध्यायान्तर्गतं विश्मित्रप्रोक्तं स्कन्दाष्टोत्तर-
शतनामस्तोत्रं समाप्तम् ।
N/A
References : N/A
Last Updated : December 30, 2025

TOP