श्रीविष्णोरष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अष्टोत्तरशतस्थानेष्वाविर्भूतं जगत्पतिम् ।
नमामि जगतामीशं नारायणमनन्यधीः ॥१॥
श्रीवैकुण्ठे वासुदेवमामोदे कर्षणाह्वयम् ।
प्रद्युम्नं च प्रमोदाख्ये सम्मोदे चानिरुद्धकम् ॥२॥
सत्यलोके तथा विष्णुं पद्माक्षं सूर्यमण्डले ।
क्षीराब्धौ शेषशयनं श्वेतद्वीपेतु तारकम् ॥३॥
नारायणं बदर्याख्ये नैमिषे हरिमव्ययम् ।
शालग्रामं हरिक्षेत्रे अयोध्यायां रघूत्तमम् ॥४॥
मथुरायां बालकृष्णं मायायां मधुसूदनम् ।
काश्यां तु भोगशयनमवन्त्यामवनीपतिम् ॥५॥
द्वारवत्यां यादवेन्द्रं व्रजे गोपीजनप्रियम् ।
वृन्दावने नन्दसूनुं गोविन्दं कालियह्रदे ॥६॥
गोवर्धने गोपवेषं भवघ्नं भक्तवत्सलम् ।
गोमन्तपर्वते शौरिं हरिद्वारे जगत्पतिम् ॥७॥
प्रयागे माधवं चैव गयायां तु गदाधरम् ।
गङ्गासागरगे विष्णुं चित्रकूटे तु राघवम् ॥८॥
नन्दिग्रामे राक्षसघ्नं प्रभासे विश्वरूपिणम् ।
श्रीकूर्मे कूर्ममचलं नीलाद्रौ पुरुषोत्तमम् ॥९॥
सिंहाचले महासिंहं गदिनं तुलसीवने ।
घृतशैले पापहरं श्वेताद्रौ सिंहरूपिणम् ॥१०॥
योगानन्दं धर्मपुर्यां काकुले त्वान्ध्रनायकम् ।
अहोबिले गारुडाद्रौ हिरण्यासुरमर्दनम् ॥११॥
विट्ठलं पाण्डुरङ्गे तु वेङ्कटाद्रौ रमासखम् ।
नारायणं यादवाद्रौ नृसिंहं घटिकाचले ॥१२॥
वरदं वारणगिरौ काञ्च्यां कमललोचनम् ।
यथोक्तकारिणं चैव परमेशपुराश्रयम् ॥१३॥
पाण्डवानां तथा दूतं त्रिविक्रममथोन्नतम् ।
कामासिक्यां नृसिंहं च तथाष्टभुजसज्ञकम् ॥१४॥
मेघाकारं शुभाकारं शेषाकारं तु शोभनम् ।
अन्तरा शितिकण्ठस्य कामकोट्यां शुभप्रदम् ॥१५॥
कालमेघं खगारूढं कोटिसूर्यसमप्रभम् ।
दिव्यं दीपप्रकाशं च देवानामधिपं मुने ॥१६॥
प्रवालवर्णं दीपाभं काञ्च्यामष्टादशस्थितम् ।
श्रीगृध्रसरसस्तीरे भान्तं विजयराघवम् ॥१७॥
वीक्षारण्ये महापुण्ये शयानं वीरराघवम् ।
तोताद्रौ तुङ्गशयनं गजार्तिघ्नं गजस्थले ॥१८॥
महाबलं बलिपुरे भक्तिसारे जगत्पतिम् ।
महावराहं श्रीमुष्णे महीन्द्रे पद्मलोचनम् ॥१९॥
श्रीरङ्गे तु जगन्नाथं श्रीधामे जानकीप्रियम् ।
सारक्षेत्रे सारनाथं खण्डने हरचापहम् ॥२०॥
श्रीनिवासस्थले पूर्णं सुवर्णं स्वर्णमन्दिरे ।
व्याघ्रपुर्यां महाविष्णुं भक्तिस्थाने तु भक्तिदम् ॥२१॥
श्वेतह्रदे शान्तमूर्तिमग्निपुर्यां सुरप्रियम् ।
भर्गाख्यं भार्गवस्थाने वैकुण्ठाख्ये तु माधवम् ॥२२॥
पुरुषोत्तमे भक्तसखं चक्रतीर्थे सुदर्शनम् ।
कुम्भकोणे चक्रपाणिं भूतस्थाने तु शार्ङ्गिणम् ॥२३॥
कपिस्थले गजार्तिघ्नं गोविन्दं चित्रकूटके ।
अनुत्तमं चोत्तमायां श्वेताद्रौ पद्मलोचनम् ॥२४॥
पार्थस्थले परब्रह्म कृष्णाकोट्यां मधुद्विषम् ।
नन्दपुर्यां महानन्दं वृद्धपुर्यां वृषाश्रयम् ॥२५॥
असङ्गं सङ्गमग्रामे शरण्ये शरणं महत् ।
दक्षिणद्वारकायां तु गोपालं जगतां पतिम् ॥२६॥
सिंहक्षेत्रे महासिंहं मल्लारिं मणिमण्डपे ।
निबिडे निबिडाकारं धानुष्के जगदीश्वरम् ॥२७॥
मौहूरे कालमेघं तु मधुरायां तु सुन्दरम् ।
वृषभाद्रौ महापुण्ये परमस्वामिसज्ञकम् ॥२८॥
श्रीमद्वरगुणे नाथं कुरुकायां रमासखम् ।
गोष्ठीपुरे गोष्ठपतिं शयानं दर्भसंस्तरे ॥२९॥
धन्विमङ्गलके शौरिं बलाढ्यं भ्रमरस्थले ।
कुरङ्गे तु तथा पूर्णं कृष्णामेकं वटस्थले ॥३०॥
अच्युतं क्षुद्रनद्यां तु पद्मनाभमनन्तके ।
एतानि विष्णोः स्थानानि पूजितानि महात्मभिः ॥३१॥
अधिष्ठितानि देवेश तत्रासीनं च माधवम् ।
यः स्मरेत्सततं भक्त्या चेतसानन्यगामिना ॥३२॥
स विधूयातिसंसारबन्धं याति हरेः पदम् ।
अष्टोत्तरशतं विष्णोः स्थानानि पठता स्वयम् ॥३३॥
अधीताः सकला वेदाः कृताश्च विविधा मखाः ।
सम्पादिता तथा मुक्तिः परमानन्ददायिनी ॥३४॥
अवगाढानि तीर्थानि ज्ञातः स भगवान् हरिः ।
आद्यमेतत्स्वयं व्यक्तं विमानं रङ्गसज्ञकम् ।
श्रीमुष्णं वेङ्कटाद्रिं च शालग्रामं च नैमिषम् ॥३५॥
तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥३६॥
॥ इति श्रीविष्णोरष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 28, 2025

TOP