संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीनिम्बार्काष्टोत्तरशतनामस्तोत्रम्

श्रीनिम्बार्काष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीसदानन्दभट्टप्रणीतं -
नमस्कृत्य प्रवक्ष्यामि श्रीमदाचार्यसद्गुरुम् ।
तन्नाम्नामष्टोत्तरशतं कृष्णभक्तिविवर्द्धनम् ॥१॥

ॐ आनन्दः परमानन्दः सूत्रभाष्य-प्रकाशकः ।
जीवोद्धारप्रयत्नामा स्मृतमात्रार्त्तिनाशनः ॥२॥

श्री भगावत-गुप्तार्थ-प्रबोधन-परायणः ।
साकारब्रह्मवादी च व्यापको ब्रह्मपारगः ॥३॥

माया-ध्वान्त-निराकर्त्ता व्यर्थवाद-निरासकृत् ।
भक्ति-पङ्कज-मार्त्तण्डो निम्बवृक्षविभाकरः ॥४॥

सर्वाचार्यप्रियः कृष्ण-बल्लवी-प्रिय-मानदः ।
लक्ष्मीकान्तो द्विजश्रेष्ठो महाकारुणिकः प्रभुः ॥५॥

अनन्तदानदक्षश्च महादेव-चरित्रवान् ।
आगमानुकृति-ब्याज-मोहितासुरमानुषः ॥६॥

आनन्दपूर्णाब्धिदेहो वैष्णवो हितकृत्सताम् ।
व्रजभोगार्थ-सद्रूप-भक्तिकृत् परमेश्वरः ॥७॥

सर्ववैष्णवसम्पन्नः श्रीविष्णुज्ञानदो मुनिः ।
स्वानन्द-चिक्कणः पद्म-दलायत-विलोचनः ॥८॥

कृपा-पीयूष-सञ्जुष्ट-वेद-पद्म-प्रभाकरः ।
रोष दृष्ट्या च सन्दग्ध-भक्त-शत्रुः स्वसेवितः ॥९॥

सुखपूर्णः सुखाराध्यः शीतलाङ्घ्रिसरोरुहः ।
भक्तप्रतापो भक्तादिर्भक्त-काम-प्रपूरितः ॥१०॥

श्रीभागवत-तात्पर्य्य-समुद्र-मथने क्षमः ।
वेदान्त-सारवाक् सिन्धु-तर्पिताखिलसेवकः ॥११॥

सामीप्य-भक्त-दत्तश्रीकृष्णप्रेमाऽखिलेष्टदः ।
कृष्णक्रीडारतो नित्यं दययैतत्कथाप्रदः ॥१२॥

कमलाधवभक्त्यर्थ-सर्वनामोपदेशकः ।
कर्माचारोपदेष्टा च भक्ति-मार्ग-प्रवर्त्तकः ॥१३॥

विश्वेन्द्रो धर्मकर्त्ता च धर्मकालो द्विजेश्वरः ।
सर्वानन्दः सर्वकामः कालभानुर्मुनीश्वरः ॥१४॥

गोपिकायशविस्तारवक्ता तत्परसाधनः ।
जीवाचारोपदेशार्थ-भक्ति-ग्रन्थ-निरूपकः ॥१५॥

शान्तो जितारिषड्वर्गों यशोदा-प्रियचेष्टितः ।
स्वशिष्यार्थ-कृताभ्यासः सर्वविद्या-विशारदः ॥१६॥

हरि-भक्ति-स्वभावो हि कृपा-सागरयत्नवान् ।
व्रजे संस्थापितप्राणो व्रजपालो व्रजाधिपः ॥१७॥

दयालुर्भेदभर्त्ता च भेदवादे सहायवान् ।
तमालश्यामलाङ्गो हि सिंहग्रीवो महाभुजः ॥१८॥

उपासनादिकर्त्ता च मुग्ध-मोह-विनाशकः ।
वाजपेय-सोमयज्ञ-चातुर्मास्यानुभूतिकृत् ॥१९॥

बकारिपद-सेवोपदेष्टा श्रीगोपिका-प्रियः ।
सुलक्षण-निकुञ्जस्थो गोपीश-रस-पूरितः ॥२०॥

भक्त-गम्यो हितप्रियो विस्मृतान्यो जनार्दनः ।
जनार्दनस्थितिः शुद्धलीलाकर्त्ता गतस्मयः ॥२१॥

गोपीनाथप्रियो गोपीज्ञानदाता विमोहनः ।
रामेषुप्राणाक्षरोक्त्या सद्यः पतित-पावनः ॥२२॥

हरिभक्त्योक्तसुहृदः स्वदयाम्बुजविष्टरः ।
गदी पद्मी सुयज्ञज्ञो दैत्यशत्रु-विमुक्तिदः ॥२३॥

लीलामृत-रसास्वाद-कृपा-जनशरीरभृत् ।
गोवर्द्धन-कृतोत्साहस्तल्लीलाप्रेममन्दिरः ॥२४॥

मोक्षकर्त्ता मोक्षभोक्ता चतुर्वेद-विशारदः ।
सत्यस्वभावस्त्रिगुणातीतः सुनय-कोविदः ॥२५॥

स्वकीर्त्तिगीताभाष्येन्दुर्वेदभाष्य-प्रदर्शकः ।
मायावादाख्यतूलाग्निः कृष्णवाक्य-निरूपकः ॥२६॥

अनन्त-भक्त-संराध्य-चरणाम्बुज-कोशभूः ।
इत्यानन्दविभोः प्रोक्तं नाम्नामष्टोत्तरं शतम् ॥२७॥

श्रद्धाविदोषबुद्धियो जपत्यनुदिनं बुधम् ।
चरणैकमनाः शुद्धमुक्तिं प्राप्नोत्यसंशयः ॥२८॥

यो जपेत्प्रातरुत्थाय निम्बार्कस्य महात्मनः ।
श्रद्धया पूरितः प्रोक्तं भक्तिविघ्नविनाशनम् ॥२९॥

प्रेमभक्तिर्भवेत्तस्य केशवे नात्र संशयः ।
अपारकष्टयुक्तोऽपि मुच्यते कष्टसकटात् ॥३०॥

सदानन्देन भट्टेन विष्णु-भक्ति-यशोऽर्थिना ।
प्रियावल्लभदासेन कृतं निम्बार्क-संस्तवम् ॥३१॥

स्वान्तान्धकारहन्तारं कर्त्तारं शुभकर्मणाम् ।
अभीष्ट-फलदातारं श्रीनिम्बार्कमहं भजे ॥३२॥

॥ इति श्रीसदानन्दभट्टप्रणीतं
 श्रीनिम्बार्काष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP