संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम्

श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्री हयग्रीवाय नमः ।
हरिः ॐ

कल्की कल्की कल्किहन्ता कल्किजित्कलिमारकः ।
कल्क्यलभ्यः कल्मषघ्नः कल्पितक्षोणिमङ्गलः ॥१॥

कलिताश्वाकृतिः कन्तुसुन्दरः कञ्जलोचनः ।
कल्याणमूर्तिः कमलाचित्तचोरः कलानिधिः ॥२॥

कमनीयः कलिनिशाकल्यनामा कनत्तनुः ।
कलानिधिसहस्राभा कपर्दिगिरिसन्निभः ॥३॥

कन्दर्पदर्पदमनः कण्ठीरवपराक्रमः ।
कन्धरोच्चलितश्वेतपटानिर्धूतकन्धरः ॥४॥

कठोरहेषानिनदत्रासिताशेषमानुषः ।
कविः कवीन्द्रसंस्तुत्यः कमलासनसन्नुतः ॥५॥

कनत्खुराग्रकुलिशचूर्णीकृताखिलाचलः ।
कचित्तदर्पदमनगमनस्तम्भिताहिपः ॥६॥

कलाकुलकलाजालचलवालामलाचलः ।
कल्याणकान्तिसन्तान पारदक्षालिताखिलः ॥७॥

कल्पद्रुकुसुमाकीर्णः कलिकल्पमहीरुहः ।
कचन्द्राग्नीन्द्ररुद्रादि बुधलोकमयाकृतिः ॥८॥

कञ्जासनाण्डामितात्मप्रतापः कन्धिबन्धनः ।
कठोरखुरविन्यासपीडिताशेषभूतलः ॥९॥

कबलीकृतमार्ताण्डहिमांशुकिरणाङ्कुरः ।
कदर्थीकृतरुद्रादिवीरवर्यः कठोरदृक् ॥१०॥

कविलोकामृतासार वर्षायितदृगावलिः ।
कदात्मायुर्घृतग्राहिकोपाग्निरुचिदृक्ततिः ॥११॥

कठोरश्वासनिर्धूतखलतूलावृताम्बुधिः ।
कलानिधिपदोद्भेदलीलाकृतसमुत्प्लवः ॥१२॥

कठोरखुरनिर्भेदक्रोशदाकाशसंस्तुतः ।
कञ्जास्याण्डबिभित्योर्थ्वदृष्टिश्रुतियुगाद्भुतः ॥१३॥

कनत्पक्षद्वयव्याज शङ्खचक्रोपशोभितः ।
कदर्थीकृतकौबेरशङ्खश्रुतियुगाञ्चितः ॥१४॥

कलितांशुगदावालः कण्ठसन्मणिविभ्रमः ।
कलानिधिलसत्फालः कमलालयविग्रहः ॥१५॥

कर्पूरखण्डरदनः कमलाबडबान्वितः ।
करुणासिन्धुफेनान्तलम्बमानाधरोष्टकः ॥१६॥

कलितानन्तचरणः कर्मब्रह्मसमुद्भवः ।
कर्मब्रह्माब्जमार्ताण्डः कर्मब्रह्मद्विरर्दनः ॥१७॥

कर्मब्रह्ममयाकारः कर्मब्रह्मविलक्षणः ।
कर्मब्रह्मात्यविषयः कर्मब्रह्मस्वरूपवित् ॥१८॥

कर्मास्पृष्टः कर्महीनः कल्याणानन्दचिन्मयः ।
कञ्जासनाण्डजठरः कल्पिताखिलविभ्रमः ॥१९॥

कर्मालसजनाज्ञेयः कर्मब्रह्ममतासहः ।
कर्माकर्मविकर्मस्थः कर्मसाक्षी कभासकः ॥२०॥

कचन्द्राग्न्युडुतारादिभासहीनः कमध्यगः ।
कचन्द्रादित्यलसनः कलावार्ताविवर्जितः ॥२१॥

करुद्रमाधवमयः कलाभूतप्रमातृकः ।
कलितानन्तभुवन सृष्टिस्थितिलयक्रियः ॥२२॥

करुद्रादि तरङ्गाध्यस्वात्मानन्दपयोदधिः ।
कलिचित्तानन्दसिन्धुसम्पूर्णानङ्कचन्द्रमाः ॥२३॥

कलिचेतस्सरोहंसः कलिताखिलचोदनः ।
कलानिधिवरज्योत्स्नामृतक्षालितविग्रहः ॥२४॥

कपर्दिमकुटोदञ्चद्गङ्गापुष्करसेवितः ।
कञ्जासनात्ममोदाब्धितरङ्गार्द्रानिलार्चितः ॥२५॥

कलानिधिकलाश्वेतशारदाम्बुदविग्रहः ।
कमलावाङ्मरन्दाब्धिफेनचन्दनचर्चितः ॥२६॥

कलितात्मानन्दभुक्तिः करुङ्नीराजिताकृतिः ।
कश्यपादिस्तुतख्यातिः कविचेतस्सुमार्पणः ॥२७॥

कलिताकारसद्धर्मः कलाफलमयाकृतिः ।
कठोरखुरघातात्तप्राणाधर्मवशुः कलिजित् ॥२८॥

कलापूर्णीकृतवृषः कल्पितादियुगस्थितिः ।
कम्रः कल्मषपैशाचमुक्ततुष्टधरानुतः ॥२९॥

कर्पूरधवलात्मीय कीर्तिव्याप्तदिगन्तरः ।
कल्याणात्मयशोवल्लीपुष्पायितकलानिधिः ॥३०॥

कल्याणात्मयशस्सिन्धु जाताप्सरसनर्तितः ।
कमलाकीर्तिगङ्गाम्भः परिपूर्णयशोम्बुधिः ॥३१॥

कमलासनधीमन्थमथितानन्दसिन्धुभू ।
कल्याणसिन्धुः कल्याणदायी कल्याणमङ्गलः ॥३२॥

॥ इति ककारादि कल्क्यष्टोत्तरशतनाममूलं लिखितं रामेण
पराभवाश्वयुज बहुल चतुर्थ्याम् समर्पितं च
श्रीमते हयग्रीवाय देवाय ॥

N/A

References : N/A
Last Updated : December 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP