महात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
(अथ श्रीकालीविलासतन्त्रे एकादशपटलः ।)
श्रीदेव्युवाच ।
महात्रिपुरसुन्दर्याः शतनामानि साम्प्रतम् ।
कथ्यन्तां मे दया नाथ यद्यप्यस्ति तदा मयि ॥१॥
श्रीतामस उवाच ।
शृणु चार्वङ्गि वक्ष्यामि सावधानाऽवधारय ।
यन्त्रोक्तं सर्वतन्त्रेषु अधुना निगदामि ते ॥२॥
अस्य श्रीत्रिपुरसुन्दरी-शतनामस्तोत्रस्य परं
ब्रह्मऋषिर्गायत्रीच्छन्दो महात्रिपुरसुन्दरी
देवता धर्मार्थ-काम-मोक्षेषु विनियोगः ॥
ॐ महामाया महादेवी मेनका मेघगर्जिनी ।
मोहिनी हरिणाक्षी च हारिणी हरवल्लभा ॥३॥
हरिपूज्या हराराध्या हेरा हेमवती हरा ।
हेमरूपा च हेमा च हेमाभरणभूषिता ॥४॥
रङ्गिणीरङ्गरूपा च राधा वृन्दावनेश्वरी ।
वलावलवती बाला बालिका वेशधारिणी ॥५॥
वयस्था वेशधा चैव विद्या श्रीविष्णुपूजिता ।
वियद्गङ्गा व्योमगङ्गा विशाला विश्वमोहिनी ॥६॥
रङ्गिणी रङ्गणीया च रणभूमिकतालया ।
पूता पवित्रा परमा परा पुण्याविभूषण ॥७॥
पुण्यनाम्नी पापहन्त्री पापारिः पापनाशिनी ।
पुण्यदा पुण्यकीर्त्तिश्च पुण्यश्लोका च पावनी ॥८॥
रूपमाला रूपवती रसावेशपरिच्छदा ।
रक्षणी रक्षणीया च रुक्ममाला विभूषणा ॥९॥
रसरूपा रसोल्लासा रसानघपरिच्छदा(१) ।
रम्भारामा च रम्या च रमणी रामपूजिता ॥१०॥
सौभाग्या सुवशासाध्वी सत्यासत्यस्वरूपिणी ।
त्रिगुणात्रिगुणाराध्या त्रिवेदी त्रिगुणेश्वरी ॥११॥
त्रिमूर्तिस्त्रिदशाराध्या त्रयोत्रिदिवसुन्दरी ।
सुखदा सुमुखी सुभ्रुः सुवेशी वेशधारिणी ॥१२॥
आनन्दा नन्दिनी नन्दा परमानन्दरूपिणी ।
ईश्वरी ईश्वराराध्या रक्तपद्मसमप्रभा ॥१३॥
राकारम्या रक्तदेहा रमणी ब्रह्ममोहिनी ।
योगिनीनां स्वरूपा च ब्रह्माण्डजननी परा ॥१४॥
नामाक्षरात् समुद्धृत्य दशनाम इतीरितम् ।
चन्दोऽस्य च प्रवक्ष्यामि शृणु पार्वति सारदे(२) ॥१५॥
अस्य श्रीत्रिपुरसुन्दरी शतनामस्तोत्रस्य परं
ब्रह्मऋषिः श्रीमहात्रिपुरसुन्दरी
देवता-धर्मार्थकाममोक्षेषु विनियोगः ॥
दशधा मन्त्रमुच्चार्य ततश्छन्दः पठेत्सुधीः ।
ततः स्तोत्रं पठित्वा तु सर्वसिद्धीश्वरः कलौ ॥१६॥
भवत्येव न सन्देहः त्रिसन्ध्यं कमलेक्षणे ।
लक्षावर्त्तनमात्रेण अष्टैश्वर्यमयो भवेत् ॥१७॥
मद्यञ्च मैथुनं भद्रे परयोनौ परित्यजेत् ।
परयोनौ महेशानि रेतः पातञ्च वर्ज्जयेत् ॥१८॥
रेतः पातान्मद्यपानात् सिद्धिहानिः पदे पदे ॥१९॥
इति श्रीकालीविलासतन्त्रे त्रिपुरसुन्दरी शतनामस्तोत्रं समाप्तम् ।
ॐ तत्सदित्यादि ।
इति श्रीकालीविलासतन्त्रे एकादशपटलः समाप्तः ।
N/A
References : N/A
Last Updated : December 26, 2025

TOP