श्रीराधिकाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अवीक्षितेश्वरी काचिद्वृन्दावनमहेश्वरीम् ।
तत्पदाम्भोजमात्रैकगतिः दास्यतिकातरा ॥१॥
पतिता तत्सरस्तीरे रुदत्यार्तरवाकुलम् ।
तच्छ्रीवक्त्रेक्षणप्राप्त्यै नामान्येतानि सञ्जगौ ॥२॥
राधा गन्धर्विका गोष्ठयुवराजैककामिता ।
गन्धर्वाराधिता चन्द्रकान्तिर्माधवसङ्गिनी ॥३॥
दामोदराद्वैतसखी कार्तिकोत्कीर्तिदेश्वरी ।
मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जरी ॥४॥
भास्करोपासिका वार्षभानवी वृषभानुजा ।
अनङ्गमञ्जरीज्येष्ठा श्रीदामावरजोत्तमा ॥५॥
कीर्तिदाकन्यका मातृस्नेहपीयूषपुत्रिका ।
विशाखासवयाः प्रेष्ठविशाखाजीविताधिका ॥६॥
प्राणाद्वितीयाललिता वृन्दावनविहारिणी ।
ललिताप्राणरक्षैकलक्षा वृन्दावनेश्वरी ॥७॥
व्रजेन्द्रगृहिणी कृष्णप्रायस्नेहनिकेतनम् ।
व्रजगोगोपगोपालीजीवमात्रैकजीवनम् ॥८॥
स्नेहलाभीरराजेन्द्रा वत्सलाच्युतपूर्वजा ।
गोविन्दप्रणयाधारा सुरभीसेवनोत्सुका ॥९॥
धृतनन्दीश्वरक्षेमा गमनोत्कण्ठिमानसा ।
स्वदेहाद्वैततादृश्टाधनिष्ठाध्येयदर्शना ॥१०॥
गोपेन्द्रमहिषीपाकशालावेदिप्रकाशिका ।
आयुर्वर्धाकरद्वानारोहिणीघ्रातमस्तका ॥११॥
सुबलान्यस्तसारूप्या सुबलाप्रीतितोषिता ।
मुखरादृक्सुधानप्त्री जटिलादृष्टिभासिता ॥१२॥
मधुमङ्गलनर्मोक्तिजनितस्मितचन्दिरका ।
मुखरादृक्सुधानप्त्री जटिलादृष्टिभासिता ॥१२॥
मधुमङ्गलनर्मोक्तिजनितस्मितचन्दिरका ।
पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिका ॥१३॥
स्वगुणाद्वैतजीवातुः स्वीयाहङ्कारवर्धिनी ।
स्वगणोपेन्द्रपादाब्जस्पर्शालम्भनहर्षिणी ॥१४॥
स्वीयब्रुन्दावनोद्यानपालिकीकृतवृन्दका ।
ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा ॥१५॥
ईषच्चन्दनसङ्घृष्ट नवकाश्मीरदेहभाः ।
जपापुष्पप्रीतहरी पट्टचीनारुणाम्बरा ॥१६॥
चरणाब्जतलज्योतिररुणीकृतभूतला ।
हरिचित्तचमत्कारि चारुनूपुरनिःस्वना ॥१७॥
कृष्णश्रान्तिरश्रेणीपीठवल्गितघण्टिका ।
कृष्णसर्वस्वपीनोद्यत्कुचाञ्चन्मणिमालिका ॥१८॥
नानारत्नेल्लसच्छङ्खचूडचारुभुजद्वया ।
स्यमन्तकमणिभ्राजन्मणिबन्धातिबन्धुरा ॥१९॥
सुवर्णदर्पणज्योतिरुल्लङ्घिमुखमण्डला ।
पक्वदाडिमबीजाभ दन्ताकृष्टाघभिच्छुका ॥२०॥
अब्जरागादिसृष्टाब्जकलिकाकर्णभूषणा ।
सौभाग्यकज्जलाङ्काक्त नेत्रानन्दितखञ्जना ॥२१॥
सुवृत्तमौकित्कामुक्तानासिकातिलपुष्पिका ।
सुचारुनवकस्तूरीतिलकाञ्चितभालका ॥२२॥
दिव्यवेणीविनिर्धूतकेकीपिञ्चवरस्तुतिः ।
नेत्रान्तसारविध्वंसकृतचाणूरजिद्धृतिः ॥२३॥
स्फुरत्कैशोरतारुण्यसन्धिबन्धुरविग्रहा ।
माधवोल्लासकोन्मत्त पिकोरुमधुरस्वरा ॥२४॥
प्राणायुतशतप्रेष्ठमाधवोत्कीर्तिलम्पटा ।
कृष्णापाङ्गतरङ्गोद्यत्सिमतपीयूषबुद्धुदा ॥२५॥
पुञ्जीभूतजग्गलज्जावैदग्धीदिग्धविग्रहा ।
करुणाविद्रवद्देहा मूर्तिमन्माधुरीघटा ॥२६॥
जगद्गुणवतीवर्गगीयमानगुणोच्चया ।
शच्यादिसुभगावृन्दवन्द्यमानोरुसौभगा ॥२७॥
वीणावादनसङ्गीत रसलास्यविशारदा ।
नारदप्रमुखोद्गीतजगदानन्दिसद्यशाः ॥२८॥
गोवर्धनगुहागेहगृहिणीकुञ्जमण्डना ।
चण्डांशुनन्दिनीबद्धभगिनीभावविभ्रमा ॥२९॥
दिव्यकुन्दलतानर्मसख्य दामविभूषणा ।
गोवर्धनधराह्णादि शृङ्गाररसपण्डिता ॥३०॥
गिरीन्द्रधरवक्षः श्रीः शङ्खचूडारिजीवनम् ।
गोकुलेन्द्रसुतप्रेमकामभूपेन्द्रपट्टणम् ॥३१॥
वृषविध्वंसनर्मोक्ति स्वनिर्मितसरोवरा ।
निजकुण्डजलक्रीडाजितसङ्कर्षणानुजा ॥३२॥
मुरमर्दनमत्तेभविहारामृतदीर्घिका ।
गिरीन्द्रधरपारिन्द्ररतियुद्धरुसिंहिका ॥३३॥
स्वतनूसौरभोन्मत्तीकृतमोहनमाधवा ।
दोर्मूलोच्चलनक्रीडाव्याकुलीकृतकेशवा ॥३४॥
निजकुण्डततीकुञ्ज क्लृप्तकेलीकलोद्यमा ।
दिव्यमल्लीकुलोल्लासि शय्याकल्पितविग्रहा ॥३५॥
कृष्णवामभुजन्यस्त चारुदक्षिणगण्डका ।
सव्यबाहुलताबद्धकृष्णदक्षिणसद्भुजा ॥३६॥
कृष्णदक्षिणचारूरुश्लिष्टवामोरुरम्भिका ।
गिरीन्द्रधरदृग्वक्षेमर्दिसुस्तनपर्वता ॥३७॥
गोविन्दाधरपीयूषवासिताधरपल्लवा ।
सुधासञ्चयचारूक्ति शीतलीकृतमाधवा ॥३८॥
गोविन्दोद्गीर्णताम्बूल रागरज्यत्कपोलिका ।
कृष्णसम्भोग सफलीकृतमन्मथसम्भवा ॥३९॥
गोविन्दमार्जितोद्दामरतिप्रस्विन्नसन्मुखा ।
विशाखाविजितक्रीडाशान्तिनिद्रालुविग्रहा ॥४०॥
गोविन्दचरणन्यस्तकायमानसजीवना ।
स्वप्राणार्बुदनिर्मच्छय हरिपादरजः कणा ॥४१॥
अणुमात्राच्युतादर्शशय्यमानात्मलिचना ।
नित्यनूतनगोविन्दवक्त्रशुभ्रांशुदर्शना ॥४२॥
निःसीमहरिमाधुर्यसौन्दर्याद्येकभोगिनी ।
सापत्न्यधाममुरलीमात्रभाग्यकटाक्षिणी ॥४३॥
गाढबुद्ध्बलक्रीडाजितवंशीविकर्षिणी ।
नर्मोक्तिचन्दिरकोत्फुल्ल कृष्णकामाब्धिवर्धिनी ॥४४॥
व्रजचन्द्रेज्दिरयग्राम विश्रामविधुशालिका ।
कृष्णसर्वेन्दिरयोन्मादि राधेत्यक्षरयुग्मका ॥४५॥
इदं श्रीराधिकानाम्नामष्टोत्तरशतोज्ज्वलम् ।
श्रीराधलम्भकं नाम स्तोत्रं चारु रसायनम् ॥४६॥
योऽधीते परमप्रीत्या दीनः कातरमानसः ।
स नाथामचिरेणैव सनाथामीक्षते ध्रुवम् ॥४७॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीराधिकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 26, 2025

TOP