संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र| श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रम् अष्टोत्तरशतनामस्तोत्र श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम् श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम् तुलस्यष्टोत्तरशतनामस्तोत्रं नृसिंहाष्टोत्तरशतनामस्तोत्रम् सरस्वत्यष्टोत्तरशतनामस्तोत्रम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् गौर्यष्टोत्तरशतनामस्तोत्रम् श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ललिताष्टोत्तरशतनामस्तोत्रम् सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम् लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम् श्री सीता अष्टोत्तरशतनामस्तोत्रम् श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं सहस्रशीर्ष्णे वै तुभ्यं स... गणेशहेरंबगजाननेति महोदर! ... श्री देव्युवाच- देव देव म... श्रीशंकराचार्यवर्यश्च ब्र... महाशास्ता महादेवो महादेवस... रजताचलशृंगाग्रमध्यस्थायै ... वासुदेवं हृषीकेशं वामनं ज... अग्नेः अष्टोत्तरशतनामस्तोत्रम् श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम् श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम् अवलोकितेश्वराष्टोत्तरशतनामस्तोत्रम् आकाशगर्भनामाष्टोत्तरशतस्तोत्रम् श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम् बटुकभैरवाष्टोत्तरशतनामस्तोत्रम् आर्यताराष्टोत्तरशतनामस्तोत्रम् आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् इन्दिराष्टोत्तरशतनामस्तोत्रम् उमाऽष्टोत्तरशतनामस्तोत्रम् कालीशतनामस्तोत्रं सम्पूर्णम् ॥ श्रीकमलाष्टोत्तरशतनामस्तोत्रम् कार्तिकेयशताष्टनामस्तोत्रम् श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम् आद्या कालिकादेव्याः शतनामस्तोत्रम् कालिकाशतनामस्तोत्रम् श्रीकालीशतनामस्तोत्रम् कालीशतनामस्तोत्रम् श्रीकिरातशास्तुः अष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीकेतु अष्टोत्तरशतनामस्तोत्रम् श्रीगङ्गाष्टोत्तरशतनामस्तोत्रम् श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनामस्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम् गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम् श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम् श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम् श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम् श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम् श्रीगोदाष्टोत्तरशतनामस्तोत्रम् श्रीगोदाष्टोत्तरशतनामस्तोत्रम् श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम् गौरीपतिशतनामस्तोत्रम् गौर्यष्टोत्तरशतनामस्तोत्रम् श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् श्रीचामुण्डेश्वरी अष्टोत्तरशतनामस्तोत्रम् श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रम् श्रीजानकी अष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णोक्त झिल्लिरास्तोत्रम् श्रीताराशतनामस्तोत्रम् ताराशतनामस्तोत्रम् श्रीताराशतनामस्तोत्रम् दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् श्रीदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम् ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम् श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम् श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् श्रीवराहाष्टोत्तरशतनामस्तोत्रम् श्रीवामनाष्टोत्तरशतनामस्तोत्रम् श्रीवामनाष्टोत्तरशतनामस्तोत्रम् श्रीदक्षिणामूर्ति अष्टोत्तरशतनामस्तोत्र श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामस्तोत्रम् श्रीधन्वन्तर्यष्टोत्तरशतनामस्तोत्रम् श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम् श्रीधूमावत्यष्टोत्तरशतनामस्तोत्रम् नारायणाष्टोत्तरशतनामस्तोत्रम् नित्यानन्दाष्टोत्तरशतनामस्तोत्रम् श्रीनिम्बार्काष्टोत्तरशतनामस्तोत्रम् श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम् श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम् श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम् पकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम् श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम् श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम् श्रीपार्वत्यष्टोत्तरशतनामस्तोत्रम् श्रीपीताम्बराष्टोत्तरशतनामस्तोत्रम् श्रीवृन्दावनेश्वर्या अष्टोत्तरशतनामस्तोत्रं श्रीबगलाष्टोत्तरशतनामस्तोत्रम् श्रीबगलाष्टोत्तरशतनामस्तोत्रम् श्रीबगलाष्टोत्तरशतनामस्तोत्रम् श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् बटुकभैरवाष्टोत्तरशतनामस्तोत्रं श्रीबालाष्टोत्तरशतनामस्तोत्रम् १ श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रम् २ श्रीबालाष्टोत्तरशतनामस्तोत्रम् ३ श्रीबालाष्टोत्तरशतनामस्तोत्रम् ४ श्रीबालाष्टोत्तरशतनामस्तोत्रम् ५ बिल्वाष्टोत्तरशतनामस्तोत्रम् श्रीबुधाष्टोत्तरशतनामस्तोत्रम् श्रीभद्रकाल्यष्टोत्तरशतनामस्तोत्रम् श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् श्रीभैरव्यष्टोत्तरशतनामस्तोत्रम् भैरव्यष्टोत्तरशतनामस्तोत्रम् मन्त्रसिद्धिप्रदमहादुर्गाशतनामस्तोत्रम् श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रम् महाचक्रवर्तिनामाष्टोत्तरशतस्तोत्रम् महात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रम् माणिक्यवाचकाष्टोत्तरशतनामस्तोत्रम् श्रीमातङ्गीशतनामस्तोत्रम् मातङ्ग्यष्टोत्तरशतनामस्तोत्रम् श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रम् श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम् श्रीराधाष्टोत्तरशतनामस्तोत्रम् श्रीराधिकाष्टोत्तरशतनामस्तोत्रम् रामनामाष्टोत्तरशतरामायणम् रामानुजाष्टोत्तरशतनामस्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् रामाष्टोत्तरशतनामस्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् श्रीराहु अष्टोत्तरशतनामस्तोत्रम् श्रीरेणुका अष्टोत्तरशतनामस्तोत्रम् श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम् श्रीललितालकारादिशतनामस्तोत्रम् श्रीलक्ष्मीचन्द्रलाम्बाष्टोत्तरशतनामस्तोत्रम् श्रीलक्ष्मीनारायणाष्टोत्तरशतनामस्तोत्रम् लक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रम् श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् कृष्णलीलाशतनामस्तोत्रम् वज्रपाणिनामाष्टोत्तरशतस्तोत्रम् श्रीवराहाष्टोत्तरशतनामस्तोत्रम् वसुधारानामधारणीस्तोत्रम् श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रम् श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम् श्रीविठ्ठलाष्टोत्तरशतनामस्तोत्रम् श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम् श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रम् देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : ashtottar shatnam stotradevidevtasanskritstotraसंस्कृतस्तोत्र श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रम् Translation - भाषांतर कैलासशिखरे रम्ये सुखासीनं जगद्गुरुम् ।प्रणम्य परया भक्त्या पार्वती परिपृच्छति ॥१॥श्रीपार्वत्युवाच -त्वत्तः श्रुतं पुरा देव भैरवस्य महात्मनः ।नाम्नामष्टोत्तरशतं ककारादिमभीष्टदम् ॥२॥गुह्याद्गुह्यतरं गुह्यं सर्वाभीष्टार्थसाधकम् ।तन्मे वदस्व देवेश! यद्यहं तव वल्लभा ॥३॥श्रीशिवोवाच -लक्षवारसहस्राणि वारिताऽसि पुनः पुनः ।स्त्रीस्वभावान्महादेवि! पुनस्तत्त्वं तु पृच्छसि ॥४॥रहस्यातिरहस्यं च गोप्याद्गोप्यं महत्तरम् ।तत्ते वक्ष्यामि देवेशि! स्नेहात्तव शुचिस्मिते ॥५॥कूर्चयुग्मं महाकाल प्रसीदेति पदद्वयम् ।लज्जायुग्मं वह्निजाया राजराजेश्वरो महान् ॥६॥मन्त्रः -``ह्रूं ह्रूं महाकाल ! प्रसीद प्रसीद ह्रीं ह्रीं स्वाहा ।''मन्त्रग्रहणमात्रेण भवेत्सत्यं महाकविः ।गद्यपद्यमयी वाणी गङ्गा निर्झरणी यथा ॥विनियोगः -ॐ अस्य श्रीराजराजेश्वर श्रीमहाकालककाराद्यष्टोत्तरशतनाममालामन्त्रस्य श्रीदक्षिणाकालिका ऋषिः,विराट् छन्दः, श्रीमहाकालः देवता, ह्रूं बीजं, ह्रीं शक्तिः,स्वाहा कीलकं, सर्वार्थसाधने पाठे विनियोगः ॥ऋष्यादिन्यासः -श्रीदक्षिणाकालिका ऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे ।श्रीमहाकाल देवतायै नमः हृदि । ह्रूं बीजाय नमः गुह्ये ।ह्रीं शक्तये नमः पादयोः । स्वाहा कीलकाय नमः नाभौ ।विनियोगाय नमः सर्वाङ्गे ॥करन्यासः एवं हृदयादिन्यासः -ॐ ह्रां अङ्गुष्ठाभ्यां नमः, हृदयाय नमः ।ॐ ह्रीं तर्जनीभ्यां नमः, शिरसे स्वाहा ।ॐ ह्रूं मध्यमाभ्यां नमः, शिखायै वषट् ।ॐ ह्रैं अनामिकाभ्यां नमः, कवचाय हुम् ।ॐ ह्रौं कनिष्ठिकाभ्यां नमः, नेत्रत्रयाय वौषट् ।ॐ ह्रः करतलकरपृष्ठाभ्यां नमः, अस्त्राय फट् ॥ध्यानम् -कोटि कालानलाभासं चतुर्भुजं त्रिलोचनम् ।श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् ॥पञ्चप्रेतस्थितं देवं त्रिशूलं डमरुं तथा ।खड्गं च खर्परं चैव वामदक्षिणयोगतः ॥विश्चतं सुन्दरं देहं श्मशानभस्मभूषितम् ।नानाशवैः क्रीडमानं कालिकाहृदयस्थितम् ॥लालयन्तं रतासक्तं घोरचुम्बनतत्परम् ।गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् ॥जटापटल शोभाढ्यं सर्वशून्यालयस्थितम् ।सर्वशून्यमुण्डभूषं प्रसन्नवदनं शिवम् ॥अथ स्तोत्रम् ।ॐ कूं कूं कूं कूं शब्दरतः क्रूं क्रूं क्रूं क्रूं परायणः ।कविकण्ठस्थितः कै ह्रीं ह्रूं कं कं कवि पूर्णदः ॥१॥कपालकज्जलसमः कज्जलप्रियतोषणः ।कपालमालाऽऽभरणः कपालकरभूषणः ॥२॥कपालपात्रसन्तुष्टः कपालार्घ्यपरायणः ।कदम्बपुष्पसम्पूज्यः कदम्बपुष्पहोमदः ॥३॥कुलप्रियः कुलधरः कुलाधारः कुलेश्वरः ।कौलव्रतधरः कर्म कामकेलिप्रियः क्रतुः ॥४॥कलह ह्रींमन्त्रवर्णः कलह ह्रींस्वरूपिणः ।कङ्कालभैरवो देवः कङ्कालभैरवेश्वरः ॥५॥कादम्बरीपानरतः तथा कादम्बरीकलः ।करालभैरवानन्दः करालभैरवेश्वरः ॥६॥करालः कलनाधारः कपर्दीशवरप्रदः ।करवीरप्रियप्राणः करवीरप्रपूजनः ॥७॥कलाधारः कालकण्ठः कूटस्थः कोटराश्रयः ।करुणः करुणावासः कौतुकीकालिकापतिः ॥८॥कठिनः कोमलः कर्णः कृत्तिवासकलेवरः ।कलानिधिः कीर्तिनाथः कामेन हृदयङ्गमः ॥९॥कृष्णः काशीपतिः कौलः कुलचूडामणिः कुलः ।कालाञ्जनसमाकारः कालाञ्जननिवासनः ॥१०॥कौपीनधारी कैवर्तः कृतवीर्यः कपिध्वजः ।कामरूपः कामगतिः कामयोगपरायणः ॥११॥कामसम्मर्दनरतः कामगृहनिवासनः ।कालिकारमणः कालिनायकः कालिकाप्रियः ॥१२॥कालीशः कालिकाकान्तः कल्पद्रुमलतामतः ।कुलटालापमध्यस्थः कुलटासङ्गतोषितः ॥१३॥कुलटाचुम्बनोद्युक्तः कुलटाकुचमर्दनः ।केरलाचारनिपुणः केरलेन्द्रगृहस्थितः ॥१४॥कस्तूरीतिलकानन्दः कस्तूरीतिलकप्रियः ।कस्तूरीहोमसन्तुष्टः कस्तूरीतर्पणोद्यतः ॥१५॥कस्तूरीमार्जनोद्युक्तः कस्तूरीकुण्डमज्जनः ।कामिनीपुष्पनिलयः कामिनीपुष्पभूषणः ॥१६॥कामिनीकुण्डसंलग्नः कामिनीकुण्डमध्यगः ।कामिनीमानसाराध्यः कामिनीमानतोषितः ॥१७॥काममञ्जीररणितः कामदेवप्रियातुरः ।कर्पूरामोदरुचिरः कर्पूरामोदधारणः ॥१८॥कर्पूरमालाऽऽभरणः कूर्परार्णवमध्यगः ।क्रकसः क्रकसाराध्यः कलापपुष्परूपकः ॥१९॥कुशलः कुशलाकर्णी कुक्कुरासङ्गतोषितः ।कुक्कुरालयमध्यस्थः काश्मीरकरवीरभृत् ॥२०॥कूटस्थः क्रूरदृष्टिश्च केशवासक्तमानसः ।कुम्भीनसविभूषाढ्यः कुम्भीनसवधोद्यतः ॥२१॥फलश्रुतिः -नाम्नामष्टोत्तरशतं स्तुत्वा महाकालदेवम् ।ककारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ॥१॥य इदं पठते प्राप्तः त्रिसन्ध्यं वा पठेन्नरः ।वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥२॥लभते ह्यचलां लक्ष्मीं देवानामपि दुर्लभाम् ।पूजाकाले जपान्ते च पठनीयं विशेषतः ॥३॥यः पठेत्साधकाधीशः कालीरूपो हि वर्षतः ।पठेद्वा पाठयेद्वापि शृणोति श्रावयेदपि ॥४॥वाचकं तोषयेद्वापि स भवेद् भैरवी तनुः ।पश्चिमाभिमुखं लिङ्गं वृषशून्यं शिवालयम् ॥५॥तत्र स्थित्वा पठेन्नाम्नां सर्वकामाप्तये शिवे ।भौमवारे निशीथे च अष्टम्यां वा निशामुखे ॥६॥माषभक्तबलिं छागं कृसरान्नं च पायसम् ।मद्यं मीनं शोणितं च दुग्धं मुद्रागुडार्द्रकम् ॥७॥बलिं दत्वा पठेत्तत्र कुबेरादधिको भवेत् ।पुरश्चरणमेतस्य सहस्रावृत्तिरुच्यते ॥८॥महाकालसमो भूत्वा यः पठेन्निशि निर्भयः ।सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ॥९॥मुक्तकेशो दिशावासः ताम्बूलपूरिताननः ।कुजवारे मध्यरात्रौ होमं कृत्वा श्मशानके ॥१०॥पृथ्वीशाकर्षणं कृत्वा मात्र कार्या विचारणा ।ब्रह्माण्डगोले देवेशि! या काचिज्जगतीतले ॥११॥समस्ता सिद्धयो देवि! वाचकस्य करे स्थिता ।भस्माभिमन्त्रितं कृत्वाग्रहस्ते च विलेपयेत् ॥१२॥भस्म संलेपनाद्देवि! सर्वग्रहविनाशनम् ।वन्ध्या पुत्रप्रदं देवि! नात्र कार्या विचारणा ॥१३॥गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।स्वयोनिरिव गोप्तव्यं न देयं यस्य कस्यचित् ॥१४॥इति श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : December 26, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP