संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम्

श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


शिवकामसुन्दर्यम्बाष्टोत्तरशतनामस्तोत्रम् च
 पूर्व पीठिका ।
श्रीषण्मुख उवाच ।
वन्दे विघ्नेश्वरं शक्तिं वन्दे वाणीं विधिं हरिम् ।
वन्दे लक्ष्मीं हरं गौरीं वन्दे माया महेश्वरम् ॥१॥

वन्दे मनोन्मयीं देवीं वन्दे देवं सदाशिवम् ।
वन्दे परशिवं वन्दे श्रीमत्त्रिपुरसुन्दरीम् ॥२॥

पञ्चब्रह्मासनासीनां सर्वाभीष्टार्थसिद्धये ।
सर्वज्ञ ! सर्वजनक ! सर्वेश्वर ! शिव ! प्रभो ! ॥३॥

नाम्नामष्टोत्तरशतं श्रीदेव्याः सत्यमुत्तमम् ।
श्रोतुमिच्छाम्यऽहं तात! नामसारात्मकं स्तवम् ॥४॥

श्रीशिव उवाच ।
तद्वदामि तव स्नेहाच्छृणु षण्मुख ! तत्त्वतः ।

ॐ महामनोन्मनी शक्तिः शिवशक्तिः शिवङ्करी । (शिवशङ्करी)
इच्छाशक्तिः क्रियाशक्तिः ज्ञानशक्तिस्वरूपिणी ॥१॥

शान्त्यातीता कला नन्दा शिवमाया शिवप्रिया ।
सर्वज्ञा सुन्दरी सौम्या सच्चिदानन्दविग्रहा ॥२॥

परात्परामयी बाला त्रिपुरा कुण्डली शिवा ।
रुद्राणी विजया सर्वा सर्वाणी भुवनेश्वरी ॥३॥

कल्याणी शूलिनी कान्ता महात्रिपुरसुन्दरी ।
मालिनी मानिनी शर्वा मग्नोल्लासा च मोहिनी ॥४॥

माहेश्वरी च मातङ्गी शिवकामा शिवात्मिका ।
कामाक्षी कमलाक्षी च मीनाक्षी सर्वसाक्षिणी ॥५॥

उमादेवी महाकाली श्यामा सर्वजनप्रिया ।
चित्परा चिद्घनानन्दा चिन्मया चित्स्वरूपिणी ॥६॥

महासरस्वती दुर्गा ज्वाला दुर्गाऽतिमोहिनी ।
नकुली शुद्धविद्या च सच्चिदानन्दविग्रहा ॥७॥

सुप्रभा स्वप्रभा ज्वाला इन्द्राक्षी विश्वमोहिनी ।
महेन्द्रजालमध्यस्था मायामयविनोदिनी ॥८॥

शिवेश्वरी वृषारूढा विद्याजालविनोदिनी ।
मन्त्रेश्वरी महालक्ष्मीर्महाकाली फलप्रदा ॥९॥

चतुर्वेदविशेषज्ञा सावित्री सर्वदेवता ।
महेन्द्राणी गणाध्यक्षा महाभैरवमोहिनी ॥१०॥

महामयी महाघोरा महादेवी मदापहा ।
महिषासुरसंहन्त्री चण्डमुण्डकुलान्तका ॥११॥

चक्रेश्वरी चतुर्वेदा सर्वादिः सुरनायिका ।
षड्शास्त्रनिपुणा नित्या षड्दर्शनविचक्षणा ॥१२॥

कालरात्रिः कलातीता कविराजमनोहरा ।
शारदा तिलका तारा धीरा शूरजनप्रिया ॥१३॥

उग्रतारा महामारी क्षिप्रमारी रणप्रिया ।
अन्नपूर्णेश्वरी माता स्वर्णकान्तितटिप्रभा ॥१४॥

स्वरव्यञ्जनवर्णाढ्या गद्यपद्यादिकारणा ।
पदवाक्यार्थनिलया बिन्दुनादादिकारणा ॥१५॥

मोक्षेशी महिषी नित्या भुक्तिमुक्तिफलप्रदा ।
विज्ञानदायिनी प्राज्ञा प्रज्ञानफलदायिनी ॥१६॥

अहङ्कारा कलातीता पराशक्तिः परात्परा ।
नाम्नामष्टोत्तरशतं श्रीदेव्याः परमाद्भुतम् ॥१७॥

         फलश्रुतिः ।
सर्वपापक्षय करं महापातकनाशनम् ।
सर्वव्याधिहरं सौख्यं सर्वज्वरविनाशनम् ॥१॥

ग्रहपीडाप्रशमनं सर्वशत्रुविनाशनम् ।
आयुरारोग्यधनदं सर्वमोक्षशुभप्रदम् ॥२॥

देवत्वममरेशत्वं ब्रह्मत्वं सकलप्रदम् ।
अग्निस्तम्भं जलस्तम्भं सेनास्तम्भादिदायकम् ॥३॥

शाकिनीडाकिनीपीडा हाकिन्यादिनिवारणम् ।
देहरक्षाकरं नित्यं परतन्त्रनिवारणम् ॥४॥

मन्त्रं यन्त्रं महातन्त्रं सर्वसिद्धिप्रदं नृणाम् ।
सर्वसिद्धिकरं पुंसामदृश्यत्वाकरं वरम् ॥५॥

सर्वाकर्षकरं नित्यं सर्वस्त्रीवश्यमोहनम् ।
मणिमन्त्रौषधीनां च सिद्धिदं शीघ्रमेव च ॥६॥

भयश्चौरादिशमनं दुष्टजन्तुनिवारणम् ।
पृथिव्यादिजनानां च वाक्स्थानादिपरो वशम् ॥७॥

नष्टद्रव्यागमं सत्यं निधिदर्शनकारणम् ।
सर्वथा ब्रह्मचारीणां शीघ्रकन्याप्रदायकम् ॥८॥

सुपुत्रफलदं शीघ्रमश्वमेधफलप्रदम् ।
योगाभ्यासादि फलदं श्रीकरं तत्त्वसाधनम् ॥९॥

मोक्षसाम्राज्यफलदं देहान्ते परमं पदम् ।
देव्याः स्तोत्रमिदं पुण्यं परमार्थं परमं पदम् ॥१०॥

विधिना विष्णुना दिव्यं सेवितं मया च पुरा ।
सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥११॥

चतुर्वर्गप्रदं नृणां सत्यमेव मयोदितम् ।
नाम्नामष्टोत्तरशतं यच्छाम्यऽहं सुखप्रदम् ॥१२॥

कल्याणीं परमेश्वरीं परशिवां श्रीमत्त्रिपुरसुन्दरीं
 मीनाक्षीं ललिताम्बिकामनुदिनं वन्दे जगन्मोहिनीम् ।
चामुण्डां परदेवतां सकलसौभाग्यप्रदां सुन्दरीं
 देवीं सर्वपरां शिवां शशिनिभां श्रीराजराजेश्वरीम् ॥

इति श्रीमन्त्रराजकल्पे मोक्षपादे स्कन्देश्वरसंवादे
श्रीललितादिव्याष्टोत्तरशतनामस्तोत्रं अथवा
शिवकामसुन्दर्यम्बाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP