संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

N/Aअष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


ध्यानम् -
पीताम्बरं करविराजितशङ्खचक्र-
कौमोदकीसरसिजं करुणासमुद्रम् ।
राधासहायमतिसुन्दरमन्दहासं
वातालयेशमनिशां हृदि भावयामि ॥

कृष्णो वातपुराधीशः भक्तकल्पद्रुमः प्रभुः ।
रोगहन्ता परं धामा कलौ सर्वसुखप्रदः ॥१॥

वातरोगहरो विष्णुः उद्धवादिप्रपूजितः ।
भक्तमानससंविष्टः भक्तकामप्रपूरकः ॥२॥

लोकविख्यातचारित्रः शङ्कराचार्यपूजितः ।
पाण्ड्येशविषहन्ता च पाण्ड्यराजकृतालयः ॥३॥

नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसः ।
नारायणसरस्तीरवासी नारदपूजितः ॥४॥

विप्रनित्यान्नदाता च विविधाकृतिशोभितः ।
तैलाभिषेकसन्तुष्टः सिक्ततैलार्तिहारकः ॥५॥

कौपीनदरुजाहन्ता पीताम्बरधरोऽव्ययः ।
क्षीराभिषेकात्सौभाग्यदाता कलियुगप्रभुः ॥६॥

निर्माल्यदर्शनाद्भक्तचित्तचिन्तानिवारकः ।
देवकीवसुदेवात्तपुण्यपुञ्जोऽघनाशकः ॥७॥

पुष्टिदः कीर्तिदो नित्यकल्याणततिदायकः ।
मन्दारमालासंवीतः मुक्तादामविभूषितः ॥८॥

पद्महस्तश्चक्रधारी गदाशङ्खमनोहरः ।
गदापहन्ता गाङ्गेयमोक्षदाता सदोत्सवः ॥९॥

गानविद्याप्रदाता च वेणुनादविशारदः ।
भक्तान्नदानसन्तुष्टः वैकुण्ठीकृतकेरळः ॥१०॥

तुलाभारसमायातजनसर्वार्थदायकः ।
पद्ममाली पद्मनाभः पद्मनेत्रः श्रियःपतिः ॥११॥

पादनिस्सृतगाङ्गोदः पुण्यशालिप्रपूजितः ।
तुळसीदामसन्तुष्टः विल्वमङ्गळपूजितः ॥१२॥

पून्तानविप्रसन्दृष्टदिव्यमङ्गळविग्रहः ।
पावनः परमो धाता पुत्रपौत्रप्रदायकः ॥१३॥

महारोगहरो वैद्यनाथो वेदविदर्चितः ।
धन्वन्तरिर्धर्मरूपो धनधान्यसुखप्रदः ॥१४॥

आरोग्यदाता विश्वेशः विधिरुद्रादिसेवितः ।
वेदान्तवेद्यो वागीशः सम्यग्वाक्छक्तिदायकः ॥१५॥

मन्त्रमूर्तिर्वेदमूर्तिः तेजोमूर्तिः स्तुतिप्रियः ।
पूर्वपुण्यवदाराध्यः महालाभकरो महान् ॥१६॥

देवकीवसुदेवादिपूजितो राधिकापतिः ।
श्रीरुक्मिणीसत्यभामासंलालितपदाम्बुजः ॥१७॥

कन्याषोडशसाहस्रकण्ठमाङ्गल्यसूत्रदः ।
अन्नप्राशनसम्प्राप्तबहुबालसुखप्रदः ॥१८॥

गुरुवायुसुसङ्क्लृप्तसत्प्रतिष्ठः सुरार्चितः ।
पायसान्नप्रियो नित्यङ्गजराशिसमुज्ज्वलः ॥१९॥

पुराणरत्नपठनश्रवणानन्दपूरितः ।
माङ्गल्यदाननिरतः दक्षिणद्वारकापतिः ॥२०॥

दीपायुतोत्थसज्ज्वालाप्रकाशितनिजालयः ।
पद्ममालाधरः श्रीमान् पद्मनाभोऽखिलार्थदः ॥२१॥

आयुर्दाता मृत्युहर्ता रोगनाशनदीक्षितः ।
नवनीतप्रियो नन्दनन्दनो रासनायकः ॥२२॥

यशोदापुण्यसञ्जातः गोपिकाहृदयस्थितः ।
भक्तार्तिघ्नो भव्यफलः भूतानुग्रहतत्परः ।
दीक्षितानन्तरामोक्तनामसुप्रीतमानसः ॥२३॥

गुरुवातपुरीशस्य नाम्नामष्टोत्तरं शतम् ।
दीक्षितानन्तरामेण भक्त्या स्तोत्रं कृतं महत् ॥२४॥

श्रद्धायुक्तः पठेन्नित्यं स्मरन् वातपुराधिपम् ।
तस्य देवो वासुदेवः सर्वार्थफलदो भवेत् ॥२५॥

इति ब्रह्मश्री सेंगलीपुरं अनन्तरामदीक्षितविरचितं
श्रीगुरुवातपुरीशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 23, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP