संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीबालाष्टोत्तरशतनामस्तोत्रम् १

श्रीबालाष्टोत्तरशतनामस्तोत्रम् १

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


अगस्त्य उवाच -
हयग्रीव दयासिन्धो भगवन्भक्तवत्सल ।
बालात्रिपुरसुन्दर्या नाम्नामष्टोत्तरं शुभम् ।
वदस्व मे त्वं कृपया येन ज्ञानं प्रवर्तते ॥१॥

हयग्रीव उवाच -
शृणु सम्यक्प्रवक्ष्यामि श्रीबालाष्टोत्तरं शतम् ।
सर्वविद्यात्मकं ज्ञेयं श्रीबालाप्रीतिदायकम् ॥२॥

अस्य श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य
दक्षिणामूर्तिः ऋषिः । अनुष्टुप्छन्दः । श्री बालात्रिपुरसुन्दरी देवता ।
ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् ।
श्रीबालात्रिपुरसुन्दरीप्रसादसिद्‍ध्यर्थे नामपारायणे विनियोगः ।

अथ करन्यासः -
ॐ ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ।

अथ हृदयादिन्यासः -
ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट् ।
ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ।

ध्यानम्-
पाशाङ्कुशे पुस्तकाक्षसूत्रे च दधती करैः ।
रक्ता त्र्यक्षा चन्द्रफाला पातु बाला सुरार्चिता ॥

लमित्यादि पञ्चपूजा -
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारपूजाः समर्पयामि ॥

अथ श्री बाला अष्टोत्तरशतनामस्तोत्रम् ।
ॐ कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी ।
सुन्दरी सौभाग्यवती क्लीङ्कारी सर्वमङ्गला ॥१॥

ह्रीङ्कारी स्कन्दजननी परा पञ्चदशाक्षरी ।
त्रिलोकी मोहनाधीशा सर्वेशी सर्वरूपिणी ॥२॥

सर्वसंक्षोभिणी पूर्णा नवमुद्रेश्वरी शिवा ।
अनङ्गकुसुमा ख्याता अनङ्गा भुवनेश्वरी ॥३॥

जप्या स्तव्या श्रुतिर्निता नित्यक्लिन्नाऽमृतोद्भवा ।
मोहिनी परमाऽऽनन्दा कामेशतरुणा कला ॥४॥

कलावती भगवती पद्मरागकिरीटिनी ।
सौगन्धिनी सरिद्वेणी मन्त्रिणि मन्त्ररूपिणि ॥५॥

तत्त्वत्रयी तत्त्वमयी सिद्धा त्रिपुरवासिनी ।
श्रीर्मतिश्च महादेवी कौलिनी परदेवता ॥६॥

कैवल्यरेखा वशिनी सर्वेशी सर्वमातृका ।
विष्णुस्वसा देवमाता सर्वसम्पत्प्रदायिनी ॥७॥

किङ्करी माता गीर्वाणी सुरापानानुमोदिनी । (सुधापानविनोदिनी)
आधाराहितपत्नीका स्वाधिष्ठानसमाश्रया ॥८॥

अनाहताब्जनिलया मणिपूरासमाश्रया ।
आज्ञा पद्मासनासीना विशुद्धस्थलसंस्थिता ॥९॥

अष्टत्रिंशत्कलामूर्ति स्सुषुम्ना चारुमध्यमा ।
योगेश्वरी मुनिध्येया परब्रह्मस्वरूपिणी ॥१०॥

चतुर्भुजा चन्द्रचूडा पुराणागमरूपिनी ।
ऐंकारादिर्महाविद्या पञ्चप्रणवरूपिणी ॥११॥

भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी ।
षोढान्यास महाभूषा कामाक्षी दशमातृका ॥१२॥

आधारशक्तिः तरुणी लक्ष्मीः त्रिपुरभैरवी ।
शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥१३॥

माङ्गल्य दायिनी मान्या सर्वमङ्गलकारिणी ।
योगलक्ष्मीः भोगलक्ष्मीः राज्यलक्ष्मीः त्रिकोणगा ॥१४॥

सर्वसौभाग्यसम्पन्ना सर्वसम्पत्तिदायिनी ।
नवकोणपुरावासा बिन्दुत्रयसमन्विता ॥१५॥

नाम्नामष्टोत्तरशतं पठेन्न्याससमन्वितम् ।
सर्वसिद्धिमवाप्नोती साधकोभीष्टमाप्नुयात् ॥१६॥

इति श्री रुद्रयामलतन्त्रे उमामहेश्वरसंवादे
श्री बाला अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP