श्रीगुर्वाष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.
गुरु बीज मन्त्र - ॐ ग्राँ ग्रीं ग्रौं सः गुरवे नमः ॥
गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः ।
गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः ॥१॥
जेता जयन्तो जयदो जीवोऽनन्तो जयावहः ।
आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥२॥
वाचस्पतिर्वशी वश्यो वरिष्ठो वाग्विचक्षणः ।
चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखण्डिजः ॥३॥
बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः ।
सुराचार्यः सुराराध्यः सुरकार्यहितंकरः ॥४॥
गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः ।
धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥५॥
धनुर्धरो दैत्यहन्ता दयासारो दयाकरः ।
दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः ॥६॥
धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः ।
आङ्गीरसाब्दसञ्जातो आङ्गीरसकुलसम्भवः ॥७ ॥
सिन्धुदेशाधिपो धीमान् स्वर्णवर्णः चतुर्भुजः ।
हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः ॥८॥
पुष्यनाथः पुष्यरागमणिमण्डलमण्डितः ।
काशपुष्पसमानाभः कलिदोषनिवारकः ॥९॥
इन्द्रादिदेवोदेवेषो देवताभीष्टदायकः ।
असमानबलः सत्त्वगुणसम्पद्विभासुरः ॥१०॥
भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः ।
धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥११॥
सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः ।
सर्वपापप्रशमनः स्वमतानुगतामरः ॥१२॥
ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः ।
सदानन्दः सत्यसन्धः सत्यसंकल्पमानसः ॥१३॥
सर्वागमज्ञः सर्वज्ञः सर्ववेदान्तविद्वरः ।
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥१४॥
समानाधिकनिर्मुक्तः सर्वलोकवशंवदः ।
ससुरासुरगन्धर्ववन्दितः सत्यभाषणः ॥१५॥
नमः सुरेन्द्रवन्द्याय देवाचार्याय ते नमः ।
नमस्तेऽनन्तसामर्थ्य वेदसिद्धान्तपारगः ॥१६॥
सदानन्द नमस्तेऽस्तु नमः पीडाहराय च ।
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥१७॥
नमोऽद्वितीयरूपाय लम्बकूर्चाय ते नमः ।
नमः प्रकृष्टनेत्राय विप्राणाम्पतये नमः ॥१८॥
नमो भार्गवषिष्याय विपन्नहितकारिणे ।
नमस्ते सुरसैन्यानांविपत्छिद्रानकेतवे ॥१९॥
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥२०॥
सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो दीप्तिकर्ता जगत्पिता ॥२१॥
विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवोधनदासाजभक्ताजीवो महाबलः ॥२२॥
बृहस्पतिः काष्यपेयो दयावान् षुभलक्षणः ।
अभीष्टफलदः श्रीमान् सुभद्गर नमोऽस्तु ते ॥२३॥
बृहस्पतिस्सुराचार्यो देवासुरसुपूजितः ।
आचार्योदानवारिष्ट सुरमन्त्री पुरोहितः ॥२४॥
कालज्ञः कालऋग्वेत्ता चित्तदश्च प्रजापतिः ।
विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥२५॥
॥ इति गुर्वाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 23, 2025

TOP