श्रीबगलाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीदेव्युवाच ।
वगला शतनामानि कथ्यन्तां मे कृपानिधे ।
यन्नोक्तं अन्यतन्त्रेषु, अधुना कथय प्रभो ॥१॥
श्रीईश्वर उवाच ।
अस्याः श्रीवगला देव्याः शतनामस्तोत्रस्य
श्रीसदाशिवऋषिर्गायत्रीछन्दः श्रीवगलामुखी देवता
धर्मार्थकाममोक्षार्थसिद्धये विनियोगः ।
ॐ वशिनी वशपूज्या च वलिका वसुदा वसुः ।
वाग्वादिनी वयोरूपा बलाबलवती तथा ॥२॥
विषमा विकटा वेधा विशाला विमना विधिः ।
विद्या च वेदरूपा च बन्ध्या च वेषधारिणी ॥३॥
वेणी च विकटा वेश्या नानावेषपरिच्छदा ।
वयोरूपा च वृद्धा विकला वसुमतीति च ॥४॥
वगला वामनी देवी विष्णुपूज्या विनोदिनी ।
वैष्णवी शिष्ण माता च वाराही ब्राह्मणी वरा ॥५॥
वलावलवती वाला विधेश्च परिपूजिता ।
विशिष्टा ब्रह्मपूज्या च नानावेषविनोदिनी ॥६॥
वैकुण्ठरूपिणी ब्राह्मी विधिपूज्या विधुन्तुदा ।
वल्लभा वलरूपा च अशेष वलधारिणी ॥७॥
वेदज्ञा वेदमाता च विशाल नयनोज्ज्वला ।
वेदमाता विमाता च वेदगर्भा विमोक्षणी ॥८॥
विरूपाक्षी वला वाली कृष्णविमलरूपिणी ।
वाराही च वलाका च वलिनी वर्णरूपिणी ॥९॥
गन्धिनी गन्धरूपा च गयागङ्गाप्रभा तथा ।
गोवर्धनी च गोविन्दपूजिता च गदाधरी ॥१०॥
गहना गुह्यरूपा च गोरूपा गोकुलेश्वरी ।
गोलोकवासिनी चैव नित्या गोलोकरूपिणी ॥११॥
गरिमा च गरिष्ठा नित्या गोवर्धनरूपिणी ।
गङ्गाधरी च गोविन्दा गोविन्दपूजिता गदा ॥१२॥
गहना गुह्यरूपा च तथैव गन्धरूपिणी ।
गणार्हा गानदागानरूपिणी गण मोहिनी ॥१३॥
नीलमाला मनोन्मत्ता ललजिह्वा ललाटिनी ।
आनन्दरूपिणी आद्या आचार्य स्वांशुरूपिणी ॥१४॥
मूर्तिश्च मुख्यरूपा च महामोक्षप्रदायिनी ।
खेलत् खञ्जगामी च खेला खलखला तथा ॥१५॥
ईश्वरी ईश्वराराध्या अकार ॐ स्वरूपिणी ।
वर्णा च वगलामुख्याः शतनाम इतीरितम् ॥१६॥
अष्टोत्तरशतं नाम यः पठेन्नित्यमुत्तमम् ।
सर्वसिद्धीश्वरो भूत्वा देवीपुत्रो भवेत्तु सः ॥१७॥
त्रिसन्ध्यं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ।
नान्यथा फलभागीस्यात् कल्पकोटिशतैरपि ॥१८॥
इति श्रीकालीविलासतन्त्रे षोडशपटले श्रीवगलामुख्याः
शतनामस्तोत्रं समाप्तम् ।
N/A
References : N/A
Last Updated : December 26, 2025

TOP