संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीबगलाष्टोत्तरशतनामस्तोत्रम्

श्रीबगलाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीदेव्युवाच ।
वगला शतनामानि कथ्यन्तां मे कृपानिधे ।
यन्नोक्तं अन्यतन्त्रेषु, अधुना कथय प्रभो ॥१॥

श्रीईश्वर उवाच ।
अस्याः श्रीवगला देव्याः शतनामस्तोत्रस्य
श्रीसदाशिवऋषिर्गायत्रीछन्दः श्रीवगलामुखी देवता
धर्मार्थकाममोक्षार्थसिद्धये विनियोगः ।

ॐ वशिनी वशपूज्या च वलिका वसुदा वसुः ।
वाग्वादिनी वयोरूपा बलाबलवती तथा ॥२॥

विषमा विकटा वेधा विशाला विमना विधिः ।
विद्या च वेदरूपा च बन्ध्या च वेषधारिणी ॥३॥

वेणी च विकटा वेश्या नानावेषपरिच्छदा ।
वयोरूपा च वृद्धा विकला वसुमतीति च ॥४॥

वगला वामनी देवी विष्णुपूज्या विनोदिनी ।
वैष्णवी शिष्ण माता च वाराही ब्राह्मणी वरा ॥५॥

वलावलवती वाला विधेश्च परिपूजिता ।
विशिष्टा ब्रह्मपूज्या च नानावेषविनोदिनी ॥६॥

वैकुण्ठरूपिणी ब्राह्मी विधिपूज्या विधुन्तुदा ।
वल्लभा वलरूपा च अशेष वलधारिणी ॥७॥

वेदज्ञा वेदमाता च विशाल नयनोज्ज्वला ।
वेदमाता विमाता च वेदगर्भा विमोक्षणी ॥८॥

विरूपाक्षी वला वाली कृष्णविमलरूपिणी ।
वाराही च वलाका च वलिनी वर्णरूपिणी ॥९॥

गन्धिनी गन्धरूपा च गयागङ्गाप्रभा तथा ।
गोवर्धनी च गोविन्दपूजिता च गदाधरी ॥१०॥

गहना गुह्यरूपा च गोरूपा गोकुलेश्वरी ।
गोलोकवासिनी चैव नित्या गोलोकरूपिणी ॥११॥

गरिमा च गरिष्ठा नित्या गोवर्धनरूपिणी ।
गङ्गाधरी च गोविन्दा गोविन्दपूजिता गदा ॥१२॥

गहना गुह्यरूपा च तथैव गन्धरूपिणी ।
गणार्हा गानदागानरूपिणी गण मोहिनी ॥१३॥

नीलमाला मनोन्मत्ता ललजिह्वा ललाटिनी ।
आनन्दरूपिणी आद्या आचार्य स्वांशुरूपिणी ॥१४॥

मूर्तिश्च मुख्यरूपा च महामोक्षप्रदायिनी ।
खेलत् खञ्जगामी च खेला खलखला तथा ॥१५॥

ईश्वरी ईश्वराराध्या अकार ॐ स्वरूपिणी ।
वर्णा च वगलामुख्याः शतनाम इतीरितम् ॥१६॥

अष्टोत्तरशतं नाम यः पठेन्नित्यमुत्तमम् ।
सर्वसिद्धीश्वरो भूत्वा देवीपुत्रो भवेत्तु सः ॥१७॥

त्रिसन्ध्यं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ।
नान्यथा फलभागीस्यात् कल्पकोटिशतैरपि ॥१८॥

इति श्रीकालीविलासतन्त्रे षोडशपटले श्रीवगलामुख्याः
शतनामस्तोत्रं समाप्तम् ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP