दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
मन्त्रगर्भ दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्
ओंकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः ।
नभोतीतमहाधाम्न ऐंद्र्यृध्या ओजसे नमः ॥१॥
नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने ।
मोचितामेध्यकृतये ऱ्हींबीजश्राणितश्रिये ॥२॥
मोहादिविभ्रमान्ताय बहुकायधराय च ।
भत्तदुर्वैभवछेत्रे क्लींबीजवरजापिने ॥३॥
भवहे- तुविनाशाय राजच्छोणाधराय च ।
गतिप्रकम्पिताण्डाय चारुव्यहतबाहवे ॥४॥
गतग- र्वप्रियायास्तु यमादियतचेतसे ।
वशिताजातवश्याय मुण्डिने अनसूयवे ॥५॥
वदद्व- रेण्यवाग्जाला-विस्पृष्टविविधात्मने ।
तपोधनप्रसन्नाये-डापतिस्तुतकीर्तये ॥६॥
तेजोमण्यन्तरङ्गाया-द्मरसद्मविहापने ।
आन्तरस्थानसंस्थायायैश्वर्यश्रौतगीतये ॥७॥
वातादिभययुग्भाव-हेतवे हेतुबेतवे ।
जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥८॥
सुरव-र्गोद्धृते भृत्या असुरावासभेदिने ।
नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥९॥
देवाधिदेवदेवाय वसुधासुरपालिने ।
याजिनामग्रगण्याय द्रांबीजजपतुष्टये ॥१०॥
वासनावनदावाय धूलियुग्देहमालिने ।
यतिसंन्यासिगतये दत्तात्रेयेति संविदे ॥११॥
यजनास्यभुजेजाय तारकावासगामिने ।
महाजवास्पृग्रूपाया-त्ताकाराय विरूपिणे ॥१२॥
नराय धीप्रदीपाय यशस्वियशसे नमः ।
हारिणे चोज्वलाङ्गायात्रेस्तनूजाय सम्भवे ॥१३॥
मोचितामरसङ्घाय धीमतां धीरकाय च ।
बलिष्ठविप्रलभ्याय यागहोमप्रियाय च ॥१४॥
भजन्महिमविख़्यात्रेऽमरारिमहिमच्छिदे ।
लाभाय मुण्डिपूज्याय यमिने हेममालिने ॥१५॥
गतोपाधिव्याधये च हिरण्याहितकान्तये ।
यतीन्द्रचर्यां दधते नरभावौषधाय च ॥१६॥
वरिष्ठयोगिपूज्याय तन्तुसन्तन्वते नमः ।
स्वात्मगाथासुतीर्थाय मःश्रिये षट्कराय च ॥१७॥
तेजोमयोत्तमाङ्गाय नोदनानोद्यकर्मणे ।
हान्याप्तिमृतिविज्ञात्र ओंकारितसुभक्तये ॥१८॥
रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने ।
रांकवाततवस्त्राय नरतत्त्वप्रकाशिने ॥१९॥
द्रावितप्रणताघाया-त्तःस्वजिष्णुःस्वराशये ।
राजन्त्र्यास्यैकरूपाय मःस्थायमसुबम्धवे ॥२०॥
यतये चोदनातीत- प्रचारप्रभवे नमः ।
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥२१॥
गङ्गे पादविहीनाय चोदनाचोदितात्मने ।
यवीयसेऽलर्कदुःख-वारिणेऽखण्डितात्मने ॥२२॥
ह्रींबीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने ।
नतिसन्तुष्टचित्ताय यतिने ब्रह्मचारिणे ॥२३॥
इत्येष सत्स्तवो वृत्तोयात् कं देयात्प्रजापिने ।
मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥२४॥
॥ इति श्री. प. प. श्रीवासुदेवानन्द सरस्वती विरचितं
मन्त्रगर्भ श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम्॥
N/A
References : N/A
Last Updated : December 24, 2025

TOP