गौर्यष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.
दत्तात्रेयेण गौर्यष्टोत्तरशतनामस्तोत्रोपदेशवर्णनम् ।
अथ गौर्यष्टोत्तरशतनामस्तोत्रम् ।
इति श्रुत्वा कथां पुण्यां गौरीवीर्यविचित्रिताम् ।
अपृच्छद्भार्गवो भूयो दत्तात्रेयं महामुनिम् ॥१॥
भगवन्नद्भुततमं गौर्या वीर्यमुदाहृतम् ।
शृण्वतो न हि मे तृप्तिः कथां ते मुखनिःसृताम् ॥२॥
गौर्या नामाष्टशतकं यच्छच्यै धिषणो जगौ ।
तन्मे कथय यच्छ्रोतुं मनो मेऽत्यन्तमुत्सुकम् ॥३॥
भार्गवेणेत्थमापृष्टो योगिराडत्रिनन्दनः ।
अष्टोत्तरशतं नाम्नां प्राह गौर्या दयानिधिः ॥४॥
जामदग्न्य शृणु स्तोत्रं गौरीनामभिरङ्कितम् ।
मनोहरं वाञ्छितदं महाऽऽपद्विनिवारणम् ॥५॥
स्तोत्रस्याऽस्य ऋषिः प्रोक्त अङ्गिराश्छन्द ईरितः ।
अनुष्टुप् देवता गौरी आपन्नाशाय यो जपेत् ॥६॥
ह्रां ह्रीं इत्यादि विन्यस्य ध्यात्वा स्तोत्रमुदीरयेत् ॥
॥ध्यानम् ॥
सिंहसंस्थां मेचकाभां कौसुम्भांशुकशोभिताम् ॥७॥
खड्गं खेटं त्रिशूलञ्च मुद्गरं बिभ्रतीं करैः ।
चन्द्रचूडां त्रिनयनां ध्यायेत्गौरीमभीष्टदाम् ॥८॥
॥स्तोत्रम् ॥
ॐ गौरी गोजननी विद्या शिवा देवी महेश्वरी ।
नारायणाऽनुजा नम्रभूषणा नुतवैभवा ॥९॥
त्रिनेत्रा त्रिशिखा शम्भुसंश्रया शशिभूषणा ।
शूलहस्ता श्रुतधरा शुभदा शुभरूपिणी ॥१०॥
उमा भगवती रात्रिः सोमसूर्याऽग्निलोचना ।
सोमसूर्यात्मताटङ्का सोमसूर्यकुचद्वयी ॥११॥
अम्बा अम्बिका अम्बुजधरा अम्बुरूपाऽऽप्यायिनी स्थिरा ।
शिवप्रिया शिवाङ्कस्था शोभना शुम्भनाशिनी ॥१२॥
खड्गहस्ता खगा खेटधरा खाऽच्छनिभाकृतिः ।
कौसुम्भचेला कौसुम्भप्रिया कुन्दनिभद्विजा ॥१३॥
काली कपालिनी क्रूरा करवालकरा क्रिया ।
काम्या कुमारी कुटिला कुमाराम्बा कुलेश्वरी ॥१४॥
मृडानी मृगशावाक्षी मृदुदेहा मृगप्रिया ।
मृकण्डुपूजिता माध्वीप्रिया मातृगणेडिता ॥१५॥
मातृका माधवी माद्यन्मानसा मदिरेक्षणा ।
मोदरूपा मोदकरी मुनिध्येया मनोन्मनी ॥१६॥
पर्वतस्था पर्वपूज्या परमा परमार्थदा ।
परात्परा परामर्शमयी परिणताखिला ॥१७॥
पाशिसेव्या पशुपतिप्रिया पशुवृषस्तुता ।
पश्यन्ती परचिद्रूपा परीवादहरा परा ॥१८॥
सर्वज्ञा सर्वरूपा सा सम्पत्तिः सम्पदुन्नता ।
आपन्निवारिणी भक्तसुलभा करुणामयी ॥१९॥
कलावती कलामूला कलाकलितविग्रहा ।
गणसेव्या गणेशाना गतिर्गमनवर्जिता ॥२०॥
ईश्वरीशानदयिता शक्तिः शमितपातका ।
पीठगा पीठिकारूपा पृषत्पूज्या प्रभामयी ॥२१॥
महमाया मतङ्गेष्टा लोकालोका शिवाङ्गना ॥
॥फलश्रुतिः ॥
एतत्तेऽभिहितं राम ! स्तोत्रमत्यन्तदुर्लभम् ॥२२॥
गौर्यष्टोत्तरशतनामभिः सुमनोहरम् ।
आपदम्भोधितरणे सुदृढप्लवरूपकम् ॥२३॥
एतत् प्रपठतां नित्यमापदो यान्ति दूरतः ।
गौरीप्रसादजननमात्मज्ञानप्रदं नृणाम् ॥२४॥
भक्त्या प्रपठतां पुंसां सिध्यत्यखिलमीहितम् ।
अन्ते कैवल्यमाप्नोति सत्यं ते भार्गवेरितम् ॥२५॥
N/A
References : N/A
Last Updated : December 23, 2025

TOP