संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
कृष्णलीलाशतनामस्तोत्रम्

कृष्णलीलाशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


शाण्डिल्य उवाच ।
अथ लीलाशतं स्तोत्रं प्रवक्ष्यामि हरेः प्रियम् ।
यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥१॥

यदुक्तं श्रीमता पूर्वं प्रियायै प्रीतिपूर्वकम् ।
ललितायै यथाप्रोक्तं सा मह्यं कृपया जगौ ॥२॥

श्रुतिभिर्यत्पुरा प्रोक्तं मुनिभिर्यत्पुरोदितम् ।
तदहं वो वर्णयिष्ये श्रद्धालून् संमतान् शुचीन् ॥३॥

लीलानामशतस्यास्य ऋषयोऽग्निसमुद्भवाः ।
देवता शीपतिर्नित्यलीलानुग्रहविग्रहः ॥४॥

छन्दांस्यनुष्टुप् रूपाणि कीर्तितानि मुनीश्वराः ।
बीजं भक्तानुग्रहकृत् शक्तिलीलाप्रियः प्रभुः ॥५॥

श्रीकृष्णभगवत्प्रीतिद्वारा स्वार्थे नियोजनम् ।
सर्वेश्वरश्च सर्वात्मा सर्वतोऽस्रेण रक्षतु ॥६॥

श्रीकृष्णः सच्चिदानन्दः स्वतन्त्रपरमावधिः ।
लीलाकर्ता बाललीलो निजानन्दैकविग्रहः ॥७॥

लीलाशक्तिर्निजलीलासृष्टिदेहो विनोदकृत् ।
वृन्दावने गोपिगोपगोद्विजादिसचिन्मयः ॥८॥

वाक्सृष्टिकर्ता नादात्मा प्रणवो वर्णरूपधृक् ॥९॥

प्रकृतिः प्रत्ययो वाक्यो वेदो वेदाङ्गजः कविः ।
मायोद्भवोद्भवोऽचिन्त्यकार्यो जीवप्रवर्तकः ॥१०॥

नानातत्त्वानुरूपश्च कालकर्मस्वभावकः ।
वेदानुगो वेदवेत्ता नियतो मुक्तबन्धनः ॥११॥

असुरक्लेशदो क्लिष्टजननिद्रारतिप्रदः ।
नारायणो हृषीकेशो देवदेवो जनार्दनः ॥१२॥

स्ववर्णाश्रमधर्मात्मा संस्कृतः शुद्धमानसः ।
अग्निहोत्रादिपञ्चात्मा स्वर्गलोकफलप्रदः ॥१३॥

शुद्धात्मज्ञानदो ज्ञानगम्यःस्वानन्ददायकः ।
देवानन्दकरो मेघश्यामलः सत्त्वविग्रहः । १४॥

गम्भीरोऽनवगाह्यश्रीद्विभुजो मुरलीधरः ।
पूर्णानन्दघनः साक्षात् कोटिमन्मथमन्मथः ॥१५॥

श्रुतिगम्यो भक्तिगम्यो मुनिगम्यो व्रजेश्वरः ।
श्रीयशोदासुतो नन्दभाग्यचिन्तामणिः प्रभुः ॥१६॥

अविद्याहरणः सर्वदोषसङ्घविनाशकः ।
निःसाधनोद्धारदक्षो भक्तानुग्रहकातरः ॥१७॥

सर्वसामर्थ्यसहितो दैवदोषनिवारकः ।
कुमारिकानुग्रहकृद् योगमायाप्रसादकृत् ॥१८॥

ब्रह्मानन्दपरानन्दभजनानन्ददायकः ।
लोकव्यामोहकृत्स्वीयानुग्रहो वेणुवादतः ॥१९॥

नित्यलीलारासरतो नित्यलीलाफलप्रदः ।
मूढोद्धारकरो राजलीलासन्तोषितामरः ॥२०॥

सतां लोकद्वयानन्ददश्चैश्वर्यादिभूषितः ।
निरोधलीलासम्पत्तिर्दशलीलापरायणः ॥२१॥

द्वादशाङ्गवपुः श्रीमाँश्चतृर्व्यूहश्चतुर्मयः ।
गोकुलानन्ददः श्रीमद् गोवर्धनकृताश्रयः ॥२२॥

चराचरानुग्रहकृद्वंशीवाद्यविशारदः ।
देवकीनन्दनो द्वारापतिर्गोवर्धनाद्रिभृत् ॥२३॥

श्रीगोकुलसुधानाथः श्रीमुकुन्दोऽतिसुन्दरः ।
बाललीलारतो हैयङ्गवीनरसतत्परः ॥२४॥

नृत्यप्रियो युग्मलीलो त्रिभङ्गललिताकृतिः ।
आचार्यानुगृहीतात्मा करुणावरुणालयः ॥२५॥

श्रीराधिकाप्रेममूर्तिः श्रीचन्द्रावलिवल्लभः ।
ललिताप्राणनाथः श्रीकलिन्दगिरिजाप्रियः ॥२६॥

अप्राकृतगुणोदारो ब्रह्मेशेन्द्रादिवन्दितः ।
पवित्रकीर्तिःश्रीनाथो वृन्दारण्यपुरन्दरः ॥२७॥

इति लीलाशतं नाम्नां निजात्मकसमन्वितम् ।
यः पठेत्प्रत्यहं प्रीत्या तं प्रीणाति स माधवः ॥२८॥

ईषणात्रयनिर्मुक्तो या पठेद्धरिसन्निधौ ।
सोऽचलां भक्तिमाप्नोति इति सत्यं मुनीश्वराः ॥२९॥

ईषणात्रयसम्पन्नं यस्य चित्त प्रखिद्यति ।
तेनात्र ध्यानगम्येन प्रकारेण समाप्यते ॥३०॥

पुत्रेषणासु सर्वासु ध्यायेत्पुत्रप्रदं हरिम् ।
ब्रह्माणं मोहयत्तेन वरावाप्तिः प्रजायते ॥३१॥

वित्तेषणास्सु वासांसि भूषणानि शिखामणिम् ।
वदन्तं विषयीकुर्वंल्लभते तत् स्थिरञ्च यत् ॥३२॥

लोकेषणासु नन्दस्य साधयन्परतन्त्रताम् ।
ध्यात्वा हृदि महाभाग्यो भवेल्लोकद्वये पुमान् ॥३३॥

समर्च्य भगवन्तं तं शालग्रामस्य मन्दिरे ।
नमोऽन्तैर्नामसन्मन्त्रैर्दद्याद्वृन्दादलान्यसौ ॥३४॥

निवेदयेत्ततः स्वार्थं मध्याह्ने पररात्रके ।
तेन सर्वमवाप्नोति प्रसीदति ततस्त्वमुम् ॥३५॥

सर्वापराधहरणं सर्वदोषनिवारणम् ।
सर्वभक्तिप्रजननं भावस्य सदृशं परम् ॥३६॥

एतस्यैव समासाद्य गायत्र्याख्यं महामनुम् ।
पठेन्नाम्ना सहस्रं च सुदामादिसमो भवेत् ॥३७॥

अनयोः सदृशं नास्ति प्रकारोऽत्रापरः परः ।
कामव्याकुलचितस्य शोधनाय सतां मतः ॥३८॥

न सौषधी मता पुंसा या गदान्तरमर्पयेत् ।
प्रकृतं सन्निवर्त्याघं वासनां या न संहरेत् ॥३९॥

विषयाक्रान्तचित्तानां नावेशः कर्हिचिद्धरेः ।
ततो निवृत्तिः कार्येभ्य इत्याह तनयं विधिः ॥४०॥

श्रीकृष्णेति महामन्त्रं श्रीकृष्णेति महौषधी ।
ये भजन्ति महाभागास्तेषां किं किं न सिद्धयति ॥४१॥

इति लीलाशतनामस्तोत्रं सम्पूर्णम् ।
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे द्वितीयभागे
तृतीयो अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP