संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्

श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


मङ्गल बीज मन्त्र - ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥

ॐ महीसुतो महाभागो मंगळो मंगळप्रदः ।
महावीरो महाशूरो महाबलपराक्रमः ॥१॥

महारौद्रो महाभद्रो माननीयो दयाकरः ।
मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥२॥

सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः ।
वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥३॥

वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः ।
नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥४॥

क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः ।
अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ॥५॥

वीतरागो वीतभयो विज्वरो विश्वकारणः ।
नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥६॥

कमनीयो दयासारः कनत्कनकभूषणः ।
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥७॥

शत्रुहन्ता शमोपेतः शरणागतपोषकः ।
साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥८॥

दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः  ।
दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥९॥

दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः ।
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥१०॥

रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः ।
चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥११॥

शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः ।
तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥१२॥

तप्तकाञ्चनसंकाशो रक्तकिञ्जल्कसन्निभः ।
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥१३॥

असृजंगारकोऽवन्तीदेशाधीशो जनार्दनः ।
सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः ॥१४॥

त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः ।
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥१५॥

मेषवृश्चिकराशीशो मेधावी मितभाषणः ।
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥१६॥

॥ इति मङ्गल एवं अङ्गारकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP