संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीताराशतनामस्तोत्रम्

श्रीताराशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


 श्रीदेव्युवाच ।
श्रुणु पार्वति वक्ष्यामि शतनाम शुभानि च ॥१॥

अस्य श्रीशतनाम स्तोत्रस्य श्रीसदाशिव ऋषिर्गायत्रोच्छन्दः
  श्रीतारादेवता चतुर्वर्गसिद्धये विनियोगः ॥

ॐ अद्वैतरूपिणी आद्या असिता अणिमा तथा ।
अम्बिका चापरा चैव अपर्णा अलिनीति च ॥२॥

अलम्बुषा अघोरा च अक्रूरा घोररूपिणी ।
शोभा च सुखदा सत्या सदा सन्तोषकारिणी ॥३॥

सीमन्तिनी इडा चैव अलङ्ग पिङ्गला तथा ।
दलिताञ्जनसङ्काशा तारिणी तरुणेक्षणा ॥४॥

तापसी तपनाराध्या तारा च तरलेक्षण ।
तूरीया तीर्थरूपा च कारिणी रागरूपिणी ॥५॥

विष्णुशक्तिः सादाराध्या सर्वशक्तिः सदार्चिता ।
महेशशक्तिर्माहेशी नानामुणिगणार्चिता ॥६॥

रागिणी रेणुकारम्या रक्तपद्मदलेक्षणा ।
रामशक्ती रामपूज्या नित्या श्रीरामचर्चिता ॥७॥

रत्नरङ्गा रणाध्यक्षा रणधीरा रणाग्रणीः ।
कृष्णवर्णा कृष्णपूज्या कृष्णशक्तिः करालिनी ॥८॥

धनुईरा च धानुष्को धन्या धर्मप्रदायिनी ।
कलुषघ्ना पापहरा पापारिः पापनाशिनी ॥८॥

पापरूपा च निष्पापा अकलङ्का कलङ्किनो ।
कलङ्कनाशिनी काली कलिकल्मषनाशिनी ॥१०॥

गङ्गा च यमुना चैव तथा गोदावरीति च ।
नर्मन्दा सिन्धुरूपा च कावेरो पुस्करा तथा ॥११॥

सुन्दरी भैरवी भव्या मातङ्गी वगलामुखी ।
कैलासवासिनी नित्या कालरात्रिः करालिका ॥१२॥

काशीप्रयागरूपा च कौमारी कौषिकी तथा ।
क्रोधरूपा च अक्रोधा खेला हेला हलाहला ॥१३॥

शतनाम च ते भक्त्या तारायाः परिकीर्त्तितम् ।
अष्टोत्तरशतं जप्त्वा दशधावा वरानने ॥१४॥

ततः स्तवं पठित्वा वै सर्वसिद्धीश्वरो भवेत् ।
त्रिसन्ध्यं यः पठेन्नित्यं कलिकालस्य सम्मतम् ॥१५॥

अष्टसिद्धीश्वरो भूत्वा विहरेत् क्षितिमण्डले ।
पूजाकाले निशीथे वा पठित्वामुक्तिमाप्नुयात् ॥१६॥

इति श्रीकालीविलासतन्त्रे श्रीताराशतनामस्तोत्रं समाप्तम् ।
ॐ तत्सदित्यादि ।

इति श्रीकालीविलासतन्त्रे द्वादशपटलः समाप्तः ।

N/A

References : N/A
Last Updated : December 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP