माणिक्यवाचकाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अक्षस्रक्पुस्तकोद्भासिहस्तं माणिक्यवाचकम् ।
काश्यपं समयाचार्यं दाक्षिणात्यं उपास्महे ॥१॥
ॐ । मार्ताण्डतेजा माणिक्यवाचको माननिर्भरः ।
महेन्द्रवरदो मन्त्री मायाविरहितात्मवान् ॥२॥
मारबाधाविनिर्मुक्तो मारतूणीरजङ्घिकः ।
मारुताशफणाभूषो महेश्वरजनेश्वरः ॥३॥
मातृकान्यासनिरतो मातृपादाब्जपूजकः ।
मायापायविनिर्मुक्तो मानदो मार्गदर्शकः ॥४॥
मारवैरिकृपापात्रायमानोत्तमवाग्झरः ।
मायावादविनिर्जेता महातीर्थकृतादरः ॥५॥
निरन्तरो नित्यतपा नित्यतृप्तो निधीश्वरः ।
निष्कलङ्को निरीहश्च नियतो निरहङ्कृतिः ॥६॥
निमित्तज्ञो निराधारो निर्ममो नित्यरञ्जनः ।
नित्योत्साहो निरातङ्को नियतिज्ञो नियामकः ॥७॥
नियन्ता निगमार्थाब्धिवर्धनोत्थनिशापतिः ।
कर्मण्यः करुणापूर्णः कारणज्ञः कवीश्वरः ॥८॥
कालज्ञः कुलकृत्कल्यः कलानाथमुखोज्ज्वलः ।
कम्बुकण्ठः कलाज्ञानः कैवल्यपदबोधकः ॥९॥
करपद्मधृताक्षस्रक्पुस्तकः कनकाम्बरः ।
कटीतटीलसत्सूत्रः कौपीनवरधारकः ॥१०॥
कीर्तिमान्कामारिभक्तः कामपाशविवर्जितः ।
वातग्रामाधिपो वाग्मी वातूलागमपारगः ॥११॥
वाय्वाहारेशवचनो वाचस्पति समानधीः ।
वाराणसीवासरतो वाङ्माधुर्यजितामृतः ॥१२॥
वातापितापनसखो वायुरोगविवर्जितः ।
वाचालको वाहिनीशो वाच्यवाचकसुन्दरः ॥१३॥
वाङ्मनोतीतविभवो वासुदेवपदप्रियः ।
वाराहीमन्त्रराड्जप्ता वामदेवस्तुतिप्रियः ॥१४॥
वामाङ्गसुन्दरतनुर्वाण्याराधनतत्परः ।
चतुरश्चण्डवीर्यश्च चण्डाज्ञश्चन्द्रशीतलः ॥१५॥
चण्डांशुसदृशज्योतिश्चतुर्वेदाब्धिपारगः ।
चाञ्चल्यभिच्चमत्कारी चातुर्वर्ण्यानुपालकः ॥१६॥
चन्द्रशेखरभक्तश्च चन्द्रार्काग्निसमप्रभः ।
चराचरजगन्मित्रं चिन्मूर्तिश्चञ्चलाद्युतिः ॥१७॥
चतुर्वक्त्रमुखोत्पन्नश्चरणाश्रितभूपतिः ।
चन्द्रचूडनिभौजाश्च चण्डेश्वरसमानधीः ॥१८॥
कञ्जदृक्कल्याणशीलः काषाय वसनोज्ज्वलः ।
कवाटकठिनोरस्कः कन्दर्पसमकान्तिमान् ॥१९॥
कार्पासयज्ञोपवीती कलिदोषनिकृन्तनः ।
करीन्द्रमन्दगमनः करुणारसशेवधिः ॥२०॥
कलुषघ्नः कलालापः कवची काश्यपस्तथा ।
कनकाङ्गदधारी च कर्मग्रन्थिविमोचकः ॥२१॥
कमलद्विट्पदद्वन्द्वः कमनीयः कुलेश्वरः ।
अष्टोत्तरमिदं नाम्नां शतं वातपुरीशितुः ॥२२॥
त्रिसन्ध्यं यः पठेन्नित्यं वातरोगाद्विमुच्यते ।
योगाम्बिकासनाथस्य कृपापात्रं भवेच्च सः ॥२३॥
इति श्रीमाणिक्यवाचकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 26, 2025

TOP