अग्नेः अष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and
अकारदिक्रमेण
अजोऽजरोऽजिरोऽजुर्योऽतन्द्रोऽग्निरद्भुतक्रतुः ।
अङ्कूयन्नङ्गिरा अर्वन्नुञ्जानः सप्तहोतृभिः ॥१॥
आशृण्वन्नाशुहेमोऽप्य आसन्नासुर आहुतः ।
आदित्य आपिराबाध आकूतिराघृणीवसुः ॥२॥
इधान इद्ध इन्धानो दधत्सहस्रिणीरिषः ।
ईड्य ईळेन्य ईशान ईषयन्निळ ईळितः ॥३॥
उक्थ्य उक्षन्नुक्षमाण उक्षान्नो दिवमुत्पतन् ।
ऊर्जःपुत्र ऊर्जसन ऊर्ध्व ऊर्जोनपादूशन् ॥४॥
ऋजूयमानः पृथिवीमुतद्यामृत ऋत्वियः ।
ऋतप्रवीत ऋतचिदृतावदृन्ध ऋग्मियः ॥५॥
ऋषूणां पुत्र ऋषिकृदृतवृधृतुपा ऋभुः ।
ऋषीणां पुत्र ऋषभ ऋभ्व ऋतुपतिरृषिः ॥६॥
ओषधीनां गर्भ एक ओजिष्ठश्चर्षणीसदाम् ।
ककुत्ककुद्मान्क्रतुवित् कृष्णयामः कनिक्रदत् ॥७॥
कण्वतमः कण्वसखः केवलः कृष्णवर्तनिः ।
कपिः कविः कवितमः कविशस्तः कविक्रतुः ॥८॥
कविप्रशस्तः कृष्णाध्वा क्रव्यादः क्रव्यवाहनः ।
क्षत्राणि धारयन् क्षत्रः क्षपावान् क्षत्रभृत् क्षयः ॥९॥
गणश्रीश्चरथां गर्भोऽपां गर्भो गातुवित्तमः ।
बह्वीनामपसां गर्भस्थातां गर्भो गुहाहितः ॥१०॥
गृत्सो गृहपतिर्गृध्नुर्गोपा घोरश्चनोहितः ।
जातवेदास्तपुर्मूर्धा दीर्घतन्तुर्धृतव्रतः ॥११॥
बृहद्भानुर्मधुवचा यज्ञो रण्वो वनस्पतिः ।
देवानामवगम्याग्नेः नाम्नामष्टोत्तरं शतम् ॥१२॥
॥ अग्नेः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 21, 2025

TOP