संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम्

आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


प्रणिपत्य मुनिं मूर्ध्ना सुप्रसन्नेन चेतसा ।
वक्ष्याम्यद्य च नामानि सम्बुद्धैरनुवर्णितम् ॥१॥

सुरूपो रूपधारी च सर्वरूपो ह्यनुत्तरः ।
सर्वलक्षणसम्पूर्णो मञ्जुश्रीरुत्तमः श्रिया ॥२॥

अचिन्त्यश्चिन्त्यविगतोऽचिन्त्योऽद्भुतविक्रमः ।
अचिन्त्यः सर्वधर्माणामचिन्त्यो मनसस्तथा ॥३॥

शून्यताभावितात्माकः शून्यधर्मसमन्वितः ।
शून्यस्त्वमधिमुक्तिश्च शून्यत्रिभवदेशकः ॥४॥

सर्वज्ञः सर्वदर्शी च सर्वभूमिपतिर्विभुः ।
मञ्जुश्रीवशवर्ती च पद्माक्षः पद्मसम्भवः ॥५॥

पद्मकिञ्जल्कवर्णश्च पद्मपर्यङ्कवासनः ।
नीलोत्पलधरः पूतः पवित्रः शान्तमानसः ॥६॥

प्रत्येकबुद्धो बुद्धस्त्वमादिबुद्धो निरुच्यसे ।
ऋद्धिमान् वशिताप्राप्तश्चतुःसत्योपदेशकः ॥७॥

लोकपालः सहस्राक्ष ईश्वरस्त्वं प्रजापतिः ।
शिवस्त्वं सर्वभूतानां त्वं विभुर्गुणसागरः ॥८॥

ऋषिस्त्वं पुण्यः श्रेष्ठश्च ज्येष्ठो जातिस्मरस्तथा ।
विनायको विनेता च जिनपुत्रो जिनात्मजः ॥९॥

भानुः सहस्ररश्मिमस्त्वं सोमस्त्वं च बृहस्पतिः ।
धनदो वरुणश्चैव त्वं विष्णुस्त्वं महेश्वरः ॥१०॥

अनन्तो नागराजस्त्वं स्कन्दः सेनापतिस्तथा ।
वेमचित्रासुरेन्द्रस्त्वं भौमः शुक्रो बुधस्तथा ॥११॥

सर्वदेवमयो वीरः सर्वदेवैर्नमस्कृतः ।
लोकधर्ममलातीतस्त्वं लोके चाग्रपुद्गलः ॥१२॥

लोकज्ञो लोकविज्ञातो ज्ञानिनां प्रवरो वरः ।
वरदो लयनं त्राणमधृष्यो मारकर्मिणाम् ॥१३॥

गम्भीरश्चानवद्यश्च कल्याणमित्रसम्पदः ।
वैद्यस्त्वं शल्यहर्ता न नरदम्यः सुसारथिः ॥१४॥

मतिमान् गतिमांश्चैव बुद्धिमांश्च विचक्षणः ।
पुण्यवान् कल्पवृक्षश्च बोध्यङ्गपुष्पमण्डितः ॥१५॥

विमुक्तिफलसम्पन्न आश्रयः सर्वदेहिनाम् ।
मनोहरो मनोज्ञश्च अनघो ब्रह्मचारिणाम् ॥१६॥

केतुस्त्वं ग्रहश्रेष्ठश्च ऋषिभिर्मुनिपुङ्गवः ।
युवराज्ञाभिषिक्तस्त्त्वं दशभूमीश्वरः प्रभुः ॥१७॥

सार्थवाहो गणश्रेष्ठो निर्वाणोत्तमदेशकः ।
खसमो मध्यकल्पस्त्वं त्वं तेजो वायुरेव च ॥१८॥

चिन्तामणिस्त्वं सत्त्वानां सर्वाशापरिपूरकः ।
नमोऽस्तु ते महाविद्य सर्वभूतनमस्कृत ॥१९॥

इति श्रीआर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP