संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीविठ्ठलाष्टोत्तरशतनामस्तोत्रम्

श्रीविठ्ठलाष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रुत्वा नामसहस्रं श्रीविठ्ठलस्य गुणान्वितम् ।
पार्वती परिपप्रच्छ शङ्करं लोकशङ्करम् ॥१॥

श्रीपार्वत्युवाच ॥

देवदेव महादेव देवानुग्रहविग्रह ।
अष्टोत्तरशतं नाम्नां तस्य देवस्य मे वद ॥२॥

जनः कलिमलादिग्धोऽलसः कामाविलो जडः ।
पाठाद्यस्य सकृद्वापि सौशील्यादियुतो भवेत् ॥३॥

तदहं श्रेतुमिच्छामि तवाज्ञातं न विद्यते ।
इत्युक्तो भार्यया शम्भुः संस्मरन् पुरुषोत्तमम् ॥४॥

कटिस्थितकरद्वन्द्वं जगाद नगपुत्रिकाम् ।
श्रीशङ्कर उवाच
देवि लोकोपकाराय कृतः प्रश्नस्त्वयानघे ॥५॥

हिताय सर्वजन्तूनां नाम्नामष्टोत्तरं शतम् ।
श्रीविठ्ठलस्य देवस्य वाग्मिसिद्धिप्रदं नृणाम् ॥६॥

अष्टोत्तरशतस्याहमृषिः प्रोक्तो मनीषिभिः ।
छन्दोऽनुष्टुब्देवता श्रीविठ्ठलः परिकीर्तितः ॥७॥

ध्यायेच्छ्रीविठ्ठलाख्यं समपदकमलं पद्मपत्रायताक्षं
गम्भीरस्निग्धहासं कटिनिहितकरं नीलमेघावभासम् ।
विद्युद्वासो वसानं मणिमयमकुटं कुण्डलोद्भासिगण्डं
मायूरस्रग्विभूषाभयवरसहितं कौस्तुभोद्भासिताङ्गम् ॥८॥

ॐ क्लीं विठ्ठलः पुण्डरीकाक्षः पुण्डरीकनिभेक्षणः ।
पुण्डरीकाश्रमपदः पुण्डरीकजलाप्लुतः ॥९॥

पुण्डरीकक्षेत्रवासः पुण्डरीकवरप्रदः ।
शारदाधिष्ठितद्वारः शारदेन्दुनिभाननः ॥१०॥

नारदाधिष्ठितद्वारो नारदेशप्रपूजितः ।
भुवनाधीश्वरीद्वारो भुवनाधीश्वरीश्वरः ॥११॥

दुर्गाश्रितोत्तरद्वारो दुर्गमागमसंवृतः ।
क्षुल्लपेशीपिनद्धोरुगोपेष्ट्याश्लिष्टजानुकः ॥१२॥

कटिस्थितकरद्वन्द्वो वरदाभयमुद्रितः ।
त्रेतातोरणपालस्थत्रिविक्रम इतीरितः ॥१३॥

तितऊक्षेत्रपोऽश्वत्थकोटीश्वरवरप्रदः ।
स एव करवीरस्थो नारीनारयणेति च ॥१४॥

नीरासङ्गमसंस्थश्च सैकतप्रतिमार्चितः ।
वेणुनादेन देवानां मनः श्रवणमङ्गलः ॥१५॥

देवकन्याकोटिकोटिनीराजितपदाम्बुजः ।
पद्मतीर्थस्थिताश्वत्थो नरो नारायणो महान् ॥१६॥

चन्द्रभागासरोनीरकेलिलोलदिगम्बरः ।
ससध्रीचीत्सवीषूचीरितिश्रुत्यर्थरूपधृक् ॥१७॥

ज्योतिर्मयक्षेत्रवासी सर्वोत्कृष्टत्रयात्मकः ।
स्वकुण्डलप्रतिष्ठाता पञ्चायुधजलप्रियः ॥१८॥

क्षेत्रपालाग्रपूजार्थी पार्वतीपतिपूजितः ।
चतुर्मुखस्तुतो विष्णुर्जगन्मोहनरूपधृक् ॥१९॥

मन्त्राक्षरावलीहृत्स्थकौस्तुभोरःस्थलप्रियः ।
स्वमन्त्रोज्जीवितजनः सर्वकीर्तनवल्लभः ॥२०॥

वासुदेवो दयासिन्धुर्गोगोपीपरिवारितः ।
युधिष्ठिरहतारातिर्मुक्तकेशी वरप्रदः ॥२१॥

बलदेवोपदेष्टा च रुक्मिणीपुत्रनायकः ।
गुरुपुत्रप्रदो नित्यमहिमा भक्तवत्सलः ॥२२॥

भक्तारिहा महादेवो भक्ताभिलषितप्रदः ।
सव्यसाची ब्रह्मविद्यागुरुर्मोहापकारकः ॥२३॥

भीमामार्गप्रदाता च भीमसेनमतानुगः ।
गन्धर्वानुग्रहकरो ह्यपराधसहो हरिः ॥२४॥

स्वप्नदर्शी स्वप्नदृश्यो भक्तदुःस्वप्नशान्तिकृत् ।
आपत्कालानुपेक्षी चानपेक्षेऽपेक्षितो जनैः ॥२५॥

सत्योपयाचनः सत्यसन्धः सत्याभितारकः ।
सत्याजानी रमाजानी राधाजानी रथाङ्गभाक् ॥२६॥

सिञ्चनः क्रीडनो गोपैर्दधिदुग्धापहारकः ।
बोधिन्युत्सवयुक् तीर्थः शयन्युत्सवभूमिभाक् ॥२७॥

मार्गशीर्षोत्सवाक्रान्तवेणुनादपदाङ्कभूः ।
दध्यन्नव्यञ्जनाभोक्ता दधिभुक्कामपूरकः ॥२८॥

बिलान्तर्धानसत्केलिलोलुपो गोपवल्लभः ।
सखिनेत्रे पिधायाशु कोऽहम्पृच्छाविशारदः ॥२९॥

समासमप्रश्नपूर्वमुष्टिमुष्टिप्रदर्शकः ।
कुटिलीलासु कुशलः कुटिलालकमण्डितः ॥३०॥

सारीलीलानुसारी च वाहक्रीडापरः सदा ।
कार्णाटकीरतिरतो मङ्गलोपवनस्थितः ॥३१॥

माध्याह्नतीर्थपूरेक्षाविस्मायितजगत्त्रयः ।
निवारितक्षेत्रविघ्नो दुष्टदुर्बुद्धिभञ्जनः ॥३२॥

वालुकावृक्षपाषाणपशुपक्षिप्रतिष्ठितः ।
आशुतोषो भक्तवशः पाण्डुरङ्गः सुपावनः ॥३३॥

पुण्यकीर्तिः परं ब्रह्म ब्रह्मण्यः कृष्ण एव च ।
अष्टोत्तरशतं नाम्नां विठ्ठलस्य महात्मनः ॥३४॥

इति ते कथितं देवि पवित्रं मङ्गलं महत् ।
त्रिकालमेककालं वा यः पठेन्नियतः शुचिः ॥३५॥

करस्थाः सिद्धयस्तस्य सत्यं सत्यं वदाम्यहम् ।
अपुत्रो बहुपुत्रः स्यादविद्यः सर्वविद्यते ॥३६॥

निर्धनो धनदो नूनं भवेदस्य निषेवणात् ।
अविनाभूतभार्यश्च जितारातिर्निरामयः ॥३७॥

बहुनोक्तेन किं देवि हरिवल्लभतामियात् ।
सूत उवाच
श्रुत्वा तन्महदाश्वर्यमष्टोत्तरशां परम् ॥३८॥

पुनः पुनः प्रणम्येशं पार्वती वाक्यमब्रवीत् ।
पार्वत्युवाच
तत्क्षेत्रवसतिश्चैव तत्तीर्थस्यावगाहनम् ॥३९॥

तन्मूर्तिदर्शनं चैव तन्नामावलिकीर्तनम् ।
देहि मे सर्वदा स्वामिन्नेकाग्रमनसा विभो ॥४०॥

श्रीशङ्कर उवाच
तदस्तु तव देवेशि ममाप्येतन्मनीषितम् ।
इत्युक्त्वा प्रययौ तस्य निवासं परमादरात् ॥४१॥

इति श्रीपद्ममुप्राणान्तर्गतं श्रीविठ्ठलाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP