श्रीदक्षिणामूर्ति अष्टोत्तरशतनामस्तोत्र
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
वटवृक्ष तटासीनं योगी ध्येयांघ्रि पङ्कजम्।
शरश्चन्द्र निभं पूज्यं जटामुकुट मण्डितम् ॥१॥
गङ्गाधरं ललाटाक्षं व्याघ्र चर्माम्बरावृतम्।
नागभूषं परंब्रह्म द्विजराजवतंसकम् ॥२॥
अक्षमाला ज्ञानमुद्रा वीणा पुस्तक शोभितम्।
शुकादि वृद्ध शिष्याढ्यं वेद वेदान्तगोचरम्॥ ३॥
युवानां मन्मथारातिं दक्षिणामूर्तिमाश्रये।
॥ अथ दक्षिणामूर्ति अष्टोत्तरशतनाम स्तोत्रम् ।
ॐ विद्यारूपी महायोगी शुद्धज्ञानी पिनाकधृत् ।
रत्नालङ्कृत सर्वाङ्गी रत्नमौलिर्जटाधरः ॥१॥
गङ्गाधर्यचलावासी महाज्ञानी समाधिकृत्।
अप्रमेयो योगनिधिर्तारको भक्तवत्सलः॥ २॥
ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरातनः ।
उक्षवाहश्चर्मवासाः पीताम्बर विभूषणः॥ ३॥
मोक्षदायी मोक्षनिधिश्चान्धकारी जगत्पतिः।
विद्याधारी शुक्लतनुः विद्यादायी गणाधिपः॥ ४॥
प्रौढापस्मृति संहर्ता शशिमौलिर्महास्वनः ।
साम प्रियोऽव्ययः साधुः सर्व वेदैरलङ्कृतः ॥५॥
हस्ते वह्निधरः श्रीमान् मृगधारी वशङ्करः ।
यज्ञनाथ क्रतुध्वंसी यज्ञभोक्ता यमान्तकः॥ ६॥
भक्तानुग्रह मूर्तिश्च भक्तसेव्यो वृषध्वजः ।
भस्मोध्दूलित सर्वाङ्गः चाक्षमालाधरोमहान् ॥७॥
त्रयीमूर्तिः परम्ब्रह्म नागराजैरलङ्कृतः ।
शान्तरूपो महाज्ञानी सर्वलोकविभूषणः ॥८॥
अर्धनारीश्वरो देवोमुनिस्सेव्यस्सुरोत्तमः ।
व्याख्यानदेवो भगवान् रवि चन्द्राग्नि लोचनः ॥९॥
जगद्गुरुर्महादेवो महानन्द परायणः ।
जटाधारी महायोगी ज्ञानमालैरलङ्कृतः ॥१०॥
व्योमगङ्गा जल स्थानः विशुद्धो यतिरूर्जितः ।
तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ॥११॥
व्योममूर्तिश्च भक्तानां इष्टकाम फलप्रदः ।
परमूर्तिः चित्स्वरूपी तेजोमूर्तिरनामयः ॥१२॥
वेदवेदाङ्ग तत्त्वज्ञः चतुःष्षष्टि कलानिधिः ।
भवरोग भयध्वंसी भक्तानामभयप्रदः ॥१३॥
नीलग्रीवो ललाटाक्षो गज चर्मागतिप्रदः ।
अरागी कामदश्चाथ तपस्वी विष्णुवल्लभः ॥१४॥
ब्रह्मचारी च संन्यासी गृहस्थाश्रम कारणः ।
दान्तः शमवतां श्रेष्ठो सत्यरूपो दयापरः ॥१५॥
योगपट्टाभिरामश्च वीणाधारी विचेतनः ।
मतिप्रज्ञा सुधाधारी मुद्रापुस्तक धारणः ॥१६॥
वेतालादि पिशाचौघ राक्षसौघ विनाशनः ।
राज यक्ष्मादि रोगाणां विनिहन्ता सुरेश्वरः ॥
॥ इति श्रीदक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 25, 2025

TOP