संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीगङ्गाष्टोत्तरशतनामस्तोत्रम्

श्रीगङ्गाष्टोत्तरशतनामस्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and


ध्यानम्  ।
सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां
 करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् ।
विधिहरिहररूपां सेन्दुकोटीरचूडां
 कलितसितदुकूलां जाह्नवीं तां नमामि ॥

अथ स्तोत्रम् ।

श्रीनारद उवाच ।
गङ्गा नाम परं पुण्यं कथितं परमेश्वर ।
नामानि कति शस्तानि गङ्गायाः प्रणिशंस मे ॥१॥

श्रीमहादेव उवाच ।
नाम्नां सहस्रमध्ये तु नामाष्टशतमुत्तमम् ।
जाह्नव्या मुनिशार्दूल तानि मे शृणु तत्त्वतः ॥२॥

गङ्गा त्रिपथगा देवी शम्भुमौलिविहारिणी ।
जाह्नवी पापहन्त्री च महापातकनाशिनी ॥३॥

पतितोद्धारिणी स्रोतस्वती परमवेगिनी ।
विष्णुपादाब्जसम्भूता विष्णुदेहकृतालया ॥४॥

स्वर्गाब्धिनिलया साध्वी स्वर्णदी सुरनिम्नगा ।
मन्दाकिनी महावेगा स्वर्णशृङ्गप्रभेदिनी ॥५॥

देवपूज्यतमा दिव्या दिव्यस्थाननिवासिनी ।
सुचारुनीररुचिरा महापर्वतभेदिनी ॥६॥

भागीरथी भगवती महामोक्षप्रदायिनी ।
सिन्धुसङ्गगता शुद्धा रसातलनिवासिनी ॥७॥

महाभोगा भोगवती सुभगानन्ददायिनी ।
महापापहरा पुण्या परमाह्लाददायिनी ॥८॥

पार्वती शिवपत्नी च शिवशीर्षगतालया ।
शम्भोर्जटामध्यगता निर्मला निर्मलानना ॥९॥

महाकलुषहन्त्री च जह्नुपुत्री जगत्प्रिया ।
त्रैलोक्यपावनी पूर्णा पूर्णब्रह्मस्वरूपिणी ॥१०॥

जगत्पूज्यतमा चारुरूपिणी जगदम्बिका ।
लोकानुग्रहकर्त्री च सर्वलोकदयापरा ॥११॥

याम्यभीतिहरा तारा पारा संसारतारिणी ।
ब्रह्माण्डभेदिनी ब्रह्मकमण्डलुकृतालया ॥१२॥

सौभाग्यदायिनी पुंसां निर्वाणपददायिनी ।
अचिन्त्यचरिता चारुरुचिरातिमनोहरा ॥१३॥

मर्त्यस्था मृत्युभयहा स्वर्गमोक्षप्रदायिनी ।
पापापहारिणी दूरचारिणी वीचिधारिणी ॥१४॥

कारुण्यपूर्णा करुणामयी दुरितनाशिनी ।
गिरिराजसुता गौरीभगिनी गिरिशप्रिया ॥१५॥

मेनकागर्भसम्भूता मैनाकभगिनीप्रिया ।
आद्या त्रिलोकजननी त्रैलोक्यपरिपालिनी ॥१६॥

तीर्थश्रेष्ठतमा श्रेष्ठा सर्वतीर्थमयी शुभा ।
चतुर्वेदमयी सर्वा पितृसन्तृप्तिदायिनी ॥१७॥

शिवदा शिवसायुज्यदायिनी शिववल्लभा ।
तेजस्विनी त्रिनयना त्रिलोचनमनोरमा ॥१८॥

सप्तधारा शतमुखी सगरान्वयतारिणी ।
मुनिसेव्या मुनिसुता जह्नुजानुप्रभेदिनी ॥१९॥

मकरस्था सर्वगता सर्वाशुभनिवारिणी ।
सुदृश्या चाक्षुषीतृप्तिदायिनी मकरालया ॥२०॥

सदानन्दमयी नित्यानन्ददा नगपूजिता ।
सर्वदेवाधिदेवैश्च परिपूज्यपदाम्बुजा ॥२१॥

एतानि मुनिशार्दूल नामानि कथितानि ते ।
शस्तानि जाह्नवीदेव्याः सर्वपापहराणि च ॥२२॥

य इदं पठते भक्त्या प्रातरुत्थाय नारद ।
गङ्गायाः परमं पुण्यं नामाष्टशतमेव हि ॥२३॥

तस्य पापानि नश्यन्ति ब्रह्महत्यादिकान्यपि ।
आरोग्यमतुलं सौख्यं लभते नात्र संशयः ॥२४॥

यत्र कुत्रापि संस्नायात्पठेत्स्तोत्रमनुत्तमम् ।
तत्रैव गङ्गास्नानस्य फलं प्राप्नोति निश्चितम् ॥२५॥

प्रत्यहं प्रपठेदेतद् गङ्गानामशताष्टकम् ।
सोऽन्ते गङ्गामनुप्राप्य प्रयाति परमं पदम् ॥२६॥

गङ्गायां स्नानसमये यः पठेद्भक्तिसंयुतः ।
सोऽश्वमेधसहस्राणां फलमाप्नोति मानवः ॥२७॥

गवामयुतदानस्य यत्फलं समुदीरितम् ।
तत्फलं समवाप्नोति पञ्चम्यां प्रपठन्नरः ॥२८॥

कार्तिक्यां पौर्णमास्यां तु स्नात्वा सगरसङ्गमे ।
यः पठेत्स महेशत्वं याति सत्यं न संशयः ॥२९॥

॥  इति श्रीमहाभागवते महापुराणे श्रीगङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 22, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP