श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.
हरिः ॐ ।
तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला ।
विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥१॥
वरदाभयहस्ताब्जा रेवातीरनिवासिनी ।
प्रणित्ययविशेषज्ञा यन्त्राकृतविराजित ॥२॥
भद्रपादप्रिया चैव गोविन्दपथगामिनी ।
देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥३॥
स्यन्दनोत्तमसंस्था च धीरजीमूतनिःस्वना ।
मत्तमातङ्गगमना हिरण्यकमलासना ॥४॥
दीनजनोद्धारनिरता योगिनी योगधारिणी ।
नटनात्यैकनिरता प्रणवाद्यक्षरात्मिका ॥५॥
घोराचारा क्रियासक्ता दारिद्र्यच्छेदकारिणी ।
यादवेन्द्रकुलोद्भूता तुरीयपदगामिनी ॥६॥
गायत्री गोमती गङ्गा गौतमी गरुडासना ।
गेयगानप्रिया गौरी गोविन्दपदपूजिता ॥७॥
गन्धर्वनगरागारा गौरवर्णा गणेश्वरी ।
गुणाश्रया गुणवती गह्वरी गणपूजिता ॥८॥
गुणत्रयसमायुक्ता गुणत्रयविवर्जिता ।
गुहावासा गुणाधारा गुह्या गन्धर्वरूपिणी ॥९॥
गार्गप्रिया गुरुपदा गुहलिङ्गाङ्गधारिणी ।
सावित्री सूर्यतनया सुषुम्नानाडिभेदिनी ॥१०॥
सुप्रकाशा सुखासीना सुमतिस्सुरपूजिता ।
सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥११॥
सुधांशुबिम्बवदना सुस्तनी सुविलोचना ।
सीता सत्त्वाश्रया सन्ध्या सुफला सुविधायिनी ॥१२॥
सुभ्रूस्सुवासा सुश्रोणी संसारार्णवतारिणी ।
सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥१३॥
वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी ।
महलक्ष्मीर्महासिद्धिर्महामाया महेश्वरी ॥१४॥
मोहिनी मदनाकारा मधुसूदनचोदिता ।
मीनाक्षी मधुरावासा नगेन्द्रतना उमा ॥१५॥
त्रिविक्रमपदाक्रान्ता त्रिसर्वा त्रिविलोचना ।
सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ॥१६॥
वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता ।
व्योममण्डलमध्यस्था चक्रिणी चक्ररूपिणी ॥१७॥
कालचक्रवितानस्था चन्द्रमण्डल दर्पणा ।
ज्योत्स्नातपासुलिप्ताङ्गी महामारुतवीजिता ॥१८॥
सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी ।
नमस्तेऽस्तु महालक्ष्मि महासम्पत्तिदायिनि ॥१९॥
नमस्ते करुणामूर्ति नमस्ते भक्तवत्सले ।
गायत्र्याः प्रजपेद्यस्तु नाम्नामष्टोत्तरं शतम् ॥२०॥
फलश्रुतिः ।
तस्य पुण्यफलं रोद्धुं ब्रह्मणापि न शक्यते ।
प्रातःकाले च मध्याह्ने सायह्ने वा द्विजोत्तम ॥२१॥
ये पठन्तीह लोकेऽस्मिन् सर्वान्कामानवाप्नुयात् ।
पठनादेव गायत्री नाम्नामष्टोत्तरं शतम् ॥२२॥
ब्रह्महत्यादि पापेभ्यो मुच्यते नात्र संशयः ।
दिने दिने पठेद्यस्तु गायत्रीस्तवमुत्तमम् ॥२३॥
स नरो मोक्षमाप्नोति पुनरावृत्तिवर्जितं
पुत्रप्रदमपुत्राणां दरिद्राणां धनपदम् ॥२४॥
रोगिणां रोगशमनं सर्वैश्वर्यप्रदायकं
बहुनात्र किमुना स्तोत्रं शीघ्रं फलप्रदम् ॥२५॥
इति श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 22, 2025

TOP