शिवाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ददर्श शूले संशुष्कं ध्यायन्तं परमेश्वरः ।
अन्धकं धैर्यसम्पन्नं दानवेशं तपस्विनम् ॥४॥
अन्धक उवाच ।
ॐ महादेवो विरूपाक्षः चन्द्रार्द्धकृतशेखरः ।
अमृतः शाश्वतः स्थाणुः नीलकण्ठः पिनाकधृक् ॥५॥
वृषभाक्षो महाज्ञेयः पुरुषः सर्वकामदः ।
कामारिः कामदहनः कामरूपः कपर्दधृक् ॥६॥
विरूपो गिरिशो भीमः स्रग्वी च रक्तवासधृक् ।
योगी च कालदहनः कपाली त्रिपुरान्तकः ॥७॥
गूढव्रतो गुप्तमन्त्रः गम्भीरो भावगोचरः ।
अणिमादिगुणाधारस्त्रैलोक्यैश्वर्यदायकः ॥८॥
वीरो वीरहणो घोरः विरूपो मांसलः पटुः ।
महामांसाद उन्मत्तः भैरवो वै महेश्वरः ॥९॥
त्रैलोक्यद्रावणो लुब्धः लुब्धको यज्ञसूदनः ।
कृत्तिकानां सुतैर्युक्त उन्मत्तः कृत्तिवासधृक् ॥१०॥
गजकृत्तिपरीधानः क्षुब्धो भुजगभूषणः ।
दत्तालम्बश्च वेतालः घोरश्शाकिनिपूजितः ॥११॥
अघोरो घोरदैत्यघ्नः घोरघोषो वनस्पतिः ।
भस्माङ्गो जटिलश्शुद्धो भेरुण्डशतसेवितः ॥१२॥
भूतेश्वरो भूतनाथः पञ्चभूताश्रितः खगः ।
क्रोधितो निष्ठुरश्चण्डः चण्डीशश्चण्डिकाप्रियः ॥१३॥
चण्डस्तुङ्गश्च गरुत्मान् नित्यमासवभोजनः ।
लेलिहानो महारौद्रः मृत्युर्मृत्योरगोचरः ॥१४॥
मृत्योर्मृत्युर्महासेनः श्मशानारण्यवासकृत् ।
रागो विरागो रागान्धः वीतरागशताचितः ॥१५॥
सत्त्वं रजस्तमोधर्ममधर्मं वासवानुजः ।
सत्यं त्वसत्यं सद्रूपमसद्रूपमहेतुकम् ॥१६॥
अर्द्धनारीश्वरो भानुः भानुकोटिशतप्रभः ।
यज्ञो यज्ञपती रुद्र ईशानो वरदः शिवः ॥१७॥
अष्टोत्तरशतं ह्येतन्मूर्तीनां परमात्मनः ।
शिवस्य दानवो ध्यायन्मुक्तस्तस्मान्महाभयात् ॥१८॥
दिव्येनामृतवर्षेण सोऽभिषिक्तः कपर्दिना ।
तुष्टेन मोचितस्तस्माच्छूलाग्रादवरोपितः ॥१९॥
इति शिवपुराणे रुद्रसंहितायां युद्धखण्डे एकोनपञ्चाश-
त्तमाध्यायान्तर्गतं अन्धकेन ध्यातं शिवाष्टोत्तरशत-
नामस्तोत्रं समाप्तम् ।
N/A
References : N/A
Last Updated : December 30, 2025

TOP