श्रीनृसिंहकृत शरभस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ॐ श्रीगणेशाय नमः ।
अथ आकाशतन्त्रे एकोनाशीतितमोऽध्यायः
शरभाष्टोत्तरशतनामस्तोत्रम्
श्रीशिव उवाच -
अस्य श्रीशरभाष्टोत्तरशतनाममहामन्त्रस्य योगानन्द ऋषिः
अनुष्टुप्छन्दः श्रीमदघोरवीरशरभेश्वरो देवता,
खं बीजम्, स्वाहाशक्तिः, फट् कीलकम्,
श्रीमच्छरभसालुवाष्टोत्तरशतनाम सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् -
अष्टाङ्घ्रिश्च सहस्रबाहुरनलच्छाया शिरोयुग्मधृग्-
यस्त्र्यक्षो द्विखुपुच्छउदितः साक्षान्नृसिंहासनः ।
अर्धेनापि मृगाकृतिः पुनरथाप्यर्धेन पक्ष्याकृतिः
श्री वीरः शलभः स पातु शलभश्चिन्त्यः सदा मां हृदि ॥
श्रीनृसिंह उवाच -
नमो रुद्राय शर्वाय महाग्रासाय जिष्णवे ॥१॥
नम उग्राय भीमाय नमः क्रोधाय मन्यवे ।
नमो भवाय शर्वाय शङ्कराय शिवाय ते ॥२॥
कालकालाय कालाय महाकालाय मृत्यवे ।
वीराय वीरभद्राय क्षयद्वीराय शूलिने ॥३॥
महादेवाय महते पशूनां पतये नमः ।
एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने ॥४॥
नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमृत्यवे ।
पराय परमेशाय परात्परतराय ते ॥५॥ (तत्पराय परमात्मने)
परापराय विश्वाय नमस्ते विश्वमूर्तये । (परात्पराय, विश्वमूर्त्तये)
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥६॥
कैवर्ताय किराताय महाव्याधाय शाश्वते ।
भैरवाय शर्वाय शरण्याय महाभैरवरूपिणे ॥७॥ (शरव्याय)
नमो नृसिंहसंहर्त्रे कामकालपुरारये ।
महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥८॥
त्र्यम्बकाय त्र्यक्षराय शिपिविष्टाय मीढुषे ।
मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥९॥
मखेशाय वरेण्याय नमस्ते वह्निरूपिणे ।
महाघ्राणाय जिह्वाय प्राणापानप्रवर्त्तिने ॥१०॥
त्रिगुणाय त्रिशूलाय गुणातीताय योगिने ।
संसाराय प्रवाहाय महायन्त्रप्रवर्तिने ॥११॥
नमश्चन्द्राग्निसूर्याय मूर्तिवैचित्र्यहेतवे ।
वरदायावताराय सर्वकारणहेतवे ॥१२॥
कपालिने करालाय पतये पुण्यकीर्त्तये ।
अघोरायाग्निनेत्राय लकुलीशाय शम्भवे ॥१३॥
भिषक्तमाय चण्डाय दण्डिने घोररूपिणे ।
मेघवाहाय देवाय पार्वतीपतये नमः ॥१४॥
अव्यक्ताय विशोकाय स्थिराय स्थिरधन्वने ।
स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥१५॥
वरदायैकपादाय नमश्चन्द्रार्धमौलिने ।
नमस्तेऽध्वरराजाय वचसां पतये नमः ॥१६॥
योगीश्वराय नित्याय सत्याय परमेष्ठिने ।
सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥१७॥
एकद्वित्रिचतुः पञ्चचकृत्वस्तेऽस्तु नमो नमः ।
दशकृत्वस्तु साहस्रकृत्वस्ते च नमो नमः ॥१८॥
(दशकृत्वः शतकृत्वः सहस्रकृत्वो नमो नमः ॥
नमो परिमितं कृत्वानन्तकृत्वो नमो नमः ।
नमो नमो नमो भूयः पुनर्भूयो नमो नमः ॥१९॥
सूत उवाच -
नाम्नामष्टशतेनैव स्तुत्वाऽमृतये न तु ।
पुनस्तु प्रार्थयामास नृसिंहं शरभेश्वरम् ॥२०॥
यदा यदा ममाज्ञानमत्यहङ्कारदूषितम् ।
तदा तदाऽपनेतव्यं त्वयैव परमेश्वरः ॥२१॥
एवं विज्ञापयन्प्रीतः शंङ्करं नरकेसरी ।
नन्वशक्तो भवान्विष्णो! जीवितान्तं पराजितः ॥२२॥
तद्वक्त्रशेषमात्रान्तं कृत्वा शर्वस्य विग्रहम् ।
शुक्तिशित्यं तदामङ्गं वीरभद्रः क्षणात्ततः ॥२३॥
इति लिङ्गपुराणोक्तं श्रीनृसिंहकृतं शरभस्तोत्रं सम्पूर्णम् ॥
- ॥लिङपुराणम् । पूर्वभागः । अध्यायः ९६। ७६-९४ ॥
- ॥आकाशभैरवकल्पम् । अध्यायः ७९॥
- ॥वीरमाहेश्वराचारसङ्ग्रः । द्वितीयभागः । अध्यायः १७। ९४-१११ ॥
N/A
References : N/A
Last Updated : December 28, 2025

TOP