संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र| गणेशाष्टोत्तरशतनामस्तोत्रम् अष्टोत्तरशतनामस्तोत्र श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम् श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम् तुलस्यष्टोत्तरशतनामस्तोत्रं नृसिंहाष्टोत्तरशतनामस्तोत्रम् सरस्वत्यष्टोत्तरशतनामस्तोत्रम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् गौर्यष्टोत्तरशतनामस्तोत्रम् श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ललिताष्टोत्तरशतनामस्तोत्रम् सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम् लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम् श्री सीता अष्टोत्तरशतनामस्तोत्रम् श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं सहस्रशीर्ष्णे वै तुभ्यं स... गणेशहेरंबगजाननेति महोदर! ... श्री देव्युवाच- देव देव म... श्रीशंकराचार्यवर्यश्च ब्र... महाशास्ता महादेवो महादेवस... रजताचलशृंगाग्रमध्यस्थायै ... वासुदेवं हृषीकेशं वामनं ज... अग्नेः अष्टोत्तरशतनामस्तोत्रम् श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम् श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम् अवलोकितेश्वराष्टोत्तरशतनामस्तोत्रम् आकाशगर्भनामाष्टोत्तरशतस्तोत्रम् श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम् बटुकभैरवाष्टोत्तरशतनामस्तोत्रम् आर्यताराष्टोत्तरशतनामस्तोत्रम् आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् इन्दिराष्टोत्तरशतनामस्तोत्रम् उमाऽष्टोत्तरशतनामस्तोत्रम् कालीशतनामस्तोत्रं सम्पूर्णम् ॥ श्रीकमलाष्टोत्तरशतनामस्तोत्रम् कार्तिकेयशताष्टनामस्तोत्रम् श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम् आद्या कालिकादेव्याः शतनामस्तोत्रम् कालिकाशतनामस्तोत्रम् श्रीकालीशतनामस्तोत्रम् कालीशतनामस्तोत्रम् श्रीकिरातशास्तुः अष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीकेतु अष्टोत्तरशतनामस्तोत्रम् श्रीगङ्गाष्टोत्तरशतनामस्तोत्रम् श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनामस्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.Ashtottara shatanamavali means 108 names of almighty God and Tags : ashtottar shatnam stotradevidevtasanskritstotraसंस्कृतस्तोत्र गणेशाष्टोत्तरशतनामस्तोत्रम् Translation - भाषांतर श्रीशिव उवाच -काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः ।तच्छान्त्यर्थं दुण्ढिराजः पूजनीयः प्रयत्नतः ॥५०॥अष्टोत्तरशतं दिव्यैर्गणेशस्यैव नामभिः ।कर्तव्यमतियत्नेन नवदूर्वाङ्कुरार्पणम् ॥५१॥हिरण्मयतनुं शुद्धं सर्वार्तिहरमव्ययम् ।वरदं गणपं ध्यात्वा पूजा कार्या प्रयत्नतः ॥५२॥ऋषिर्विघ्नेश इत्यादिनाम्नां सर्वेश्वरः शिवः ।देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम् ॥५३॥सर्वप्रत्यूहशमनं फलं शक्तिः सुधात्मिका ।कीलकं गणनाथस्य पूजा कार्येति कामदा ॥५४॥अथ नामावलिः ।ॐ विघ्नेशो विश्ववरदो विश्वचक्षुर्जगत्पतिः । हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः ॥५५॥सर्वज्ञः सर्वगः शान्तो गजास्यो विगतज्वरः ।विश्वमूर्तिरमेयात्मा विश्वाधारः सनातनः ॥५६॥सामगानप्रियो मन्त्री सत्त्वाधारः सुराधिपः ।समस्तसाक्षी निर्द्वन्द्वो निर्लिप्तोऽमोघविक्रमः ॥५७॥नियतो निर्मलः पुण्यकामदः कान्तिदः कविः ॥५८॥कामरूपी कामवेषो कमलाक्षः कलाधरः ।सुमुखः सर्वदः शुद्धो मूषिकाधिपवाहनः ॥५९॥ दीर्घतुण्डघनुः श्रीमाननन्तो मोहवर्जितः ।वक्रतुण्डः शूर्पकर्णो परमं पावनेश्वरः ॥६०॥ योगीशो योगवन्द्याङ्घ्रिरुमाजनुरयापहः ।एकदन्तो महाग्रीवः शरण्यः सिद्धसेवितः ॥६१॥सिद्धिदः करुणासिन्धुः भगवान् भव्यविग्रहः ।विकटः कपिलो ढुण्ढिरुग्रो भीमोदरः शुभः ॥६२॥ गणाध्यक्षो गणाराध्यो गणेशो गणनायकः ।ज्योतिःस्वरूपो भूतात्मा धूमकेतुरनाकुलः ॥६३॥कुमारगुरुरानन्दो हेरम्बो वेदसंस्तुतः ।नागोपवीती दुर्धर्षो बालदूर्वाङ्कुरप्रियः ॥६४॥भालचन्द्रो विश्वधामा शिवपुत्रो विनायकः ।लीलावलम्बितवपुः पूर्णः परमसुन्दरः ॥६५॥विघ्नान्धकारमार्ताण्डो विघ्नारण्यदवानलः ।सिन्धूरवदनो नित्यो प्रभुः प्रथमपूजितः ॥६६॥ शरण्यदिव्यपादाब्जो भक्तमन्दारभूरुहः ।रत्नसिह्मासनासीनो मणिकुण्डलमण्डितः ॥६७॥भक्तकल्याणदोऽमेयः कल्याणगुणसंश्रयः ।एतानि दिव्यनामानि गणेशस्य महात्मनः ॥६८॥पठनीयानि यत्नेन सर्वथा सर्वदेहिभिः । नाम्नामेकैकमेतेषां सर्वसिद्धिप्रदायकम् ॥६९॥अथ उपदेशःसर्वविघ्नेश नाम्नां तु फलं वक्तुं न शक्यते ।एकैकमेव तन्नाम दिव्यं जप्त्वा मुनीश्वराः ॥७०॥प्रत्यूहमात्ररहितास्तिष्ठन्ति शिवपूजकाः ।दूर्वायुग्मानि सङ्गृह्य नूतनान्यतियत्नतः ॥७१॥पूजनीयो गणाध्यक्षो नाम्नामेकैकसङ्ख्यया ।नभस्यशुक्लपक्षस्य चतुर्थ्यां विधिपूर्वकम् ॥७२॥वक्रतुण्डेशकुण्डे तु स्नानं कृत्वा प्रयत्नतः ।वक्रतुण्डेशमाराध्य सर्वाभीष्टप्रदायकम् ॥७३॥ध्यायेदघहरं शुद्धकाञ्चनाभमनामयम् ।ततः पूजां यथाशास्त्रं कृत्वा दूर्वाङ्कुरैर्नवः ॥७४॥पूजा कार्या विशेषेण नामोच्चारणपूर्वकम् ।ततश्च मोदकैदिव्यैः सुगन्धिघृतपाचितैः ॥७५॥नैवेद्यं कल्पयेद्दिव्यंः गणेशाय शुभावहम् ।अन्यैश्च परमान्नाद्यैर्भक्ष्यैर्भोज्यैर्मनोहरैः ॥७६॥तोषणीयः प्रयत्नेन वक्रतुण्डविनायकः ।प्रदक्षिणनमस्कारैर्दिव्यैस्तन्नामसङ्ख्यया ॥७७॥कर्तव्या नियतं शुद्धैर्मौनव्रतपरायणः ।ततः सन्तर्प्य विधिच्छैवान्ब्राह्मणसम्भावान् ॥७८॥ पुनरभ्यर्च्य विघ्नेशमिमं मन्त्रमुदीरयेत् ॥७९॥अथ मन्त्रःवक्रतुण्ड सुराराध्य सूर्यकोटिसमप्रभ ।निर्विघ्नेनैव सततं काशीवासं प्रयच्छ मे ॥८०॥इति सम्प्रार्थ्य विधिवत्पूजां कृत्वा पुनर्मुदा ।नमस्कृत्वा प्रसाद्यैनं गच्छेड्ढुण्ढिविनायकम् ॥८१॥ढुण्ढिराजार्चनं सम्यक्कर्तव्यं विधिपूर्वकम् ।तत्रैवार्चाविशेषेण पूजां कृत्वा ततः परम् ॥८२॥॥ इति शिवरहस्यान्तर्गते गणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥- ॥श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । ५०-८२॥ N/A References : N/A Last Updated : December 22, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP