सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः ।
शरकाननसम्भूतः शर्वरीशमुखः शमः ॥१॥
शङ्करः शरणत्राता शशाङ्कमुकुटोज्ज्वलः ।
शर्मदः शङ्खकण्ठश्च शरकार्मुकहेतिभृत् ॥२॥
शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः ।
शमदः शतरुद्रस्थः शतमन्मथविग्रहः ॥३॥
रणाग्रणि रक्षणकृद्रक्षोबलविमर्दनः ।
रहस्यज्ञो रतिकरो रक्तचन्दनलेपनः ॥४॥
रत्नधारी रत्नभूषो रत्नकुण्डलमण्डितः ।
रक्ताम्बरो रम्यमुखो रविचन्द्राग्निलोचनः ॥५॥
रमाकलत्रजामाता रहस्यो रघुपूजितः ।
रसकोणान्त रालस्थो रजोमूर्ती रतिप्रदः ॥६॥
वसुदो वटुरूपश्च वसन्तऋतुपूजितः ।
वलवैरिसुतानाथो वनजाक्षो वराकृतिः ॥७॥
वक्रतुण्डानुजो वत्सो वरदाभयहस्तकः ।
वत्सलो वर्षकारश्च वसिष्ठादिप्रपूजितः ॥८॥
वणिग्रूपो वरेण्यश्च वर्णाश्रमविधायकः ।
वरदो वज्रभृद्वन्द्यो वन्दारुजनवत्सलः ॥९॥
नकाररूपो नलिनो नकारयुतमन्त्रकः ।
नकारवर्णनिलयो नन्दनो नन्दिवन्दितः ॥१०॥
नटेशपुत्रो नम्रभ्रूर्नक्षत्र ग्रहनायकः ।
नगाग्रनिलयो नम्यो नमद्भक्तफलप्रदः ॥११॥
नवनागो नगहरो नवग्रहसुवन्दितः ।
नववीराग्रजो नव्यो नमस्कारस्तुतिप्रियः ॥१२॥
भद्रप्रदश्च भगवान् भवारण्यदवानलः ।
भवोद्भवो भद्रमूर्तिर्भर्त्सितासुरमण्डलः ॥१३॥
भयापहो भर्गरूपो भक्ताभीष्टफलप्रदः ।
भक्तिगम्यो भक्तनिधिर्भयक्लेश विमोचनः ॥१४॥
भरतागमसुप्रीतो भक्तो भक्तार्तिभञ्जनः ।
भयकृद्भरताराध्यो भरद्वाजऋषिस्तुतः ॥१५॥
वरुणो वरुणाराध्यो वलाराति मुखस्तुतः ।
वज्रशक्त्यायुधोपेतो वरो वक्षः स्थलोज्ज्वलः ॥१६॥
वस्तुरूपो वशिध्येयो वलित्रय विराजितः ।
वक्रालको वलयधृत् वलत्पीताम्बरोज्ज्वलः ॥१७॥
वचोरूपो वचनदो वचोऽतीतचरित्रकः ।
वरदो वश्यफलदो वल्लीदेवीमनोहरः ॥१८॥
इति सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 30, 2025

TOP