श्रीशङ्कराचार्याष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीशङ्कराचार्यवर्यो ब्रह्मानन्दप्रदायकः ।
अज्ञानतिमिरादित्यस्सुज्ञानाम्बुधिचन्द्रमाः ॥१॥
वर्णाश्रमप्रतिष्ठाता श्रीमान्मुक्तिप्रदायकः ।
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥२॥
सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः ।
ज्ञानमुद्राञ्चितकरश्-शिष्यहृत्तापहारकः ॥३॥
परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः ।
अद्वैतस्थापनाचार्यस्साक्षाच्छङ्कररूपभृत् ॥४॥
षन्मतस्थापनाचार्यस्त्रयीमार्ग प्रकाशकः ।
वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥५॥
वैराग्यनिरतश्शान्तस्संसारार्णवतारकः ।
प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥६॥
पुराणस्मृतिसारज्ञो नित्यतृप्तो महाञ्छुचिः ।
नित्यानन्दो निरातङ्को निस्सङ्गो निर्मलात्मकः ॥७॥
निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः ।
सत्त्वप्रधानस्सद्भावस्सङ्ख्यातीतगुणोज्ज्वलः ॥८॥
अनघस्सारहृदयस्सुधीसारस्वतप्रदः ।
सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविलक्षणः ॥९॥
तपोराशिर् महातेजो गुणत्रयविभागवित् ।
कलिघ्नः कालकर्मज्ञस्तमोगुणनिवारकः ॥१०॥
भगवान्भारतीजेता शारदाह्वानपण्डितः ।
धर्माधर्मविभावज्ञो लक्ष्यभेदप्रदर्शकः ॥११॥
नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः ।
अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् ॥१२॥
चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् ।
अमानुषचरित्राढ्यः क्षेमदायी क्षमाकरः ॥१३॥
भव्यो भद्रप्रदो भूरिमहिमा विश्वरञ्जकः ।
स्वप्रकाशस्सदाधारो विश्वबन्धुश्शुभोदयः ॥१४॥
विशालकीर्तिर्वागीशस्सर्वलोकहितोत्सुकः ।
कैलासयात्रसम्प्राप्तचन्द्रमौलिप्रपूजकः ॥१५॥
काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षितः ।
श्रीचक्रात्मक ताटङ्क तोषिताम्बा मनोरथः ॥१६॥
ब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः ।
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥१७॥
द्विसप्ततिमतोच्छेत्ता सर्वदिग्विजयप्रभुः ।
काषायवसनोपेतो भस्मोद्धूळितविग्रहः ॥१८॥
ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः ।
व्याससन्दर्शनप्रीतो भगवत्पादसंज्ञकः ॥१९॥
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ।
चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसपोषकः ॥२०॥
श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः ।
तोटकाचार्यसम्पूज्य पद्मपादर्चिताङ्घ्रिकः ॥२१॥
हस्तामलयोगीन्द्र ब्रह्मज्ञानप्रदायकः ।
सुरेश्वराख्यसच्छिष्य संन्यासाश्रमदायकः ॥२२॥
निर्व्याजकरुणामूर्तिः जगत्पूज्यो जगद्गुरुः ।
भेरीपटहवाद्यादि-राजलक्षणलक्षितः ॥२३॥
सकृत्स्मरणसन्तुष्टः सर्वज्ञो ज्ञानदायकः ।
इति श्रीमच्छङ्करार्यसर्वलोकगुरोः परम् ॥२४॥
ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः ।
गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥१९॥
व्याससन्दर्शनप्रीतः ऋष्यशृङ्गपुरेश्वरः ।
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥२०॥
चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसपोषकः ।
श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः ॥२१॥
तोटकाचार्यसम्पूज्य पद्मपादर्चिताङ्घ्रिकः ।
हस्तामलयोगिन्द्र ब्रह्मज्ञानप्रदायकः ॥२२॥
सुरेश्वराख्यसच्छिष्य संन्यासाश्रमदायकः ।
नृसिंहभक्तस्सद्रत्नगर्भहेरम्बपूजकः ॥२३॥
व्याख्यसिंहासनाधीशो जगत्पूज्यो जगद्गुरुः ।
इति श्रीमच्छङ्कराचार्यसर्वलोकगुरोः परम् ॥२४॥
नाम्नामष्टोत्तरशतं भुक्तिमुक्तिफलप्रदम् ।
त्रिसन्ध्यं यः पठेद्भक्त्या सर्वान्कामानवाप्नुयात् ॥२५॥
इति श्रीमच्छङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥
N/A
References : N/A
Last Updated : December 28, 2025

TOP