श्रीशिवाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
पार्वत्युवाच -
शरीरार्धमहं शम्भोर्येन प्राप्स्यामि केशव ।
तदिदानीं समाचक्ष्व स्तोत्रं शीघ्रफलप्रदम् ॥
नारायण उवाच ।
अस्ति गुह्यतमं गौरि नाम्नामष्टोत्तरं शतम् ।
शम्भोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ॥
ॐ अस्य श्रीशिवाष्टोत्तरशतदिव्यनामस्तोत्रमालामन्त्रस्य नारायणऋषिः ।
अनुष्टुप्छन्दः । श्रीसदाशिवः परमात्मा देवता । गौरी उमा शक्तिः ।
श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम् -
शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं
विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् ।
गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं
वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥
धवलवपुषमिन्दोर्मण्डले संनिविष्टं
भुजगवलयहारं भस्मदिग्धाङ्गमीशम् ।
हरिणपरशुपाणिं चारुचन्द्रार्धमौलिं
हृदयकमलमध्ये सन्ततं चिन्मयामि ॥
श्रीविष्णुरुवाच ।
ॐ शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥
भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः ।
उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३॥
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥
कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥
हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥
हिरण्यरेता दुर्धर्षः गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥
कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः ।
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥
व्योमकेशो महासेनजनकश्चारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः ।
शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥११॥
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः । (महादेवोऽव्ययः प्रभुः)
पूषादन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥
भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
फलश्रुतिः ।
एतदष्टोत्तरं नाम्नां शतमाम्नायसंमितम् ।
(विष्णुना कथितं पूर्वं पार्वत्या इष्टसिद्धये ।)
शङ्करस्य प्रिया गौरी जप्त्वा शम्भुप्रसाददम् ॥१॥
त्रैकाल्यमन्वहं देवी वर्षमेकं प्रयत्नतः ।
अवाप सा शरीरार्धं प्रसादाच्छूलपाणिनः ॥२॥
यस्त्रिसन्ध्यं पठेन्नित्यं नाम्नामष्टोत्तरं शतम् ।
शतरुद्रत्रिरावृत्या यत्फलं लभते नरः ॥३॥
तत्फलं प्राप्नुयान्नित्यमेकावृत्त्या नसंशयः ।
सकृद्वा नामभिः पूज्य कुलकोटिं समुद्धरेत् ॥४॥
बिल्वपत्रैः प्रशस्तैश्च पुष्पैश्च तुलसीदलैः ।
तिलाक्षतैर्यजेद्यस्तु जीवन्मुक्तो न संशयः ॥५॥
नाम्नामेषां पशुपतेरेकमेवापवर्गदम् ।
अन्येषां चावशिष्टाना फलं वक्तुं न शक्यते ॥६॥
इति श्रीशिवाष्टोत्तरशतदिव्यनामामृतस्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 28, 2025

TOP