श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीविद्यारण्यमुनिध्यानम् -
अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा ।
विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥
विद्याविद्याविवेकेन पारं संसारवारिधेः ।
प्रापयत्यनिशं भक्तांस्तं विद्यारण्यमाश्रये ॥
अथ श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ।
विद्यारण्यमहायोगी महाविद्याप्रकाशकः ।
श्रीविद्यानगरोद्धर्ता विद्यारत्नमहोदधिः ॥१॥
रामायणमहासप्तकोटिमन्त्रप्रकाशकः ।
श्रीदेवीकरुणापूर्णः परिपूर्णमनोरथः ॥२॥
विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पकः ।
वेदत्रयोल्लसद्भाष्यकर्ता तत्त्वार्थकोविदः ॥३॥
भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभुः ।
वर्णाश्रमव्यवस्थाता निगमागमसारवित् ॥४॥
श्रीमत्कर्णाटराज्यश्रीसम्पत्सिंहासनप्रदः ।
श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृत् ॥५॥
आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पकः ।
सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृत् ॥६॥
सर्वशास्त्रार्थतत्त्वज्ञो मन्त्रशास्त्राब्धिमन्थरः ।
विद्वन्मणिशिरः श्लाघ्यबहुग्रन्थविधायकः ॥७॥
सारस्वतसमुद्धर्ता सारासारविचक्षणः ।
श्रौतस्मातसदाचारसंस्थापनधुरन्धरः ॥८॥
वेदशास्त्रबहिर्भूतदुर्मताम्बोधिशोषकः ।
दुर्वादिगर्वदावाग्निः प्रतिपक्षेभकेसरी ॥९॥
यशोजैवातृकज्योत्स्नाप्रकाशितदिगन्तरः ।
अष्टाङ्गयोगनिष्णातस्साङ्ख्ययोगविशारदः ॥१०॥
राजाधिराजसन्दोहपूज्यमानपदाम्बुजः ।
महावैभवसम्पन्न औदार्यश्रीनिवासभूः ॥११॥
तिर्यगान्दोलिकामुख्यसमस्तबिरुदार्जकः ।
महाभोगी महायोगी वैराग्यप्रथमाश्रयः ॥१२॥
श्रीमान्परमहंसादिसद्गुरुः करुणानिधिः ।
तपःप्रभावनिर्धूतदुर्वारकलिवैभवः ॥१३॥
निरन्तरशिवध्यानशोषिताखिलकल्मषः ।
निर्जितारातिषड्वर्गो दारिद्र्योन्मूलनक्षमः ॥१४॥
जितेन्द्रियः सत्यवादी सत्यसन्धो दृढव्रतः ।
शान्तात्मा सुचरित्राढ्यः सर्वभूतहितोत्सुकः ॥१५॥
कृतकृत्यो धर्मशीलो दान्तो लोभविवर्जितः ।
महाबुद्धिर्महावीर्यो महातेजा महामनाः ॥१६॥
तपोराशिर्ज्ञानराशिः कल्याणगुणवारिधिः ।
नीतिशास्त्रसमुद्धर्ता प्राज्ञमौलिशिरोमणिः ॥१७॥
शुद्धसत्त्वमयोधीरो देशकालविभागवित् ।
अतीन्द्रियज्ञाननिधिर्भूतभाव्यर्थकोविदः ॥१८॥
गुणत्रयविभागज्ञः संन्यासाश्रमदीक्षितः ।
ज्ञानात्मकैकदण्डाढ्यः कौसुम्भवसनोज्ज्वलः ॥१९॥
रुद्राक्षमालिकाधारी भस्मोद्धूलितदेहवान् ।
अक्षमालालसद्धस्तस्त्रिपुण्ड्राङ्कितमस्तकः ॥२०॥
धरासुरतपः सम्पत्फलं शुभमहोदयः ।
चन्द्रमौलीश्वरश्रीमत्पादपद्मार्चनोत्सुकः ॥२१॥
श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसः ।
रत्नगर्भगणेशानप्रपूजनपरायणः ॥२२॥
शारदाम्बादिव्यपीठसपर्यातत्पराशयः ।
अव्याजकरुणामूर्तिः प्रज्ञानिर्जितगीष्पतिः ॥२३॥
सुज्ञानसत्कृतजगल्लोकानन्दविधायकः ।
वाणीविलासभवनं ब्रह्मानन्दैकलोलुपः ॥२४॥
निर्ममो निरहङ्कारो निरालस्यो निराकुलः ।
निश्चिन्तो नित्यसन्तुष्टो नियतात्मा निरामयः ॥२५॥
गुरुभूमण्डलाचार्यो गुरुपीठप्रतिष्ठितः ।
सर्वतन्त्रस्वतन्त्रश्च यन्त्रमन्त्रविचक्षणः ॥२६॥
शिष्टेष्टफलदाता च दुष्टनिग्रहदीक्षितः ।
प्रतिज्ञातार्थनिर्वोढा निग्रहानुग्रहप्रभुः ॥२७॥
जगत्पूज्यः सदानन्दः साक्षाच्छङ्कररूपभृत् ।
महालक्ष्मीमहामन्त्रपुरश्चर्यापरायणः ॥२८॥
विद्यारण्यमहायोगिनाम्नामष्टोत्तरं शतम् ।
यः पठेत्सततं सम्पत्सारस्वतनिधिर्भवेत् ॥२९॥
इति श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 28, 2025

TOP