संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीराहु अष्टोत्तरशतनामस्तोत्रम्

श्रीराहु अष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


राहु बीज मन्त्र - ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥

शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥१॥
फणिर्गार्ग्यायनस्तथा
सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः ।
सुरारिर्नील
खड्गखेटकधारी च वरदायकहस्तकः ॥२॥

शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् । वर्णो  पताकवान्
दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥३॥ दंष्ट्राकरालकः
शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥४॥ काश्यप
उल्कापातयिताशुली निधिपः कृष्णसर्पराट् । उल्कापातजनिः शूली
विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥५॥ शात्रवप्रदः
रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः ।
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥६॥

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥७॥

चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥८॥

उपरागकरस्सूर्यहिमांषुच्छविहारकः ।
var  उपरागकरस्सोम सूर्यच्छवि विमर्दकः
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥९॥

कबन्धमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥१०॥

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
मानेगङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः ॥११॥

सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥१२॥

जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥१३॥

जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥१४॥

द्यूने कळत्रहन्ता च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥१५॥

नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशःप्रदाता च अन्ते वैरप्रदायकः ॥१६॥

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पञ्चमे धिषणाशृङ्गदः स्वर्भानुर्बली तथा ॥१७॥

महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥१८॥

पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।
दीर्घकृष्णोतनुर्विष्णुनेत्रारिर्देवदानवौ ॥१९॥

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥२०॥

श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् ।
सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥२१॥

॥ इति राहु अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP