संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्

श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


(अथ श्रीकालीविलासतन्त्रे दशमः पटलः ।)
श्रीदेव्युवाच ।
देवदेव महादेव योगीन्द्र वृषभध्वज ।
अस्याः श्रीभुवनेश्वर्याः शतनाम वद प्रभो ॥१॥

श्रीईशान उवाच ।
सहस्रेण महेशानि कलिकाले न सिद्ध्यति ।
शतनाम्नः परं नाम कलौ नास्ति महेश्वरि ॥२॥

अस्य श्रीभुवनेश्वरी शतनामस्तोत्रस्य शक्तिरृषि
विराट्च्छन्दः श्रीभुवनेश्वरी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥

ॐ आद्या श्रीभुवनाभव्या भवबन्धविमोहिनी ।
भगरूपा भगवती भेरण्डा भाग्यशालिनी ॥३॥

ईश्वरी ईश्वरानन्दा वन्दनीया विलासिनी ।
उमा ऊमा च (१)उन्मत्ता इन्दिरा इन्द्रपूजिता ॥४॥

ऊर्ध्व-तेजस्विनी ऊर्ध्वा ऊर्ध्वगा ऊर्ध्वरूपिणी ।
नन्दिनी नन्दमथिनी नन्दा नन्दकरूपिणी ॥५॥

नित्या च निष्कलङ्का च निर्मला मलनाशिनी ।
निरीहोल्लासिनी नत्या निर्मला नित्यनूतना(२) ॥६॥

निशुम्भनाशिनी चैव तथा शुम्भविनाशिनी ।
शुक्लरूपा च शुक्लार्हा शाम्भवी शम्भुवल्वभा ॥७॥

शिवाख्या शिवरूपा च शिवपूज्या शिवार्चिता ।
शिववादा (३)च श्यामा च श्यामाङ्गी श्याममूर्त्तिका ॥८॥

शोभा च सुभगा चैव शोभना भुवनेश्वरी ।
रक्ताङ्गी रक्तनयना रक्ताक्षी रक्तलोचना ॥९॥

रेवती रुक्मिणी राधा रौद्री रामा रजोगुणा ।
रम्या च रमणीया च रामक्रीडावती तथा ॥१०॥

रामार्चिता रामपूज्या रङ्गिनी रामवल्लभा(४) ।
रक्ताक्षी रक्तहास्या च रुधिरा रुधिरप्रिया ॥११॥

रक्तारक्तमयी राज्ञी रसयुक्ता रसप्रिया ।
रसमाला रसमयी तथा रसवती रतिः ॥१२॥

रूपमाला रूपवती रूपाङ्गदविभूषणा ।
रेणुका रेत(५)रूपा च रसरूपा रसाश्रया(६) ॥१३॥

भागीरथी तथोन्नासां(७)वशिनी वेशरूपिणी ।
रेवा च शाम्भवी चैव मृदापारण(८)पण्डिता ॥१४॥

शतनाम इदं देवि कथितं भक्तितस्तव ।
गुह्याद् गुह्यतरं गुह्यं कलिकालस्य सम्मतम् ॥१५॥

अष्टोत्तरशतं जप्त्वा दशधा वापि सुन्दरि ।
पठित्वा फलमाप्नोति अयुतं वरवर्णनि ॥१६॥

अयुतावर्त्तनाद्देवि चाश्वमेधफलं लभेत् ।
गोमेधशतयज्ञानां फलमाप्नोति निश्चितम् ॥१७॥

प्रपठेद् यदि शुद्धात्मा स्वकीयस्त्रीषु संरतः ।
वामभागे स्त्रियं स्थाप्य धूपामोद सुगन्धितः ॥१८॥

ताम्बूल-पूरितमुखी यदि स्याज्जपतत्परः ।
यद्यप्यदीक्षिता नारी दूरतः परिवर्जयेत् ॥१९॥

दीक्षिता-परनारीषु यदि मैथुनमाचरेत् ।
न विन्दोः पातनं कार्यं कृते च ब्रह्महा भवेत् ॥२०॥

मृदापारगां मृत्तिकाविदारणमित्यर्थः ।
यदि न प्रपतेद्दिन्दुः परनारीषु पार्वति ।
सर्वसिद्धीश्वरो भूत्वा विहरेत् क्षितिमण्डले ॥२१॥

इति श्रीकालीविलासतन्त्रे श्रीभुवनेश्वरी शतनामस्तोत्रं समाप्तम् ।
ॐ तत्सदित्यादि ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP