संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र| श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् अष्टोत्तरशतनामस्तोत्र श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम् श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम् तुलस्यष्टोत्तरशतनामस्तोत्रं नृसिंहाष्टोत्तरशतनामस्तोत्रम् सरस्वत्यष्टोत्तरशतनामस्तोत्रम् श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् गौर्यष्टोत्तरशतनामस्तोत्रम् श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ललिताष्टोत्तरशतनामस्तोत्रम् सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम् लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम् श्रीरामाष्टोत्तरशतनामस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम् श्री सीता अष्टोत्तरशतनामस्तोत्रम् श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं सहस्रशीर्ष्णे वै तुभ्यं स... गणेशहेरंबगजाननेति महोदर! ... श्री देव्युवाच- देव देव म... श्रीशंकराचार्यवर्यश्च ब्र... महाशास्ता महादेवो महादेवस... रजताचलशृंगाग्रमध्यस्थायै ... वासुदेवं हृषीकेशं वामनं ज... अग्नेः अष्टोत्तरशतनामस्तोत्रम् श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम् श्रीअन्नपूर्णाष्टोत्तरशतनामस्तोत्रम् अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम् अवलोकितेश्वराष्टोत्तरशतनामस्तोत्रम् आकाशगर्भनामाष्टोत्तरशतस्तोत्रम् श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम् बटुकभैरवाष्टोत्तरशतनामस्तोत्रम् आर्यताराष्टोत्तरशतनामस्तोत्रम् आर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम् इन्दिराष्टोत्तरशतनामस्तोत्रम् उमाऽष्टोत्तरशतनामस्तोत्रम् कालीशतनामस्तोत्रं सम्पूर्णम् ॥ श्रीकमलाष्टोत्तरशतनामस्तोत्रम् कार्तिकेयशताष्टनामस्तोत्रम् श्रीकार्तिकेयाष्टोत्तरशतनामस्तोत्रम् आद्या कालिकादेव्याः शतनामस्तोत्रम् कालिकाशतनामस्तोत्रम् श्रीकालीशतनामस्तोत्रम् कालीशतनामस्तोत्रम् श्रीकिरातशास्तुः अष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् श्रीकेतु अष्टोत्तरशतनामस्तोत्रम् श्रीगङ्गाष्टोत्तरशतनामस्तोत्रम् श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम् श्रीगणेशाष्टोत्तरशतनामस्तोत्रम् गणेशाष्टोत्तरशतनामस्तोत्रम् श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम् श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.Ashtottara shatanamavali means 108 names of almighty God and Tags : ashtottar shatnam stotradevidevtasanskritstotraसंस्कृतस्तोत्र श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् Translation - भाषांतर श्रीदेव्युवाच -देवदेव महादेव सर्वज्ञ करुणानिधे ।श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् ।ईश्वर उवाच -शृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः ।नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिःअनुष्टुप् छन्दः गरुडो देवता । प्रणवो बीजम् । विद्या शक्तिः ।वेदादिः कीलकम् । पक्षिराजप्रीत्यर्थे जपे विनियोगः ।ध्यानम् -अमृतकलशहस्तं कान्तिसम्पूर्णदेहंसकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् ।कनकरुचिरपक्षोद्धूयमानाण्डगोलंसकलविषविनाशं चिन्तयेत्पक्षिराजम् ॥ॐ । वैनतेयः खगपतिः काश्यपोऽग्निर्महाबलः ।तप्तकाञ्चनवर्णाभः सुपर्णो हरिवाहनः ॥१॥छन्दोमयो महातेजा महोत्साहो महाबलः ।ब्रह्मण्यो विष्णुभक्तश्च कुन्देन्दुधवलाननः ॥२॥चक्रपाणिधरः श्रीमान्नागारिर्नागभूषणः ।विज्ञानदो विशेषज्ञो विद्यानिधिरनामयः ॥३॥भूतिदो भुवनत्राता भूशयो भक्तवत्सलः ।सप्तच्छन्दोमयः पक्षी सुरासुरसुपूजितः ॥४॥गजभुक् कच्छपाशी च दैत्यहन्ताऽरुणानुजः ।अमृतांशोऽमृतवपुरानन्दनिधिरव्ययः ॥५॥निगमात्मा निराहारो निस्त्रैगुण्यो निरप्ययः ।निर्विकल्पः परं ज्योतिः परात्परतरः परः ॥६॥शुभाङ्गः शुभदः शूरः सूक्ष्मरूपी बृहत्तनुः ।विषाशी विदितात्मा च विदितो जयवर्धनः ॥७॥दार्ढ्याङ्गो जगदीशश्च जनार्दनमहाध्वजः ।सतां सन्तापविच्छेत्ता जरामरणवर्जितः ॥८॥कल्याणदः कलातीतः कलाधरसमप्रभः ।सोमपः सुरसङ्घेशो यज्ञाङ्गो यज्ञभूषणः ॥९॥महाजवो जितामित्रो मन्मथप्रियबान्धवः ।शङ्खभृच्चक्रधारी च बालो बहुपराक्रमः ॥१०॥सुधाकुम्भधरो धीमान्दुराधर्षो दुरारिहा ।वज्राङ्गो वरदो वन्द्यो वायुवेगो वरप्रदः ॥११॥विनतानन्दनः श्रीदो विजितारातिसङ्गुलः ।पतद्वरिष्ठः सर्वेशः पापहा पापनाशनः ॥१२॥अग्निजिज्जयघोषश्च जगदाह्लादकारकः ।वज्रनासः सुवक्त्रश्च मारिघ्नो मदभञ्जनः ॥१३॥कालज्ञः कमलेष्टश्च कलिदोषनिवारणः ।विद्युन्निभो विशालाङ्गो विनतादास्यमोचनः ॥१४॥स्तोमात्मा च त्रयीमूर्धा भूमा गायत्रलोचनः ।सामगानरतः स्रग्वी स्वच्छन्दगतिरग्रणीः ॥१५॥इतीदं परमं गुह्यं गरुडस्य महात्मनःनाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ।स्तूयमानं महादिव्यं विष्णुना समुदीरितम् ॥१६॥इति ब्रह्माण्डपुराणान्तर्गतं गरुडाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : December 22, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP