हनुमदष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ॐ रामदूतो रामभृत्यो रामचित्तापहारकः ।
रामनामजपासक्तो रामकीर्तिप्रचारकः ॥१॥
रामालिङ्गनसौख्यज्ञो रामविक्रमहर्षितः ।
रामबाणप्रभावज्ञो रामसेवाधुरन्धरः ॥२॥
रामहृत्पद्ममार्तण्डो रामसङ्कल्पपूरकः ।
रामामोदितवाग्वृत्तिः रामसन्देशवाहकः ॥३॥
रामतारकगुह्यज्ञो रामाह्लादनपण्डितः ।
रामभूपालसचिवो रामधर्मप्रवर्तकः ॥४॥
रामानुजप्राणदाता रामभक्तिलतासुमम् ।
रामचन्द्रजयाशंसी रामधैर्यप्रवर्धकः ॥५॥
रामप्रभावतत्त्वज्ञो रामपूजनतत्परः ।
राममान्यो रामहृद्यो रामकृत्यपरायणः ॥६॥
रामसौलभ्यसंवेत्ता रामानुग्रहसाधकः ।
रामार्पितवचश्चित्तदेहवृत्तिप्रवर्त्तितः ॥७॥
रामसामुद्रिकाभिज्ञो रामपादाब्जषट्पदः ।
रामायणमहामालामध्याञ्चितमहामणिः ॥८॥
रामायणरसास्वादस्रवदश्रुपरिप्लुतः ।
रामकोदण्डटङ्कारसहकारिमहास्वनः ॥९॥
रामसायूज्यसाम्राज्यद्वारोद्घाटनकर्मकृत् ।
रामपादाब्जनिष्यन्दिमधुमाधुर्यलोलुपः ॥१०॥
रामकैङ्कर्यमात्रैकपुरुषार्थकृतादरः ।
रामायणमहाम्भोधिमथनोत्थसुधाघटः ॥११॥
रामाख्यकामधुग्दोग्धा रामवक्त्रेन्दुसागरः ।
रामचन्द्रकरस्पर्शद्रवच्छीतकरोपलः ॥
रामायणमहाकाव्यशुक्तिनिक्षिप्तमौक्तिकः ।
रामायणमहारण्यविहाररतकेसरी ॥१३॥
रामपत्न्येकपत्नीत्वसपत्नायितभक्तिमान् ।
रामेङ्गितरहस्यज्ञो राममन्त्रप्रयोगवित् ॥१४॥
रामविक्रमवर्षर्तुपूर्वभूनीलनीरदः ।
रामकारुण्यमार्त्तण्डप्रागुद्यदरुणायितः ॥१५॥
रामराज्याभिषेकाम्बुपवित्रीकृतमस्तकः ।
रामविश्लेषदावाग्निशमनोद्यतनीरदः ॥१६॥
रामायणवियद्गङ्गाकल्लोलायितकीर्तिमान् ।
रामप्रपन्नवात्सल्यव्रततात्पर्यकोविदः ॥१७॥
रामाख्यानसमाश्वस्तसीतामानससंशयः ।
रामसुग्रीवमैत्र्याख्यहव्यवाहेन्धनायितः ॥१८॥
रामाङ्गुलीयमाहात्म्यसमेधितपराक्रमः ।
रामार्त्तिध्वंसनचणचूडामणिलसत्करः ॥१९॥
रामनाममधुस्यन्दद्वदनाम्बुजशोभितः ।
रामनामप्रभावेण गोष्पदीकृतवारिधिः ॥२०॥
रामौदार्यप्रदीपार्चिर्वर्धकस्नेहविग्रहः ।
रामश्रीमुखजीमूतवर्षणोन्मुखचातकः ॥२१॥
रामभक्त्येकसुलभब्रह्मचर्यव्रते स्थितः ।
रामलक्ष्मणसंवाहकृतार्थीकृतदोर्युगः ॥२२॥
रामलक्ष्मणसीताख्यत्रयीराजितहृद्गुहः ।
रामरावणसङ्ग्रामवीक्षणोत्फुल्लविग्रहः ॥२३॥
रामानुजेन्द्रजिद्युद्धलब्धव्रणकिणाङ्कितः ।
रामब्रह्मानुसन्धानविधिदीक्षाप्रदायकः ॥२४॥
रामरावणसङ्ग्राममहाध्वरविधानकृत् ।
रामनाममहारत्ननिक्षेपमणिपेटकः ॥२५॥
रामताराधिपज्योत्स्नापानोन्मत्तचकोरकः ।
रामायणाख्यसौवर्णपञ्जरस्थितशारिकः ॥२६॥
रामवृत्तान्तविध्वस्तसीताहृदयशल्यकः ।
रामसन्देशवर्षाम्बुवहन्नीलपयोधरः ॥२७॥
रामराकाहिमकरज्योत्स्नाधवलविग्रहः ।
रामसेवामहायज्ञदीक्षितो रामजीवनः ॥२८॥
रामप्राणो रामवित्तं रामायत्तकलेवरः ।
रामशोकाशोकवनभञ्जनोद्यत्प्रभञ्जनः ॥२९॥
रामप्रीतिवसन्तर्तुसूचकायितकोकिलः ।
रामकार्यार्थोपरोधदूरोत्सारणलम्पटः ॥३०॥
रामायणसरोजस्थहंसो रामहिते रतः ।
रामानुजक्रोधवह्निदग्धसुग्रीवरक्षकः ॥३१॥
रामसौहार्दकल्पद्रुसुमोद्गमनदोहदः ।
रामेषुगतिसंवेत्ता रामजैत्ररथध्वजः ॥३२॥
रामब्रह्मनिदिध्यासनिरतो रामवल्लभः ।
रामसीताख्ययुगलयोजको राममानितः ॥३३॥
रामसेनाग्रणी रामकीर्तिघोषणडिण्डिमः ।
रामेतिद्व्यक्षराकारकवचावृतविग्रहः ॥
रामायणमहावृक्षफलासक्तकपीश्वरः ।
रामपादाश्रयान्वेषिविभीषणविचारवित् ॥३५॥
राममाहात्म्यसर्वस्वं रामसद्गुणगायकः ।
रामजायाविषादाग्निनिर्दग्धरिपुसैनिकः ॥३६॥
रामकल्पद्रुमूलस्थो रामजीमूतवैद्युतः ।
रामन्यस्तसमस्ताशो रामविश्वासभाजनम् ॥३७॥
रामप्रभावरचितशैत्यवालाग्निशोभितः ।
रामभद्राश्रयोपात्तधीरोदात्तगुणाकरः ॥३८॥
रामदक्षिणहस्ताब्जमुकुटोद्भासिमस्तकः ।
रामश्रीवदनोद्भासिस्मितोत्पुलकमूर्तिमान् ।
रामब्रह्मानुभूत्याप्तपूर्णानन्दनिमज्जितः ॥३९॥
इतीदं रामदूतस्य वायुसूनोर्महात्मनः ।
रामनामाङ्कितं नाममष्टोत्तरशतं शुभम् ॥४०॥
प्रसादादाञ्जनेयस्य देशिकानुग्रहेण च ।
रचितं स्वामिनाथेन कार्यकारेण भक्तितः ॥४१॥
भूयादभीष्टफलदं श्रद्धया पठतां नृणाम् ।
इहलोके परत्रापि रामसायूज्यदायकम् ॥४२॥
N/A
References : N/A
Last Updated : December 30, 2025

TOP