इन्दिराष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and
इन्दिरा विष्णुहृदयमन्दिरा पद्मसुन्दरा ।
नन्दिताखिलभक्तश्रीनन्दिकेश्वरवन्दिता ॥१॥
केशवप्रियचारित्रा केवलानन्दरूपिणी ।
केयूरहारमञ्जीरा केतकीपुष्पधारणी ॥२॥
कारुण्यकवितापाङ्गी कामितार्थप्रदायनी ।
कामधुक्सदृशा शक्तिः कालकर्मविधायिनी ॥३॥
जितदारिद्र्यसन्दोहा धृतपङ्केरुहद्वयी ।
कृतविद्ध्यण्डसंरक्षा नतापत्परिहारिणी ॥४॥
नीलाभ्राङ्गसरोनेत्रा नीलोत्पलसुचन्द्रिका ।
नीलकण्ठमुखाराध्या नीलाम्बरमुखस्तुता ॥५॥
सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायिता ।
समुद्रतनया सर्वसुरकान्तोपसेविता ॥६॥
भार्गवी भानुमत्यादिभाविता भार्गवात्मजा ।
भास्वत्कनकताटङ्का भानुकोट्यधिकप्रभा ॥७॥
पद्मसद्मपवित्राङ्गी पद्मास्या च परात्परा ।
पद्मनाभप्रियसती पद्मभूस्तन्यदायिनी ॥८॥
भक्तदारिद्र्यशमनी मुक्तिसाधकदायिनी ।
भुक्तिभोग्यप्रदा भव्यशक्तिमदीश्वरी ॥९॥
जन्ममृत्युज्वरत्रस्तजनजीवातुलोचना ।
जगन्माता जयकरी जयशीला सुखप्रदा ॥१०॥
चारुसौभाग्यसद्विद्या चामरद्वयशोभिता ।
चामीकरप्रभा सर्वचातुर्यफलरूपिणी ॥११॥
राजीवनयना रम्या रामणीयकजन्मभूः ।
राजराजार्चितपदा राजमुद्रास्वरूपिणी ॥१२॥
तारुण्यवनसारङ्गी तापसार्चितपादुका ।
तात्त्विकी तारकेशार्कताटङ्कद्वयमण्डिता ॥१३॥
भव्यविश्राणनोद्युक्ता सव्यक्तसुखविग्रहा ।
दिव्यवैभवसम्पूर्णा नव्यभक्तिशुभोदया ॥१४॥
तरुणादित्यताम्रश्रीः करुणारसवाहिनी ।
शरणागतसन्त्राणचरणा करुणेक्षणा ॥१५॥
वित्तदारिद्र्यशमनी वित्तक्लेशनिवारिणी ।
मत्तहंसगतिस्सर्वसत्तासामान्यरूपिणी ॥१६॥
वाल्मीकिव्यासदुर्वासो वालखिल्यादिवाञ्छिता ।
वारिजेषणहृत्केकिवारिदायितविग्रहा ॥१७॥
दृष्ट्याऽऽसादितविद्ध्यण्डा सृष्ट्यादिमहिमोच्छ्रया ।
आस्तिक्यपुष्पभृङ्गी च नास्तिकोन्मूलनक्षमा ॥१८॥
कृतसद्भक्तिसन्तोषा कृत्तदुर्जनपौरुषा ।
सञ्जीविताशेषभाषा सर्वाकर्षमतिस्नुषा ॥१९॥
नित्या शुद्धा परा बुद्धा सत्या संविदनामया ।
विजया विष्णुरमणी विमला विजयप्रदा ॥२०॥
श्रीङ्कारकामदोग्धी च ह्रीङ्कारतरुकोकिला ।
ऐङ्कारपद्मलोलम्बा क्लीङ्कारामृतनिम्नगा ॥२१॥
तपनीयाभसुतनुः कमनीयस्मितानना ।
गणनीयगुणग्रामा शयनीयोरगेश्वरा ॥२२॥
रमणीयसुवेषाढ्या करणीयक्रियेश्वरी ।
स्मरणीयचरित्रा च तरुणी यज्ञारूपिणी ॥२३॥
श्रीवृक्षवासिनी योगिधीवृत्तिपरिभाविता ।
प्रावृड्भार्गववारार्च्या संवृतामरभामिनी ॥२४॥
तनुमद्ध्या भगवतीमनुजापिवरप्रदा ।
लक्ष्मी विल्वाश्रिता पातु सोऽष्टोत्तरशतस्तुता ॥२५॥
इति इन्दिराष्टोत्तरशतनामस्तोत्रं समाप्तम् ।
N/A
References : N/A
Last Updated : December 21, 2025

TOP