संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीललितालकारादिशतनामस्तोत्रम्

श्रीललितालकारादिशतनामस्तोत्रम्

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.


श्रीललितात्रिपुरसुन्दर्यै नमः ।
श्रीललितालकारादिशतनामस्तोत्रसाधना ।
विनियोगः -
ॐ अस्य श्रीललितालकारादिशतनाममालामन्त्रस्य श्रीराजराजेश्वरो ॠषिः ।
अनुष्टुप्छन्दः । श्रीललिताम्बा देवता । क ए ई ल ह्रीं बीजम् ।
स क ल ह्रीं शक्तिः । ह स क ह ल ह्रीं उत्कीलनम् ।
श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा
धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगः ।
ॠष्यादि न्यासः -
ॐ श्रीराजराजेश्वरोॠषये नमः- शिरसि ।
ॐ अनुष्टुप्छन्दसे नमः- मुखे ।
ॐ श्रीललिताम्बादेवतायै नमः- हृदि ।
ॐ क ए ई ल ह्रीं बीजाय नमः- लिङ्गे ।
ॐ स क ल ह्रीं शक्त्तये नमः- नाभौ ।
ॐ ह स क ह ल ह्रीं उत्कीलनाय नमः- सर्वाङ्गे ।
ॐ श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा
धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगाय नमः- अञ्जलौ ।
करन्यासः -
ॐ ऐं    क ए ई ल ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं   ह स क ह ल ह्रीं तर्जनीभ्यां नमः ।
ॐ सौः    स क ल ह्रीं मध्यमाभ्यां नमः ।
ॐ ऐं    क ए ई ल ह्रीं अनामिकाभ्यां नमः ।
ॐ क्लीं   ह स क ह ल ह्रीं कनिष्ठिकाभ्यां नमः ।
ॐ सौं    स क ल ह्रीं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः -
ॐ ऐं    क ए ई ल ह्रीं हृदयाय नमः ।
ॐ क्लीं   ह स क ह ल ह्रीं शिरसे स्वाहा ।
ॐ सौं    स क ल ह्रीं शिखायै वषट् ।
ॐ ऐं    क ए ई ल ह्रीं कवचाय हुम् ।
ॐ क्लीं   ह स क ह ल ह्रीं नेत्रत्रयाय वौषट्  ।
ॐ सौं    स क ल ह्रीं अस्त्राय फट् ।
ध्यानम् ।
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥

मानसपूजनम् ।
ॐ लं पृथिव्यात्मकं गन्धं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीललितात्रिपुराप्रीतये घ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीललितात्रिपुराप्रीतये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीललितात्रिपुराप्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ॥

श्रीललितात्रिपुरसुन्दर्यै नमः ।
श्रीललितालकारादिशतनामस्तोत्रसाधना ।
पूर्वपीठिका -
कैलासशिखरासीनं देवदेवं जगद्गरूम् ।
पप्रच्छेशं परानन्दं भैरवी परमेश्वरम् ॥१॥

श्रीभैरव्युवाच ।
कौलेश ! श्रोतुमिच्छामि सर्वमन्त्रोत्तमोत्तमम् ।
ललिताया शतनाम सर्वकामफलप्रदम् ॥२॥

श्रीभैरवोवाच ।
शृणु देवी महाभागे स्तोत्रमेतदनुत्तमं
पठनद्धारणादस्य सर्वसिद्धीश्वरो भवेत् ॥३॥

षट्कर्माणि सिद्ध्यन्ति स्तवस्यास्य प्रसादतः ।
गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥४॥

विनियोगः ।
ललिताया लकारादि नामशतकस्य देवि ! ।
राजराजेश्वरो ऋषिः प्रोक्तो छन्दोऽनुष्टुप् तथा ॥५॥

देवता ललितादेवी षट्कर्मसिद्ध्यर्थे तथा ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥६॥

वाक्कामशक्त्तिबीजेन करषडङ्गमाचरेत् ।
प्रयोगे बालात्र्यक्षरी योजयित्वा जपं चरेत् ॥७॥

अथ मूल श्रीललितालकारादिशतनामस्तोत्रम् ।
ललिता लक्ष्मी लोलाक्षी लक्ष्मणा लक्ष्मणार्चिता ।
लक्ष्मणप्राणरक्षिणी लाकिनी लक्ष्मणप्रिया ॥१॥

लोला लकारा लोमशा लोलजिह्वा लज्जावती ।
लक्ष्या लाक्ष्या लक्षरता लकाराक्षरभूषिता ॥२॥

लोललयात्मिका लीला लीलावती च लाङ्गली ।
लावण्यामृतसारा च  लावण्यामृतदीर्घिका ॥३॥

लज्जा लज्जामती लज्जा ललना ललनप्रिया ।
लवणा लवली लसा लाक्षकी लुब्धा लालसा ॥४॥

लोकमाता लोकपूज्या लोकजननी लोलुपा ।
लोहिता लोहिताक्षी च लिङ्गाख्या चैव लिङ्गेशी ॥५॥

लिङ्गगीति लिङ्गभवा लिङ्गमाला लिङ्गप्रिया ।
लिङ्गाभिधायिनी लिङ्गा लिङ्गनामसदानन्दा ॥६॥

लिङ्गामृतप्रिता लिङ्गार्चनप्रिता लिङ्गपूज्या ।
लिङ्गरूपा लिङ्गस्था च लिङ्गालिङ्गनतत्परा ॥७॥

लतापूजनरता च लतासाधकतुष्टिदा ।
लतापूजकरक्षिणी लतासाधनसध्दिदा ॥८॥

लतागृहनिवाकसिनी लतापूज्या लताराध्या ।
लतापुष्पा लतारता लताधारा लतामयी ॥९॥

लतास्पर्शनसन्तुष्टा लताऽऽलिङ्गनहर्षिता ।
लताविद्या लतासारा लताऽऽचारा लतानिधी ॥१०॥

लवङ्गपुष्पसन्तुष्टा लवङ्गलतामध्यस्था ।
लवङ्गलतिकारूपा लवङ्गहोमसन्तुष्टा ॥११॥

लकाराक्षारपूजिता च लकारवर्णोद्भवा ।
लकारवर्णभूषिता लकारवर्णरूचिरा ॥१२॥

लकारबीजोद्भवा तथा लकाराक्षरस्थिता ।
लकारबीजनिलया  लकारबीजसर्वस्वा ॥१३॥

लकारवर्णसर्वाङ्गी लक्ष्यछेदनतत्परा ।
लक्ष्यधरा लक्ष्यघूर्णा लक्षजापेनसिद्धदा ॥१४॥

लक्षकोटिरूपधरा लक्षलीलाकलालक्ष्या ।
लोकपालेनार्चिता च  लाक्षारागविलेपना ॥१५॥

लोकातीता लोपामुद्रा लज्जाबीजस्वरूपिणी ।
लज्जाहीना लज्जामयी लोकयात्राविधायिनी ॥१६॥

लास्यप्रिया लयकरी लोकलया लम्बोदरी ।
लघिमादिसिद्धदात्री लावण्यनिधिदायिनी ।
लकारवर्णग्रथिता  लम्बीजा ललिताम्बिका ॥१७॥

फलश्रुतिः ।
इति ते कथितं ! गुह्याद्गुह्यतरं परम् ।
प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत्साधकश्रेष्ठो त्रैलोक्यविजयी भवेत् ॥१॥

सर्वपापिविनिर्ममुक्तः स याति ललितापदम् ।
शून्यागारे शिवारण्ये शिवदेवालये तथा ॥२॥

शून्यदेशे तडागे च नदीतीरे चतुष्पथे ।
एकलिङ्गे ऋतुस्नातागेहे वेश्यागृहे तथा ॥३॥

पठेदष्टोत्तरशतनामानि सर्वसिद्धये ।
साधको वाञ्छां यत्कुर्यात्तत्तथैव भविष्यति ॥४॥

बह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।
समस्ताः सिद्धयो देवी ! करामलकवत्सदा ॥५॥

साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः ।
स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥६॥

अयुतावर्त्तनाद्देवि ! पुरश्चर्याऽस्य गीयते ।
पुरश्चर्यायुतः स्तोत्रः सर्वकर्मफलप्रदः ॥७॥

सहस्रं च पठेद्यस्तु मासार्ध साधकोत्तमः ।
दासीभूतं जगत्सर्वं मासार्धाद्भवति ध्रुवम् ॥८॥

नित्यं प्रतिनाम्ना हुत्वा पालशकुसुमैर्नरः ।
भूलोकस्थाः सर्वकन्याः सर्वलोकस्थितास्तथा ॥९॥

पातालस्थाः सर्वकन्याः नागकन्याः यक्षकन्याः ।
वशीकुर्यान्मण्डलार्धात्संशयो नात्र विद्यते ॥१०॥

अश्वत्थमूले पठेत्शतवार ध्यानपूर्वकम् ।
तत्क्षणाद्व्याधिनाशश्च भवेद्देवी ! न संशयः ॥११॥

शून्यागारे पठेत्स्तोत्रं सहस्रं ध्यानपूर्ववकम् ।
लक्ष्मी प्रसीदति ध्रुवं स त्रैलोक्यं वशिष्यति ॥१२॥

प्रेतवस्त्रं भौमे ग्राह्यं रिपुनाम च कारयेत् ।
प्राणप्रतिष्ठा कृत्वा तु पूजां चैव हि कारयेत् ॥१३॥

श्मशाने निखनेद्रात्रौ द्विसहस्रं पठेत्ततः ।
जिहवास्तम्भनमाप्नोति सद्यो मूकत्वमाप्नुयात् ॥१४॥

श्मशाने पठेत् स्तोत्रं अयुतार्ध सुबुद्धिमान् ।
शत्रुक्षयो भवेत् सद्यो नान्यथा मम भाषितम् ॥१५॥

प्रेतवस्त्रं शनौ ग्राह्यं प्रतिनाम्ना सम्पुटितम् ।
शत्रुनाम लिखित्वा च प्राणप्रतिष्ठां कारयेत् ॥१६॥

ततः ललितां सम्पूज्यय कृष्णधत्तूरपुष्पकैः ।
श्मशाने निखनेद्रात्रौ शतवारं पठेत् स्तोत्रम् ॥१७॥

ततो मृत्युमवाप्नोति देवराजसमोऽपि सः ।
श्मशानाङ्गारमादाय मङ्गले शनिवारे वा ॥१८॥

प्रेतवस्त्रेण संवेष्ट्य बध्नीयात् प्रेतरज्जुना ।
दशाभिमन्त्रितं कृत्वा खनेद्वैरिवेश्मनि ॥१९॥

सप्तरात्रान्तरे तस्योच्चाटनं भ्रामणं भवेत् ।
कुमारी पूजयित्वा तु  यः पठेद्भक्तितत्परः ॥२०॥

न किञ्चिद्दुर्लभं तस्य दिवि वा भुवि मोदते ।
दुर्भिक्षे राजपीडायां सग्रामे वैरिमध्यके ॥२१॥

यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।
तत्र तत्राभयं तस्य भवत्येव न संशयः ॥२२॥

वामपार्श्वे समानीय शोधितां वरकामिनीम् ।
जपं कृत्वा पठेद्यस्तु सिद्धिः करे स्थिता ॥२३॥

दरिद्रस्तु चतुर्दश्यां कामिनीसङ्गमैः सह ।
अष्टवारं पठेद्यस्तु कुबेरसदृशो भवेत् ॥२४॥

श्रीललिता महादेवीं नित्यं सम्पूज्य मानवः ।
प्रतिनाम्ना जुहुयात्स धनराशिमवाप्नुयात् ॥२५॥

नवनीत चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि ।
वन्ध्यां पुत्रप्रदं देवि ! नात्र कार्या विचारणा ॥२६॥

कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे ।
बहुपुत्रवती नारी सुभगा जायते ध्रुवम ॥२७॥

उग्र उग्रं महदुग्रं स्तवमिदं ललितायाः ।
सुविनीताय शान्ताय दान्तायातिगुणाय च ॥२८॥

भक्त्ताय ज्येष्ठपुत्राय गरूभक्त्तिपराय च ।
भक्तभक्ताय योग्याय भक्तिशक्तिपराय च ॥२९॥

वेश्यापूजनयुक्ताय कुमारीपूजकाय च ।
दुर्गाभक्ताय शैवाय कामेश्वरप्रजापिने ॥३०॥

अद्वैतभावयुक्ताय शक्तिभक्तिपराय च ।
प्रदेयं शतनामाख्यं स्वयं ललिताज्ञया ॥३१॥

खलाय परतन्त्राय परनिन्दापराय च ।
भ्रष्टाय दुष्टसत्त्वाय परीवादपराय च ॥३२॥

शिवाभक्त्ताय दुष्टाय परदाररताय च ।
वेश्यास्त्रीनिन्दकाय च पञ्चमकारनिन्दके ॥३३॥

न स्तोत्रं दर्शयेद्देवी ! मम हत्याकरो भवेत् ।
तस्मान्न दापयेद्देवी ! मनसा कर्मणा गिरा ॥३४॥

अन्यथा कुरुते यस्तु स क्षीणायुर्भवेद्ध्रुवम ।
पुत्रहारी च स्त्रीहारी राज्यहारी भवेद्ध्रुवम ॥३५॥

मन्त्रक्षोभश्च जायते तस्य मृत्युर्भविष्यति ।
क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ॥३६॥

क्रमदीक्षायुतो देवी ! क्रमाद् राज्यमवाप्नुयात् ।
क्रमदीक्षासमायुक्तः कल्पोक्तसिद्धिभाग् भवेत् ॥३७॥

विधेर्लिपिं तु सम्मार्ज्य किङ्करत्व विसृज्य च ।
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥३८॥

क्रमदीक्षायुतो देवी ! मम समो न संशयः ।
गोपनीयं गोपनीयं गोपनीयं सदाऽनघे ॥३९॥

स दीक्षितः सुखी साधुः सत्यवादी नजितेन्द्रयः ।
स वेदवक्ता स्वाध्यायी सर्वानन्दपरायणाः ॥४०॥

स्वस्मिन्ललिता सम्भाव्य पूजयेज्जगदम्बिकाम् ।
त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥४१॥

गुरुरूपं शिवं ध्यात्वा शिवरूपं गुरुं स्मरेत् ।
सदाशिवः स एव स्यान्नात्र कार्या विचारणा ॥४२॥

इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक
श्रीमल्ललिताया लकारादिशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP