श्रीराधाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥१॥
राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥२॥
वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।
गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥३॥
चन्द्रावली-सपत्नी च दर्पणस्था कलावती ।
कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥४॥
कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।
प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥५॥
केकराक्षा हरेः कान्ता महालक्ष्मीः सुकेशिनी ।
सङ्केतवटसंस्थाना कमनीया च कामिनी ॥६॥
वृषभानुसुता राधा किशोरी ललिता लता ।
विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥७॥
केशिनी केशवसखी नवनीतैकविक्रया ।
षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥८॥
हर्षिणी वर्षिणी वीरा धीरा धाराधरा धृतिः ।
यौवनस्था वनस्था च मधुरा मधुराकृतिः ॥९॥
वृषभानुपुरावासा मानलीलाविशारदा ।
दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥१०॥
सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।
सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥११॥
तारिणी हारिणी ह्रीला शीला लीला ललामिका ।
गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥१२॥
स्वाधीनपतिका चोक्ता खण्डिता याऽभिसारिका ।
रसिका रसिनी रस्या रसनास्त्रैकशेवधिः ॥१३॥
पालिका लालिका लज्जा लालसा ललनामणिः ।
बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥१४॥
मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।
मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥१५॥
अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।
इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरशतम् ॥१६॥
कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।
एकैकनामोच्चारेण वशी भवति केशवः ॥१७॥
वदने चैव कण्ठे च बाह्वोरुरसि चोदरे ।
पादयोश्च क्रमेणास्या न्यसेन्मन्त्रान्पृथक्पृथक् ॥१८॥
इत्यूर्ध्वाम्नाये राधाष्टोत्तरशतनामकथनं नाम प्रथमः पटलः ॥
N/A
References : N/A
Last Updated : December 26, 2025

TOP