श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ गीताचार्याय विद्महे । भक्तमित्राय धीमहि ।
तन्नः कृष्णः प्रचोदयात् ॥
अथ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ।
परानन्दप्रकाशाय नरानन्दावतारिणे ।
वरानन्दविकाशाय चिरानन्दाय ते नमः ॥१॥
कारागृहसुजन्याय जन्मान्तरहिताय च ।
जन्मादिभयहाराय जनार्दनाय ते नमः ॥२॥
देवकीवसुदेवस्वपुत्ररूपपरात्मने ।
यशोदानन्दगोपस्वपुत्राभिपालिताय च ॥३॥
नीलनिर्मलगात्राय स्मितमोहनरूपिणे ।
बाललीलाभिनन्दाय बालकृष्णाय ते नमः ॥४॥
करुणालयनेत्राय कंजातपूतदृष्टये ।
कारुण्यसत्कटाक्षाय केशवाय नमो नमः ॥५॥
नवनीतचुराश्चर्यलीलाविनोदनन्दिने ।
सुज्ञाननवनीताय ज्ञानरूप्याय ते नमः ॥६॥
मृत्तिकाशनबालास्यप्रपञ्चदर्शनाय च ।
लीलाचतुरकृष्णाय सर्वस्वाय नमो नमः ॥७॥
सुरारिवधलीलाय सुरगानार्चिताय च ।
साधुसागरचन्द्राय हृषीकेशाय ते नमः ॥८॥
गोवर्धनगिरीशाय कालिङ्गनर्तनाय च ।
गोपवृन्दसुरक्षाय गोविन्दाय नमो नमः ॥९॥
गोकुलानन्दवर्धाय गोपिकारमणाय च ।
गोपिकाह्लादगानाय गोपालाय नमो नमः ॥१०॥
वेणुगानाभिलीनाय प्राणमिश्रितगीतये ।
श्रोतृविस्मृतसर्वाय प्राणनाथाय ते नमः ॥११॥
जङ्गमस्थावरावेशदिव्यमाधुर्यवेणवे ।
मनोगालनगीताय गीतरागाय(१) ते नमः ॥१२॥
सङ्गीतसुस्वरानन्दरागस्वरूपमूर्तये ।
रागतालगतिस्थाय स्थाणवे ते नमो नमः ॥१३॥
गोपिकाराससुक्रीडासूचतत्त्वप्रपत्तये(२) ।
गोपिकाभक्तिवश्याय दामोदराय ते नमः ॥१४॥
रुक्मिणीसत्यभामासभक्तिज्ञानाश्रयाय च ।
माधुर्यभक्तिपूज्याय अच्युताय नमो नमः ॥१५॥
निजभक्त्यभिगम्याय भक्तहृत्स्थलवासिने ।
तुलसीदलतृप्ताय भक्तप्रियाय ते नमः ॥१६॥
अतिसौलभ्यदैवाय लघुपूजनतोषिणे ।
तुलसीदलमालाय नारायणाय ते नमः ॥१७॥
सुदामभक्तिनैवेद्यसुप्रीतिमित्रपोषिणे ।
पाण्डवापत्त्यपोहाय रक्षादैवाय ते नमः ॥१८॥
पञ्चेन्द्रियवशार्तिस्थसन्मनस्तापहारिणे ।
पञ्चपाण्डवभार्यार्तितापापहाय(३) ते नमः ॥१९॥
द्रौपदीभक्तिवश्याय सतीमानसुरक्षिणे ।
सदारक्षितकृष्णाय(४) क्षिप्रप्रसादिने नमः ॥२०॥
दुश्शक्तिपीडितायुद्धसच्छक्तिजयकारिणे ।
भक्तपाण्डवतापार्तिकरकौरवनाशिने ॥२१॥
निष्कामकर्मबोधाय कर्ममर्मप्रदर्शिने ।
स्वजीवकर्मयोगाय योगेश्वराय ते नमः ॥२२॥
गीताबोधप्रमाणाय शरणार्थिनयाय च ।
प्रपन्नविजयानेत्रे भक्तसारथये नमः ॥२३॥
भक्तियोगोपदेशाय सद्भक्तजीवमार्गिणे ।
निजभक्त्यपरोक्षाय सद्भक्तपालिने नमः ॥२४॥
निष्कामभक्तितत्त्वस्वगीतोपदेशदर्शिने ।
शरणागतरक्षाय शरण्याय नमो नमः ॥२५॥
भक्तितत्त्वार्थगीताय सद्भक्तिज्ञानदीपिने ।
निष्कामभक्तिबोधाय गीतासाराय ते नमः ॥२६॥
अनन्यशरणागन्तुरक्षणामोक्षदायिने ।
ज्ञानबोधस्वगीताय ज्ञानाचार्याय ते नमः ॥२७॥
ज्ञानयोगप्रबोधाय सुज्ञानमार्गगामिने ।
सज्ज्ञानतत्त्वदर्शाय तत्त्वबोधाय ते नमः ॥२८॥
हिम्यालयप्रशान्ताय नरनारायणाय च ।
सर्वानन्दप्रकाशाय श्रीकृष्णाय नमो नमः ॥२९॥
गङ्गाप्रभवपादाय(५) बदरीधामपूतये ।
गङ्गास्वरूपकृष्णाय अनन्ताय नमो नमः ॥३०॥
श्रीभागवतगेहाय पुण्यचारित्ररूपिणे ।
भागवतेष्टदैवाय भगधेयाय ते नमः ॥३१॥
बालालापं सुभक्त्युत्थं एतत्स्तोत्रं त्वदर्पणम् ।
नमस्तुभ्यं हरे कृष्ण पाहि मां शरणागताम् ॥३२॥
कृष्णालयमिदंस्तोत्रं श्रीकृष्णशुभदैवतम् ।
कृष्णरागस्फुरद्दीपं कृष्णमानसपूजनम् ॥३३॥
अनुरागाभिषेकं च रागपुष्पार्चनं शिवम् ।
न्यूनच्छिद्राणिधूपं च दीपाराधनदर्शनम् ॥३४॥
शरणागतिनैवेद्यं कृष्णार्पणं सुगीतकम् ।
कृताञ्जलिनमस्कारं कृष्णप्रसादमङ्गलम् ॥३५॥
मङ्गलं योगकृष्णाय मूलाधाराय मङ्गलम् ।
मङ्गलं गीतकृष्णाय नादरामाय मङ्गलम् ॥३६॥
कृष्ण त्वमसिमच्छ्रायः कुरु दृष्टिप्रसादनम् ।
मङ्गलायनकृष्ण त्वं कुरु सम्पूर्णमङ्गलम् ॥३७॥
पूर्णत्वनयगीताय पूर्णानन्दप्रकाशिने ।
पूर्णाभिव्याप्तसर्वाय पूर्णाय शुभमङ्गलम् ॥३८॥
त्यागब्रह्मगुरुस्वामिशिष्यापुष्पासुगीतकम् ।
कृष्णस्तोत्रं महापुण्यं ब्रह्मानन्दं सुमङ्गलम् ॥३९॥
N/A
References : N/A
Last Updated : December 30, 2025

TOP