श्रीषोडशीशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
भृगुरुवाच -
चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥१॥
ब्रह्मोवाच -
सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥२॥
अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः
अनुष्टुप् छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्धये
विनियोगः ॥
ॐ त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥३॥
शारदा शब्दनिलया सागरा सरिदम्बरा ।
शुद्धा शुद्धतनुस्साध्वी शिवध्यानपरायणा ॥४॥
स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥५॥
साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥६॥
षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥७॥
क्रतुरूपा क्रतुमयी ऋभुक्षक्रतुमण्डिता ।
कवर्गादि पवर्गान्ता अन्तस्थानन्तरूपिणी ॥८॥
अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥९॥
काली कराली कामेशी छाया संज्ञाप्यरुन्धती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥१०॥
मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता ॥११॥
भगाङ्गा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥१२॥
धर्मकर्मादि रहिता धर्मकर्मपरायणा ।
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥१३॥
भैरवी भुवना माताऽभयदा भवसुन्दरी ।
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥१४॥
रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥१५॥
शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥१६॥
अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥१७॥
सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥१८॥
सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥१९॥
पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमीदिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥२०॥
इति ब्रह्मयामले पूर्वखण्डे षोडश्यष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥
N/A
References : N/A
Last Updated : December 30, 2025

TOP