श्रीपार्वत्यष्टोत्तरशतनामस्तोत्रम्
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
महेश्वरी महादेवी महेश्वरविमोहिनी ।
महाप्रभा महामाया महासुरनिषूदनी ॥१॥
उमा कुमारजननी हिमाचलतनूभवा ।
भवानी भावनागम्या भवपाशविमोचिनी ॥२॥
शिवा भवाङ्कनिलया मृगाङ्कसदृशानना ।
अपङ्का शङ्करी शान्ता हृदयान्तःप्रकाशिनी ॥३॥
विजया दुर्जयामेया जयदा जगदीश्वरी ।
आर्या परापरमयी त्रिपुरा परमेश्वरी ॥४॥
कात्यायनी हैमवती शाम्भवी सुम्भमर्दिनी ।
शाकम्भरी कला कालि भैरवी भयहारिणी ॥५॥
नारायणी प्राणमयी शर्वाणी सर्वमङ्गला ।
अरुणा भूरिकरुणा शरणागतवत्सला ॥६॥
हरिणाङ्ककलाभूषा हरिणाक्षा हरप्रिया ।
भक्तप्रिया भगवती सुदया दनुजादया ॥७॥
पङ्कजाक्षसमाराध्या पङ्कजाक्षसहोदरी ।
किङ्करीमूतगीर्वाणा पङ्कजास्त्रोद्भवेक्षणा ॥८॥
ह्रीङ्कारी शबरी तारा मातङ्गी मङ्गलप्रदा ।
अङ्गीकृतहरार्द्धाङ्गा शृङ्गारशरणानना ॥९॥
शृङ्गारनायिका बाला जया सिंहासनेश्वरी ।
कामेश्वरी च कल्याणी सुन्दरी सुरसेविता ॥१०॥
चक्रेश्वरी मधुमती पार्वती पद्मलोचना ।
कोदण्डिनी कुण्डलिनी चामुण्डा चण्डिकाम्बिका ॥११॥
चर्च्चिका गिरिजा दुर्गा सर्गस्थित्यन्तकारिणी ।
सुभगा ललिता गौरी मातामणिर्गृहेश्वरी ॥१२॥
लोकेश्वरी महाराज्ञी मालिनी मेनकात्मजा ।
रुद्राणी शङ्करी शर्मदायिनी सर्वसाक्षिणी ॥१३॥
श्रीविद्या श्रीकरी शक्तिष्षोडशी श्रीदिपूजिता ।
वाग्वादिनी विन्दुगृहा भवसङ्कटहारणी ॥१४॥
करपङ्कजसंस्पर्शप्रधूतसुरशासना ।
पादपल्लवनिष्पिष्टमहिषासुरविग्रहा ॥१५॥
तरुणार्कसहस्राभतनुच्छायाविजृम्भणा ।
वदनामोदबिभ्राम्यदलिपालिनिभालका ॥१६॥
नवकुङ्कुमकस्तूरीतिलकालङ्कृतालिका ।
अधरारुणिमारक्तमुक्ताशोभितनासिका ॥१७॥
कनत्कपोलयुगलप्रतिबिम्बितकुण्डला ।
तमःप्रवाहप्रतिमचिकुरभ्राजिदिङ्मुखा ॥१८॥
इदमष्टोत्तरशतं पार्वत्यास्सर्वकामदम् ।
सर्वसम्पत्प्रदं श्रेष्ठं सर्वसौभाग्यपुष्टिदम् ॥१९॥
सर्वविद्याप्रदं सर्वपुरुषार्थप्रदं परम् ।
रहस्यमिदमुत्कृष्टं न मीमांसमितस्ततः ॥२०॥
यः पठेत्परया भक्त्या सन्ध्याकाले समाहितः ।
स्मरन्नपि महादेवं पार्वतीसहितं शिवम् ।
स भुक्त्वात्र महाभोगान् शिवलोके महीयते ॥२१॥
इति पार्वत्यष्टोत्तरशतं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 25, 2025

TOP