श्रीजानकी अष्टोत्तरशतनामस्तोत्रम्
अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.
श्रीहरिरुवाच ।
साधुं पृष्टं त्वया राजन् श्रव्यमेकाग्रचेतसा ।
अष्टोत्तरशतं वक्ष्ये नाम्नां परमपावनम् ॥२॥
सीरध्वजसुता सीता स्वाश्रिताभीष्टदायिनी ।
सहजानन्दिनी स्तव्या सर्वभूताशयस्थिता ॥३॥
ह्लादिनी क्षेमदा क्षान्तिः षडर्द्धाक्षहृदिस्थिता ।
श्रीनिधिः श्रीसमाराध्या श्रियः श्रीः श्रीमदर्चिता ॥४॥
शरण्या वेदनिःश्वासा वैदेही विबुधेश्वरी ।
लोकोत्तराम्बा लोकादी रघुनन्दनवल्लभा ॥५॥
रम्यरम्यनिधी रामा योगेश्वरप्रियात्मजा ।
यज्ञस्वरूपा यज्ञेशी योगिनां परमा गतिः ॥६॥
मृदुस्वभावा मृदुला मैथिली मधुराकृतिः ।
मनोरूपा महेज्येज्या महासौभाग्यदायिनी ॥७॥
भूमिजा बुधमृग्याङ्घ्रिकमला बोधवारिधिः ।
फलस्वरूपा तपसां फणीन्द्रवर्ण्यवैभवा ॥८॥
नमस्या प्रियदृष्टिश्च धरारत्नं धरासुता ।
दिव्यात्मा दीप्तमहिमा तत्त्वात्मा जनकात्मजा ॥९॥
जगदीशपरप्रेष्ठा ज्ञानिनां परमायनम् ।
जगन्मङ्गलमाङ्गल्या जरामृत्युभयातिगा ॥१०॥
चन्द्रकलामुखासाद्या चिदानन्दस्वरूपिणी ।
चतुरात्मा चतुर्व्यूहा चन्द्रबिम्बोपमानना ॥११॥
घनश्यामात्मनिलया गोप्त्री गुप्ता गुहेशया ।
गेयोदारयशःपङ्क्तिर्गतैश्वर्यकृतस्मया ॥१२॥
गमनीयपदासक्तिः खलभावनिवारिणी ।
कृपापीयूषजलधिः कृतज्ञा कृतिसाधनम् ॥१३॥
कल्याणप्रकृतिः काम्या कल्याणी कामवर्षिणी ।
कारुण्यार्द्रविशालाक्षी कम्बुकण्ठी कलानिधिः ॥१४॥
केलिप्रिया कलाधारा कल्मषौघनिवारिणी ।
ॐ शब्दवाच्या ह्योजोऽब्धिरुदितश्रीरुदारधीः ॥१५॥
उदारकीर्त्तिरुदिता ह्युदारातुल्यदर्शना ।
इष्टप्रदेभगमना आदिजाऽऽह्लादिनी परा ॥१६॥
आश्रितवत्सलाऽऽराध्या ह्यनिर्देश्यस्वरूपिणी ।
अद्वितीयसुखाम्भोधिरव्याजकरुणापरा ॥१७॥
अनवद्याऽप्रमत्तात्मा अनन्तैश्वर्यमण्डिता ।
अमानाऽयोनिजाऽकोपा अविचिन्त्याऽनघस्मृतिः ॥१८॥
अनीहाऽनियमाऽनादिमध्यान्ताद्भुतदर्शना ।
अजेयाऽकल्मषाऽकारवाच्येत्यवनिपोत्तम ! ॥१९॥
अष्टोत्तरशतं नाम प्रोच्यतेऽस्या महर्षिभिः ।
पठतां प्रत्यहं भक्त्या काऽपि सिद्धिर्न दुर्लभा ॥२०॥
इति श्रीजानकी अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 23, 2025

TOP