संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २७८ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २७८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २७८ Translation - भाषांतर ॥ सूत उवाच ॥ये चान्ये भास्करा स्तत्र संति ब्राह्मणसत्तमाः ॥हाटकेश्वरजे क्षेत्रे याज्ञवल्क्यप्रतिष्ठिताः ॥१॥यस्तान्पूजयते भक्त्या हृदि कृत्वाऽभिवांछितान् ॥सप्तम्यां चैव सप्तम्यां लभते नात्र संशयः ॥२॥ ॥ ऋषय उचुः ॥एक एव स्थितः सूर्यो दृश्यते च नभस्तले ॥तत्कथं द्वादशैते च तत्र क्षेत्रे प्रतिष्ठिताः ॥कस्मिन्काले तथा कृत्ये किमर्थं सूतनन्दन ॥३॥ ॥ सूत उवाच ॥आसीत्पूर्वं कृतिर्नाम शुनःशेपसमुद्भवः ॥४॥तस्य पुत्रः शुनः पुत्रो बभूव मुनिसत्तमः ॥चारायणः सुतस्तस्य वभूव मुनिसत्तमः ॥५॥कस्यचित्त्वथ कालस्य ब्रह्मा लोक पितामहः ॥सावित्रीशापनिर्दग्धो ह्यवतीर्णो धरातले ॥६॥गायत्री च यदा विप्रास्तेनोढा यज्ञकर्मणि ॥प्राक्स्थितां च परित्यज्य सर्वदेवसमागमे ॥कालात्ययो भवेन्नैव सावित्र्यागमने स्थिरे ॥७॥ततस्तस्य समादेशाद्गायत्री गोपकन्यका ॥शक्रेण च समानीता दिव्यलक्षणलक्षिता ॥८॥गोपकन्यां च तां ज्ञात्वा गोश्च वक्त्रेण पद्मजः ॥प्रवेश्याकर्षयामास गुह्येन च ततः परम् ॥९॥ब्राह्मणानां गवां चैव कुलमेकं द्विधा स्थितम् ॥एकत्र मन्त्रास्तिष्ठंति हविरेकत्र संस्थितम् ॥८.१०॥तेन तां ब्राह्मणीं कृत्वा पश्चात्तस्याः परिग्रहम् ॥गृह्योक्तविधिना चक्रे पुरःस्थोऽपि पितामहः ॥११॥पत्नीशालोपविष्टायां ततस्तस्यां द्विजोत्तमाः ॥सावित्री समनुप्राप्ता देवपत्नीभिरावृता ॥१२॥ततस्तां सा समालोक्य रशनासमलंकृताम् ॥दौर्भाग्यदुःखमापन्ना शशाप च विधिं ततः ॥१३॥ ॥ सावित्र्युवाच ॥यस्मात्त्वया परित्यक्ता निर्दोषाहं पितामह ॥पितामहोऽसि मे नूनमद्यप्रभृति संगमे ॥१४॥मनुष्याणां भवेत्कृत्यमन्यनारीपरिग्रहः ॥एतत्त्वया कृतं यस्मान्मा नुषस्त्वं भविष्यसि ॥१५॥कामार्तश्च विशेषेण मम वाक्यादसंशयम् ॥१६॥एवमुक्त्वा तु सावित्री त्यक्त्वा तं यज्ञमंडपम् ॥गिरेः शिखरमारूढा तपश्चक्रे महत्ततः ॥१७॥पितामहोऽपि तच्छापाच्चारायणनिवेशने ॥अवतीर्णो धरापृष्ठे कालेन महता ततः ॥१८॥स यदा यौवनं भेजे मानुषं च पुरा स्थितः ॥तथातथा च तापेन कामोत्थेन प्रपीड्यते ॥१९ ॥ततोऽसौ वीक्षते नारीं कन्यां वाथ तपस्विनीम् ॥अविकल्पमना भेजे रूपसौभाग्यगर्वितः ॥८.२०॥ततस्तं ब्यसनार्तं च दृष्ट्वा चारायणो मुनिः ॥स्वयं निःसारयामास प्रकोपेन निजाश्रमात् ॥२१॥स च पित्रा परित्यक्तो भ्रममाणस्ततस्ततः ॥चमत्कारपुरं प्राप्तः शाकल्यो यत्र तिष्ठति ॥२२॥नाम्ना ब्राह्मणशार्दूलो नागरो वेदपारगः ॥वृतः शिष्य सहस्रेण वेदविद्यां प्रचारयन् ॥२३॥अथ तं स प्रणम्योच्चैः शिष्यत्वं समुपागतः ॥वेदाध्ययनसंपन्नो बभूवाथ चिरादपि ॥२४॥एतस्मिन्नेव काले नु आनर्ताधिपतिः स्वयम् ॥आगतस्तिष्ठते यत्र जलशायी हरिः स्वयम् ॥२५॥चातुर्मास्यव्रतं तेन गृहीतं तत्पुरस्तदा ॥प्रार्थितस्तु ततो विप्राः शाकल्यस्तैन भूभुजा ॥२६॥शांतिकं पौष्टिकं नित्यं त्वया कार्यं ममालये ॥यावत्तिष्ठाम्यहं चात्र प्रसादः क्रियतामिति ॥बाढमित्येव स प्रोक्त्वा दाक्षिण्येन द्विजोत्तमाः ॥एकैकं प्रेषयामास स्वशिष्यं तस्य मंदिरे ॥२८॥स शांतिकं विधायाथ दत्त्वाशीः पार्थिवस्य च ॥संप्राप्य दक्षिणां तस्मात्पुनरेति च तं द्विजम् ॥२९॥शाकल्याय च तां दत्त्वा दक्षिणां निजमंदिरे ॥जगाम नित्यमेवं हि व्यवहारो व्यवस्थितः ॥८.३०॥अन्यस्मिन्नहनि प्राप्ते शाकल्येन विसर्जितः ॥शांत्यर्थं याज्ञवल्क्यस्तु पार्थिवस्यनिवेशनम् ॥३१॥तस्य भूपस्य रूपाढया मंथरास्ति विलासिनी ॥रात्रौ च कामिता तेन कामाढयेन सुकामिनी ॥३२॥भावैर्वात्स्यायनप्रोक्तैः समालिंगनपूर्वकैः ॥स तया विविधैः कृत्तो मयूरपदकादिभिः ॥शरीरे चाधरे चैव तथा मणिप्रवालकैः ॥३३॥संप्राप्तोऽध्ययनार्थाय यावच्छाकल्यसन्निधौ ॥तावत्संप्रेषितस्तेन शांत्यर्थं भूपमंदिरे ॥३४॥सोऽपि संप्रेषितस्तेन गत्वा तं पार्थिवालयम् ॥शांतिकं च ततश्चक्रे यथोक्तविधिना द्विजाः ॥३५॥शांतिकस्यावसाने तु प्रगृह्य कलशोदकम् ॥पंचांगैः कल्पितं रुद्रैः स्वयमेवाभिमंत्रितैः ॥३६॥साक्षतं सुमनोयुक्तं समादाय गतस्ततः ॥संतिष्ठते नृपो यत्र आनर्तो त्रतसंयुतः ॥३७॥द्यामालेखीति मंत्रं स प्रोच्चार्य विधिपूर्वकम् ॥छंदर्षिसहितं चैव यावत्क्षिपति मस्तके ॥तावन्निरीक्षितस्तेन नखलेखाविकर्तितः ॥३८॥खंडितेनाधरेणैव ततोऽभूद्दुर्मना नृपः ॥३९॥विटप्रायं तु तं दृष्ट्वा मलिनांबरधारिणम् ॥तं प्रोवाच विहस्योच्चै देहि विप्राऽक्षताञ्जलम् ॥८.४०॥मंदुरायां स्थितं यच्च काष्ठमेतत्प्रदृश्यते ॥याज्ञवल्क्यस्ततो दृष्ट्वा सकोपस्तमुपाद्रवत् ॥४१॥क्षिप्त्वा तत्र जलं विप्राः साक्षतं गृहमागमत् ॥अगृह्य दक्षिणां तस्य पार्थिवस्य यथास्थिताम् ॥४२॥एतस्मिन्नंतरे तस्य धवकाष्ठस्य सर्वतः ॥निष्क्रांता विविधाः शाखाः पल्लवैः समलंकृताः ॥४३॥तद्दृष्ट्वा विस्मितः सोऽथ आनर्ताधिपतिर्नृपः ॥पश्चात्तापं परं चक्रे धिङ्मयैवमनुष्ठितम् ॥४४॥स नूनं विबुधः कोऽपि विप्ररूपेण संगतः ॥येनेदृशः प्रभावोऽयं तस्य मंत्रस्य संस्थितः ॥४५॥यद्यहं प्रतिगृह्णामि तस्य मन्त्रोदितं जलम् ॥जरामरणहीनस्तु तद्भवाभि न संशयः ॥४६॥एवं चिंतयतस्तस्य तद्दिनं विस्मितस्य च ॥पार्थिवस्य द्विजश्रेष्ठा जातं वर्षशतोपमम् ॥४७॥दिवसे तु समाक्रांते कथंचित्तस्य भूपतेः [ ॥विभावरी क्षयं याति कथंचिन्नैव शारदी ॥४८॥ततः प्रभातसमये समुत्थाय महीपतिः ॥आह्वयामास शाकल्यं पुरुषैराप्तकारिभिः ॥४९॥ततः प्रोवाच विनयात्सादरं प्रांजलिः स्थितः ॥कल्ये शिष्यः समायातो यस्त्वदीयो ममांतिकम् ॥८.५०॥शांत्यर्थं प्रेषणीयस्तु सोऽद्यापि च द्विजोत्तम ॥तस्योपरि परा भक्तिर्मम जाताऽद्य केवलम् ॥५१॥स तथेति प्रतिज्ञाय गत्वाऽथ निजमन्दिरम् ॥प्रोवाच याज्ञवल्क्यं च शांत्यर्थं श्लक्ष्णया गिरा ॥५८२॥गच्छ वत्स त्वमद्यैव पार्थिवस्य निवेशनम् ॥शांत्यर्थं तेन भूयोऽपि त्वमेवाशुनिमंत्रितः ॥५३॥ ॥ याज्ञवल्क्य उवाच ॥नाहं यास्यामि तद्धर्म्ये शांत्यर्थं द्विजपुंगव ॥अनादरेण दृष्टोऽहं नाशीर्मे च समाहृता ॥५४॥काष्ठोपरि मया दत्ता तस्य वाक्यादसंशयम् ॥तस्मात्प्रेषय चान्यं त्वं गुरो शिष्यं विचक्षणम् ॥आनर्तं रंजयेद्यस्तु विवेकेन समन्वितम् ॥५५॥ ॥ शाकल्य उवाच ॥राजाऽऽदेशः सदा कार्यः पुरुषैर्देशवासिभिः ॥योगक्षेमविधानाय तथा लाभाय केवलम् ॥५६॥प्रतिकूलो भवेद्यस्तु पाथिवानां स मन्दधीः ॥न तस्य जायते सौख्यं कथंचिद्द्विजसत्तम ॥५७॥ये जात्यादि महोत्सेकान्न नरेंद्रानुपासते ॥तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥५८॥एवं तयोर्विवदतोस्तदा वै गुरुशिष्ययोः ॥भूयोऽपि तत्र संप्राप्ताः पुरुषाः पार्थिवेरिताः ॥५९॥प्रोचुश्च त्वरया युक्ताः शाकल्यं प्रांजलिस्थिताः ॥शिष्यं तं प्रेषय क्षिप्रं राजा मार्गं प्रतीक्षते ॥८.६०॥असकृत्प्रोच्यमानोऽपि यदा गच्छति नैव सः ॥तदा संप्रेषयामास उद्दालकमथारुणिम् ॥६१॥शिष्यं विनयसंपन्नं कृतांजलिपुटं स्थितम् ॥गच्छ वत्स समादेशात्सांप्रतं नृपमंदिरम् ॥६२॥शांतिकर्म विधायाथ स्वाध्यायं च ततः कुरु ॥६३॥स तथेति प्रतिज्ञाय गत्वा तं पार्थिवालयम् ॥चकार शांतिकं कर्म विधिदृष्टेन कर्मणा ॥६४॥ततः कलशतोयं स साक्षतं सुमनोन्वितम् ॥गृहीत्वोपाद्रवत्तत्र यत्र राजा व्यवस्थितः ॥६५॥ ॥ राजोवाच ॥स्वकीयमन्त्रलिंगेन अभिषेकं तु यच्छ भोः ॥काष्ठस्यास्य यदग्रे ते प्रोत्थितं तिष्ठते द्विज ॥६६॥ततस्तेन शुभं मंत्रं प्रोच्याभीष्टं जलं स्वयम् ॥अभिषिच्य च तत्काष्ठं ततश्च स्वगृहं ययौ ॥६७॥तावद्रूपं च तत्काष्ठं दृष्ट्वाऽऽनर्तो महीपतिः ॥विषादसहितश्चैव पश्चात्तापसमन्वितः ॥६८॥भूयस्तु प्रेषयामास याज्ञवल्क्यकृते तदा ॥अन्यं दूतं विदग्धं च शाकल्यस्य द्विजाश्रयम् ॥६९॥वेदना कायसंस्था मे वर्तते द्विजसत्तम ॥शांत्यर्थं प्रेषया क्षिप्रं तं शिष्यं पूर्वसंचितम् ॥८.७०॥अपमानं कृतं तस्य मया कल्ये द्विजोत्तम ॥तेन मे सहसा व्याधिराशीर्वादमनिच्छतः ॥७१॥तस्मात्प्रेषय मे शीघ्रं येन मे स्वस्थता भवेम् ॥असकृत्प्रोच्यमानोऽपि यदा नैव स गच्छति ॥७२॥याज्ञवल्क्यस्ततः शिष्यमन्यं प्रोवाच सादरम् ॥ततस्तं मधुकं पैग्यं प्रेषयामास तद्गृहे ॥ ७३॥तेनापि विहितं तच्च यथोद्दालकनिर्मितम् ॥आशीर्वादो नृपोद्देशाद्दत्तः काष्ठस्य तस्य च ॥७४॥तद्रूपमपि तत्काष्ठं दृष्ट्वा भूयोऽपि पार्थिवः ॥अन्यं संप्रेषयामास याज्ञवल्क्यकृते नरम् ॥७९॥असकृत्प्रोच्यमानोऽपि याज्ञवल्क्यो व्रजेन्न हि ॥यदा तदा बहुगुणमन्यं शिष्यं प्रदिष्टवान् ॥७६॥प्रचूडं भागवित्तिं च सोऽपि गत्वा यथा पुरा ॥चकार शांतिकं कर्म यथा ताभ्यां पुरा कृतम् ॥७७॥ततः शांत्युदकं तस्मिन्प्राक्षिपच्चैव दारुणि ॥मंत्रवच्च तथाप्येव तद्रूपं च व्यवस्थितम् ॥७८॥ततः स्वयं ययौ राजा शाकल्यस्य निवेशनम् ॥याज्ञवल्क्यस्य मन्त्रार्थं पश्चात्तापसमन्वितः ॥७९॥प्रणम्य स द्विजश्रेष्ठः शाकल्यं च द्विजोत्तमम् ॥शांत्यर्थं मम हर्म्ये त्वं कल्ये शिष्यं समादिश ॥येन मे जायते शांतिः शरीरस्य द्विजोत्तम ॥८.८०॥ततः प्रोवाच शाकल्यो याज्ञवल्क्यं द्विजोत्तमाः ॥भूयोऽपि शृण्वतस्तस्य आनर्तस्य महीपतेः ॥८१॥याज्ञवल्क्य द्रुतं गच्छ ममादेशान्नृपालयम् ॥राज्ञोस्य रोगनाशाय शांतिकं कुरु पुत्रक ॥८२॥ ॥ याज्ञवल्क्य उवाच ॥नाहं तत्र गमिष्यामि गुरो मैवं ब्रवीहि माम् ॥अपमानः कृतोऽनेन गुरो मम महीभुजा ॥८३॥तस्य तद्वचनं श्रुत्वा स कोपं परमं गतः ॥अब्रवीद्भर्त्समानस्तु याज्ञवल्क्यं ततः परम् ॥८४॥एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥८५॥यस्मात्त्वं शिष्यतां गत्वा मम वाक्यं करोषि न ॥तस्मात्त्वां योजयिष्यामि ब्रह्म शापेन सांप्रतम् ॥८६॥ ॥ याज्ञवल्क्य उवाच ॥अन्यायेन हि चेच्छापं गुरो मम प्रदास्यसि ॥अहमप्येव दास्यामि प्रतिशापं तवाधुना ॥८७॥गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥उत्पथे वर्तमानस्य परित्यागो विधीयते ॥८८॥तस्मात्त्वं हि मया त्यक्तः सांप्रतं हि न मे गुरुः ॥अविशषेण शिष्यार्थं यदादेशं प्रयच्छसि ॥८९॥यावंतस्ते स्थिताः शिष्यास्तावद्भिर्दिवसैरहम् ॥तवादेशं करिष्यामि नोचेद्यास्यामि दूरतः ॥८.९०॥ ॥ शाकल्य उवाच ॥यदि गच्छसि चान्यत्र तत्त्वं विद्यां परित्यज ॥यां मया पाठितः पाप व्रज पश्चात्कुशिष्य भोः ॥९१॥मयाभिमंत्रितं तोयं क्षुरिकामुण्डसंभवम् ॥पिब तस्याः प्रभावेण शीघ्रमेव त्यजिष्यसि ॥जठरान्मामकीं विद्यां त्वयाधीता पुरा तु या ॥९२॥एवमुक्त्वा स चामंत्र्य मंत्रैराथर्वणैर्जलम् ॥पानाय प्रददौ तस्मै वांत्यर्थं सद्विजोत्तमः ॥९३॥याज्ञवल्क्योऽपि तत्पीत्वा जलं तेनाभिमंत्रितम् ॥वांतिं कृत्वा सहान्नेन तद्विद्यां तां परित्यजत् ॥९४॥ततो मूढत्वमापन्नो विश्वामित्रह्रदं शुभम् ॥गत्वा स्नातो विधानेन शुचि र्भूत्वा समाहितः ॥९५॥चकार मूर्तीस्ता भक्त्या रवेर्द्वादशसंख्यया ॥प्रतिष्ठाप्य ततः सर्वाः पूजयामास भक्तितः ॥९६॥धाता मित्रोऽर्यमा शक्रो वरुणः सांब एव च ॥भगो विवस्वान्पूषा च सविता दशमस्तथा ॥एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥९७॥एवं द्वादशधा सूर्यः स्थापितोऽत्र विपश्चिता ॥आराधितस्ततो नित्यं गन्धपुष्पानुलेपनैः ॥९८॥ततः कालेन महता गत्वा प्रत्यक्षतां रविः ॥प्रोवाच सुन्दरं प्रीत्या वाक्यमेतन्मुनिं प्रति ॥९९॥याज्ञवल्क्य प्रतुष्टोऽहं तव ब्राह्मणसत्तम ॥इष्टं ददामि ते ब्रूहि यद्यत्संप्रति वांछितम् ॥१००॥ ॥ याज्ञवल्क्य उवाच ॥वरं ददासि चेन्मह्यं वेदपाठे नियोजय ॥मां विभो येन शिष्यत्वं तव गच्छामि सांप्रतम् ॥१०१॥ ॥ आदित्य उवाच ॥मया पर्यटनं कार्यं सदैव द्विजसत्तम ॥मेरोः प्रदक्षिणार्थाय लोकालोककृते द्विज ॥१०२॥तत्कथं योजयामि त्वां वेदपाठेन स द्विज ॥१०३॥तस्मात्त्वं लघुतां गत्वा मम मुख्यहयस्य च ॥श्रवणे तिष्ठ मद्वाक्यात्तेजसा चैव येन मे ॥१०४॥न दह्यसि महाभाग तत्र स्थोऽध्ययनं कुरु ॥स तथेति प्रतिज्ञाय प्रविश्यादित्यवाजिनः ॥कर्णेऽपठत्ततो वेदांश्चतुरोऽपि च तन्मुखात् ॥अंगोपांगसमोपेतान्परिशिष्टसमन्वितान् ॥१०६॥ततः समाप्ते स प्राह प्रार्थयस्व विभो हि माम् ॥प्रदास्यामि न सन्देहस्तवाद्य गुरुदक्षिणाम् ॥१०७॥ ॥ आदित्य उवाच ॥यानि सूक्तानि ऋग्वेदे मदीयानि द्विजोत्तम ॥सावनानि यजुर्वेदे सामानि च तृतीयके ॥१०८॥कल्पोक्तानि चतुर्थे च तानि सर्वाणि भूतले ॥त्वया प्रचारणीयानि कृत्वा व्याख्यानमुत्तमम् ॥९॥ये द्विजास्तानि सर्वाणि कीर्तयिष्यंति मे पुरः ॥ते सर्वे पाप निर्मुक्ताः प्रयास्यंति दिवालयम् ॥११०॥व्याख्यास्यंति पुनर्ये च मम भक्तिपरायणाः ॥ते यास्यंति द्विजा मुक्तिं सत्यमेतन्मयोदितम् ॥१११॥ ॥ सूत उवाच ॥एवं वेदान्पठित्वा स प्रदत्त्वा गुरुदक्षिणाम् ॥सूर्यायाभ्यागतो भूयश्चमत्कारपुरं प्रति ॥११२॥ततः शाकल्यमभ्येत्य गुरुस्त्वं प्राङ् मम स्थितः ॥प्रार्थयस्व महाभाग दास्यामि गुरुदक्षिणाम् ॥११३॥ज्येष्ठो भ्राता पिता चैव माता चैव गुरुस्तथा ॥वैरुद्ध्येनापि वर्तंते यद्येते द्विजसतम ॥तथापि पूजनीयाश्च पुरुषेण न संशयः ॥११४॥सांगोपांगा मयाधीता वेदाश्चत्वार एव च ॥अधीताश्चैव सर्वेषां तेषामर्थोऽवधारितः ॥११५॥तत्त्वं वद महाभाग कां ते यच्छामि दक्षिणाम् ॥११६॥ ॥ शाकल्य उवाच ॥यानि वेदरहस्यानि सूर्येण कथितानि ते ॥११७॥यैः स्यात्पापप्रणाशश्च व्याख्यातैः पठितैस्तथा ॥तानि मे कीर्तय क्षिप्रमेषा मे गुरुदक्षिणा ११८॥ ॥ याज्ञवल्क्य उवाच ॥तदागच्छ मया सार्धं यत्र सूर्याः प्रतिष्ठिताः ॥मया द्वादश तेषां च कीर्तयिष्यामि चात्रतः ॥११९॥तच्छ्रुत्वा शिष्यसंयुक्तः शाकल्यस्तैश्च सद्द्विजैः ॥शिष्यैस्तिष्ठन्ति ये तत्र स्थापितास्तेन भास्कराः ॥१२०॥ततस्तु कीर्तयामास व्याख्यानं तत्पुरः स्थितः ॥वेदान्तानां च सर्वेषां यथोक्तं रविणा पुरा ॥१२१॥अवसाने च तेषां तु चतुश्चरणसंभवैः ॥ब्राह्मणैर्याज्ञवल्क्यस्तु वेदान्तज्ञैः प्रतोषितः ॥१२२॥प्रोक्तस्तव प्रसादेन वेदांतज्ञा वयं स्थिताः ॥श्रुताध्ययनसंपन्ना याचस्व गुरुदक्षिणाम् ॥१२३॥ ॥ याज्ञवल्क्य उवाच ॥एतेषां भास्कराणां च मदीयानां पुरो द्विजाः ॥कीर्तयिष्यंति ये विप्रास्तेषां युष्मत्प्रसादतः ॥भूया स्वर्गगतिर्विप्रा एषा मे गुरु दक्षिणा ॥१२४॥ये पुनर्भक्तिसंयुक्ताः करिष्यंति विचारणम् ॥तेषां तुर्यपदं यच्च जरामरणवर्जितम् ॥१२५॥ ॥ ब्राह्मणा ऊचुः ॥भविष्यति कलौ विप्रा दौस्थ्यभावसमन्विताः ॥पठने नैव शक्ताश्च व्याख्यानस्य च का कथा ॥१२६॥तस्मात्सारस्वतं ब्रूहि वेदानां द्विजसत्तम ॥अपि दौस्थ्यसमायुक्ता येन ते कीर्तयंति च ॥१२७॥ ॥ याज्ञवल्क्य उवाच ॥रथं युञ्जंति सूक्तं यत्प्रथमं वित्तलक्षणम् ॥त्रिष्टुभेति च यत्सूक्तं तथाद्यं ब्राह्मणोत्तमाः ॥१२८॥चित्रं देवानामिति च तथान्यत्तस्य वल्लभम् ॥हंसः शुचिषदित्युक्तं ततश्चापि प्रहर्षदम् ॥१२९॥पावमानं तथा सूक्तं ये पठिष्यंति बह्वृचः ॥इत्येषामाद्यमेवं तु ते यास्यंति परां गतिम् ॥१३०॥एकविंशतिसामानि आदित्येष्टानि यानि च ॥सामगाः कीर्तयिष्यंति येऽत्रस्थाः शुचयः स्थिताः ॥१३१॥निश्चयं तु परं धृत्वा येऽपि स्तोष्यंति भास्करम् ॥ततस्तेऽपि प्रयास्यंति निर्भिद्य रविमंडलम् ॥१३२॥क्षुरिकासंपुटं चैव सूर्यकल्पं तथैव च ॥शांतिकल्पसमायुक्तं कीर्तयिष्यंति ये द्विजाः ॥१३३॥अथर्वपाठकास्तेऽपि प्रयास्यंति परां गतिम् ॥मूर्खा अपि समागत्य संप्राप्ते सूर्यवासरे ॥१३४॥प्रणामं ये करिष्यंति श्रद्धया परया युताः ॥सप्तरात्रकृतात्पापान्मुक्तिं प्राप्संति ते द्विजाः ॥१३५॥ ॥ सूत उवाच ॥तथेति तैः प्रतिज्ञाते चतुश्चरणसंभवैः ॥ब्राह्मणैर्याज्ञवल्क्यस्तु विज्ञातो येन केन तु ॥१३६॥विदेहेन ततः प्राप्तः श्रवणार्थं नराधिपः ॥वेदांतानां च सर्वेषां रत्नाख्येन महीभुजा ॥१३७॥तेनापि च परिज्ञाय माहात्म्यं सूर्यसं भवम् ॥ततः संस्थापितः सूर्यस्तस्मिन्स्थाने द्विजोत्तमाः ॥१३८॥तं चापि सूर्यवारेण यः प्रपश्यति मानवः ॥सप्तरात्रकृतात्पापान्मुच्यते नात्र संशयः ॥१३९॥एतद्वः कथितं सर्वं माहात्म्यं सूर्यसंभवम् ॥यः शृणोति नरो भक्त्या अश्वमेधफलं लभेत् ॥१४०॥संक्रांतौ यत्प्रदानेन सूर्ये वा श्रवणेन तु ॥तत्फलं समवाप्नोति श्रुत्वा माहात्म्यमुतमम् ॥१४१॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये द्वादशार्कोत्पत्तिरत्नादित्योत्पत्तिमाहात्म्ये याज्ञवल्क्यवृत्तांतवर्णनं नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७८॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP