संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १९० नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १९० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९० Translation - भाषांतर सूत उवाच ॥एवं क्रतुः स संजातः पञ्चरात्रं द्विजोत्तमाः ॥हाटकेश्वरजे क्षेत्रे सर्वकाम समृद्धिमान् ॥१॥विप्रांश्च भिक्षुकांश्चैव दीनांधांश्च विशेषतः ॥समाप्तौ तस्य यज्ञस्य संतर्प्य सकलांस्ततः ॥ऋत्विजो दक्षिणाभिस्तान्यथोक्तान्द्विजसत्तमान् ॥२॥ततः स चानयामास नागरान्ब्राह्मणोत्तमान् ॥चातुश्चरणसंपन्नाञ्छ्रुतिस्मृति समन्वितान् ॥३॥कृतांजलिपुटो भूत्वा ततस्तान्प्राह सादरम् ॥यद्भूमौ तु मया तीर्थं पुष्करं संनिवेशितम् ॥४॥कलिकालस्य भीतेन द्वितीयं ब्राह्मणोत्तमाः ॥येन नो नाशमभ्येति म्लेच्छैरपि समाश्रितम् ॥५॥हाटकेश्वरदेवस्य प्रभावेन महात्मनः ॥कलिकाले च सम्प्राप्ते तीर्थान्यायतनानि च ॥६॥म्लेच्छैः स्पृष्टान्यसंदिग्धं प्रयागादीनि कृत्स्नशः ॥यज्ञस्तु विहितस्तेन भयायं तत्कृतेन च ॥७॥तस्माद्वदथ किं दानं युष्मद्भूमेश्च निष्क्रये ॥प्रयच्छामि च यज्ञस्य येन मे स्यात्फलं द्विजाः ॥८॥ब्राह्मणा ऊचुः ॥यदि यच्छसि चास्माकं दक्षिणां यज्ञसंभवाम् ॥तदस्माकं स्ववासेन स्थानं नय पवित्रताम् ॥९॥यदेतद्भवता चात्र पुष्करं तीर्थमुत्तमम् ॥स्थापितं तस्य नो ब्रूहि माहात्म्यं सुरसत्तम ॥येन स्नानादिकाः सर्वाः क्रियाः कुर्मः पितामह ॥१०॥ब्रह्मोवाच ॥एतत्तीर्थं मया सृष्टमंतरिक्षस्थितं सदा ॥किं न श्रुतं पुराणेषु भवद्भिर्द्विजसत्तमाः ॥११॥पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ॥त्रैलोक्ये तु कुरुक्षेत्रं विशेषेण व्यवस्थितम् ॥१२॥तद्युष्माकं हितार्थाय पंचरात्रं धरातले ॥आगमिष्यत्यसंदिग्धं मम वाक्यप्रणोदितम् ॥१३॥कार्तिक्यां शुक्लपक्षे तु ह्येकादश्यां दिने स्थिते ॥यावत्पंचदशी तावत्तिथिः पापप्रणाशिनी ॥१४॥पंचरात्रस्य मध्ये तु यः स्नानं च करिष्यति ॥श्राद्धं वा श्रद्धया युक्तस्तस्य स्यादक्षयं हि तत् ॥१५॥अह तु पंचरात्रं तद्ब्रह्मलोकादुपेत्य च ॥संश्रयं तु करिष्यामि तीर्थेऽत्रैव द्विजोत्तमाः ॥१६॥ ॥ ब्राह्मणा ऊचुः ॥तव मूर्तिं करिष्यामः स्थानेऽत्र प्रपितामह ॥तस्यां संक्रमणं नित्यं तस्मात्कार्यं त्वयाविभो ॥१७॥तीर्थं चैव सदाप्यऽत्र समागच्छतु चांबरात् ॥लोकानां पापनाशाय तथा त्वं कर्तुमर्हसि ॥१८॥एषा नो दक्षिणा देव यज्ञस्यैव समुद्भवा ॥१९॥एवं कृते सुरश्रेष्ठ सफलः स्यात्क्रतुस्तव ॥प्रतिज्ञा च तथा सत्या तस्माद्दानाय निर्मिता ॥२०॥ ॥ श्रीब्रह्मोवाच ॥मन्त्राहूतं ततः श्रेष्ठं नभोमार्गाद्द्विजोत्तमाः ॥हाटकेश्वरजे क्षेत्रे पुष्करं चागमिष्यति ॥२१॥अघमर्षं जपंश्चैव यः करिष्यति तोयगः ॥मम मूर्तेः पुरः स्थित्वा पैलमन्त्रपुरःसरम् ॥२२॥जपिष्यति द्विजश्रेष्ठाः सवनानां चतुष्टयम् ॥ब्रह्मलोकात्समागत्य प्रश्रोष्या मि च तद्द्विजाः ॥२३॥ ॥ सूत उवाच ॥अथ ते नागराः सर्वे पुष्पदानप्रपूर्वकम् ॥अनुज्ञां प्रददुस्तुष्टा यज्ञफलसमाप्तये ॥२४॥एतस्मिन्नंतरे प्राप्तः पुलस्त्योऽध्वर्युसत्तमः ॥यत्र स्थाने स्थितो ब्रह्मा नागरैः परिवारितः ॥२५॥अब्रवीच्च समाप्तस्ते यतः संपूर्णदक्षिणः ॥प्रायश्चित्तैर्विरहितो यथा नान्यस्य कस्यचित् ॥२६॥अतः परं कर्मशेषं किंचिदस्ति पितामह ॥वारुणेष्टिर्जपश्चैव तत्करिष्यामि सांप्रतम् ॥२७॥तथा चाऽवभृथस्नानं प्रकर्तव्यं त्वया सह ॥तस्मादुत्तिष्ठ गच्छामो यत्र तोयव्यवस्थितम् ॥२८॥येनेष्टिवारुणीं तत्र कुर्मो विप्रैर्यथोचितैः ॥चतुर्भिर्ब्रह्मपूर्वैश्च मया चाग्नीध्रहोतृभिः ॥२९॥यथावह्नौ तथा तोये मन्त्रवत्तद्भवंशुभम् ॥हूयते संविधानेनयज्ञपात्रैः सम न्वितम् ॥३०॥वरुणस्य प्रतुष्ट्यर्थं स्नानं कार्यं त्वयैव च ॥ऋत्विग्भिः सहितेनैव सर्वारिष्टप्रशांतये ॥३१॥यस्तत्र समये स्नानं करिष्यति त्वया सह ॥अन्योऽपि मानवः कश्चिद्विपाप्मा स भविष्यति ॥३२॥यानीह संति तीर्थानि त्रैलोक्ये सचराचरे ॥वारुणीमिष्टिमासाद्य तानि यांति च संनिधौ ॥३३॥तस्मात्सर्वप्रयत्नेन दीक्षितेन समन्वितम् ॥तत्र स्नानं प्रकर्तव्यं जलमध्ये तु सार्थिभिः ॥ब्राह्मणैः क्षत्रियैर्वैश्यैः सर्वैरव भृथोत्सवे ॥३४॥तस्माद्विसर्जयाद्यैतान्ब्राह्मणांस्तावदेव च ॥एतेऽपि च करिष्यंति स्नानं तत्र त्वया सह ॥३५॥ ॥ सूत उवाच ॥तच्छ्रुत्वा प्रस्थितो ब्रह्मा ज्येष्ठकुण्डतटं शुभम् ॥गायत्र्या सहितो हृष्टः कृतकृत्यत्वमागतः ॥३६॥अथ तद्वचनं श्रुत्वा सुराः सर्वे तथा द्विजाः ॥पुलस्त्यश्च शुभार्थाय स्नानार्थं प्रस्थितास्तदा ॥ब्रह्मणा सहिता हृष्टाः पुत्रदारसमन्विताः ॥३७॥अथ संकीर्णता जाता समंताज्ज्येष्ठपुष्करे ॥स्नानार्थमागतैर्लोकैरूर्ध्वबाहुभिरेव च ॥३८॥न तत्र लक्ष्यते ब्रह्मा न तत्कर्म च वारुणम् ॥क्रियमाणैर्द्विजैस्तत्र व्याप्ते भूमि तलेऽखिले ॥३९॥अथांते कर्मणस्तस्य ब्रह्मा प्राह शतक्रतुम् ॥हितार्थं सर्वलोकस्य विनयावनतं स्थितम् ॥४०॥न मां ज्ञास्यति दूरस्था जनाः स्नानार्थमागताः ॥मज्जमानं जले पुण्ये सम्मर्देऽस्मिञ्जलोद्भवे ॥४१॥तस्मान्नागं समारुह्य निजं वृत्रनिषूदन ॥एणस्य कृष्णसारस्य वंशांते चर्म न्यस्य च ॥४२॥ततस्तत्स्नानवेलायां क्षेप्तव्यं सलिले त्वया ॥येन लोकः समस्तोऽयं वेत्ति कालं तु स्नानजम् ॥४३॥स्नानं च कुरुते श्रेयः संप्राप्नोति यथोदितम् ॥दूरस्थोऽपि सुवृद्धोऽपि बालोऽपि च समागतः ॥स्नानजं लभते श्रेयः संदृष्टेऽपि यथोदितम् ॥४४॥ ॥ सूत उवाच ॥बाढमित्येव संप्रोच्य सत्वरं प्रययौ हरिः ॥४५॥ततो नागं समारुह्य धृत्वा वंशं करे निजे ॥मृगचर्माग्रसंयुक्तं तोयमध्ये व्यवस्थितः ॥४६॥एतत्कर्मावसाने स स्नातुकामे पितामहे ॥तच्चर्म प्राक्षिपत्तोये स्वयमेव शतक्रतुः ॥४७॥एतस्मिन्नन्तरे देवाः सर्वे गन्धर्वगुह्यकाः ॥मानुषाश्च विशेषेण स्नातास्तत्र समाहिताः ॥४८॥एतस्मिन्नन्तरे ब्रह्मा शक्रं प्रोवाच सादरम् ॥कृतस्नानं सुरैः सार्धं विनयावनतं स्थितम् ॥४९॥सहस्राक्षं त्वया कष्टं मन्मखे विपुलं कृतम् ॥आनीता च तथा पत्नी गायत्री च सुमध्यमा ॥५०॥तस्माद्वरय भद्रं ते यं वरं मनसि स्थितम् ॥सर्वं तेऽहं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥५१॥ ॥ इन्द्र उवाच ॥यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥यदि त्वां प्रार्थयाम्यद्य भूयात्तु तादृशं विभो ॥५२॥वर्षेवर्षे तु यः कुर्यात्संप्राप्तेऽस्मिन्दिने शुभे ॥मृगचर्म समादाय वंशाग्रे यो महीपतिः ॥५३॥नागप्रवरमारुह्य स्वयमेव पितामह ॥यथाऽहं प्रक्षिपेत्तोये स स्यात्पापविवर्जितः ॥५४॥अजेयः सर्वशत्रूणां सर्वव्यसनवर्जितः ॥ये करिष्यंति च स्नानमनेन मृगचर्मणा ॥५५॥सार्धमन्येऽपि ये लोका अपि पापसमन्विताः ॥तेषां वर्षकृतं पापं त्वत्प्रसादात्प्रणश्यतु ॥५६॥ ॥ ब्रह्मोवाच ॥एतत्सर्वं सहस्राक्ष तव वाक्यमसंशयम् ॥भविष्यति न संदेहः सर्वमेतन्मयोदितम् ॥५७॥यो राजा श्रद्धया युक्तो देशस्यास्य समुद्भवः ॥आनर्तस्य गजारूढो मृगचर्म क्षिपिष्यति ॥५८॥अत्र कुण्डे मदीये तु मां संपूज्य तटस्थितम् ॥सर्वलोकहितार्थाय संप्राप्ते प्रतिपद्दिने ॥५९॥समाप्ते कुतपे काले विजयी स भविष्यति ॥कार्तिक्यां च व्यतीतायां द्वितीयेऽह्नि व्यवस्थिते ॥६०॥तथा तत्कालमासाद्य ये करिष्यंति मानवाः ॥स्नानं तच्च दिनेऽत्रैव वर्षपापविवर्जिताः ॥आधिव्याधिविमुक्ताश्च ते भविष्यंत्यसंशयम् ॥६१॥ ॥ सूत उवाच ॥एतस्मिन्नंतरे प्राप्तो यक्ष्माख्यो दारुणो गदः ॥अचिकित्स्योऽपि देवानां तथा धन्वंतरेरपि ॥६२॥नीलांबरधरः क्षामो दीनो दण्डसमाश्रितः ॥क्षुत्कुर्वञ्छ्लेष्मणा तावत्कृच्छ्रात्संधारयन्पदम् ॥६३॥ततश्च प्रणतो भूत्वा वाक्यमेतदुवाच सः ॥६४॥ ॥ यक्ष्मोवाच ॥तव यज्ञमहं श्रुत्वा दूरादेव पितामह ॥क्षुत्क्षामकंठश्चायातः समाप्तावद्य कृच्छ्रतः ॥६५॥दक्षेणाहं पुरा सृष्टश्चंद्रार्थं कुपितेन च ॥रोहिणीं सेवमानस्य संत्यक्तान्यासुतस्य च ॥६६॥ततो माहेश्वरादेशात्तेन तुष्टेन तस्य च ॥पक्षमेकं कृतं मह्यं तस्यास्वादनकर्मणि ॥६७॥अन्यपक्षे न किंचिच्च येन तृप्तिः प्रजायते ॥यज्ञस्यैव तु सर्वस्य तर्पयित्वा द्विजोत्तमम् ॥६८॥ततस्तद्वचनं ग्राह्यं तर्पितोऽहमसंशयम् ॥पौर्णमास्यां ततो देव यस्य यज्ञस्य कृत्स्नशः ॥६९॥यस्य नो ब्राह्मणो ब्रूते यज्ञस्यांते प्रतर्पितः ॥तर्पितोऽस्मीति तत्तस्य वृथा स्याद्यज्ञजं फलम् ॥यदि कोटिगुणं दत्तमपि श्रद्धासमन्वितम् ॥७०॥एतच्छ्रुत्वा त्वया देव पठ्यमानं श्रुताविह ॥तस्मात्सम्यक्स्थिते यज्ञे ब्राह्मणं तर्पयेत वै ॥७१॥प्रत्यक्षं मे यथा तृप्तिरन्नेनैव प्रजायते ॥त्वत्प्रसादात्सुरश्रेष्ठ तथा नीतिर्विधीयताम् ॥७२॥ ॥ सूत उवाच ॥तच्छ्रुत्वा पद्मजस्तस्य पथ्यंपथ्यं वचोऽखिलम् ॥श्रुतिं प्रमाणतां नीत्वा ततो वचनमब्रवीत् ॥७३॥अद्यप्रभृति वै विप्राः साग्नयः स्युर्धरातले ॥तैः सर्वैर्वैश्वदेवांते बलिर्देयस्तथाखिलः ॥७४॥दत्त्वाऽन्येभ्योथ देवेभ्यस्तव तृप्तिर्भविष्यति ॥तव पक्षे द्वितीये तु सत्यमेतन्मयोदितम् ॥७५॥ये विप्रास्तु बलिं दद्युर्वैश्वदेवांत आगते ॥न तेषामन्वये चापि त्वया सेव्योऽत्र कश्चन ॥७६॥ ॥ यक्ष्मोवाच ॥तीर्थेऽस्मिंस्तावके देव सदाहं तपसि स्थितः ॥तिष्ठामि यदि वादेशस्तावको जायते मम ॥७७॥ ॥ ब्रह्मोवाच ॥यद्येवं कुरु चान्यत्र त्वमाश्रमपदं निजम् ॥संप्राप्य भूमिदेशे च कञ्चिद्यदभिरोचते ॥अर्थयित्वा द्विजानेतान्यथा यज्ञकृते मया ॥७८॥ ॥ सूत उवाच ॥तच्छ्रुत्वा प्रार्थयामास चमत्कारपुरोद्भवान् ॥तेभ्यः प्राप्य ततो भूमिं चकाराथाश्रमं निजम् ॥७९॥तत्र यः कुरुते स्नानं प्रतिपद्दिवसे स्थिते ॥सूर्यवारेण मुच्येत यक्ष्मणा सेवितोऽपि वा ॥८०॥अद्यापि दृश्यते चात्र प्रत्ययस्तस्य संभवे ॥सर्वेषामाहिताग्नीनां नागराणां विशेषतः ॥कलि कालेऽपि संप्राप्ते न यक्ष्मा संप्रजायते ॥८१॥तथा चतुष्पदानां च तेषां गृहनिवासिनाम् ॥न तस्य भेषजानि स्युर्न मंत्रा न चिकित्सकाः ॥८२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञावभृथयक्ष्म तीर्थोत्पत्तिमाहात्म्यवर्णनंनाम नवत्युत्तरशततमोऽध्यायः ॥१९०॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP