संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १९२ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १९२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९२ Translation - भाषांतर ॥ सूत उवाच ॥अथ श्रुत्वा महानादं वाद्यानां समुपस्थितम् ॥नारदः सम्मुखः प्रायाज्ज्ञात्वा च जननीं निजाम् ॥१॥प्रणिपत्य स दीनात्मा भूत्वा चाश्रुपरिप्लुतः ॥प्राह गद्गदया वाचा कण्ठे बाष्पसमावृतः ॥२॥आत्मनः शापरक्षार्थं तस्याः कोपविवृद्धये ॥कलिप्रियस्तदा विप्रो देवस्त्रीणां पुरः स्थितः ॥३॥मेघगम्भीरया वाचा प्रस्खलंत्या पदेपदे ॥मया त्वं देवि चाहूता पुलस्त्येन ततः परम् ॥४॥स्त्रीस्वभावं समाश्रित्य दीक्षाकालेऽपि नागता ॥५॥ततो विधेः समादेशाच्छक्रेणान्या समाहृता ॥काचिद्गोपसमुद्भूता कुमारी देव रूपिणी ॥६॥गोवक्त्रेण प्रवेश्याथ गुह्यमार्गेण तत्क्षणात् ॥आकर्षिता महाभागे समानीताथ तत्क्षणात् ॥७॥सा विष्णुना विवाहार्थं ततश्चैवानुमोदिता ॥ईश्वरेण कृतं नाम गायत्री च तवानुगम् ॥८॥ब्राह्मणैः सकलैः प्रोक्तं ब्राह्मणीति भवत्वियम् ॥अस्माकं वचनाद्ब्रह्मन्कुरु हस्तग्रहं विभो ॥९॥ देवैः सर्वैः स सम्प्रोक्तस्ततस्तां च वराननाम् ॥ततः पत्न्युत्थधर्मेण योजयामास सत्वरम् ॥१०॥किं वा ते बहुनोक्तेन पत्नीशालां समागता ॥रशना योजिता तस्या गोप्याः कट्यां सुरेश्वरि ॥११॥तद्दृष्ट्वा गर्हितं कर्म निष्क्रांतो यज्ञमण्डपात् ॥अमर्ष वशमापन्नो न शक्तो वीक्षितुं च ताम् ॥१२॥एतज्ज्ञात्वा महाभागे यत्क्षमं तत्समाचर ॥गच्छ वा तिष्ठ वा तत्र मण्डपे धर्मवर्जिते ॥१३॥तच्छ्रुत्वा सा तदा देवी सावित्री द्विजसत्तमाः ॥प्रम्लानवदना जाता पद्मिनीव हिमागमे ॥१४॥लतेव च्छिन्नमूला सा चक्रीव प्रियविच्युता ॥शुचिशुक्लागमे काले सरसीव गतोदका ॥१५॥प्रक्षीणचन्द्रलेखेव मृगीव मृगवर्जिता ॥सेनेव हतभूपाला सतीव गतभर्तृका ॥१६॥संशुष्का पुष्पमालेव मृतवत्सैव सौरभी ॥वैमनस्यं परं गत्वा निश्चलत्वमुपस्थिताम् ॥तां दृष्ट्वा देवपत्न्यस्ता जगदुर्नारदं तदा ॥१७॥धिग्धिक्कलिप्रिय त्वां च रागे वैराग्यकारकम् ॥त्वया कृतं सर्वमेतद्विधेस्तस्य तथान्तरम् ॥१८॥ ॥ गौर्युवाच ॥अयं कलिप्रियो देवि ब्रूते सत्यानृतं वचः ॥अनेन कर्मणा प्राणान्बिभर्त्येष सदा मुनिः ॥१९॥अहं त्र्यक्षेण सावित्रि पुरा प्रोक्ता मुहुर्मुहुः ॥नारदस्य मुनेर्वाक्यं न श्रद्धेयं त्वया प्रिये ॥यदि वांछसि सौख्यानि मम जातानि पार्वति ॥२०॥ततःप्रभृति नैवाहं श्रद्दधेऽस्य वचः क्वचित् ॥तस्माद्गच्छामहे तत्र यत्र तिष्ठति ते पतिः ॥२१॥स्वयं दृष्ट्वैव वृत्तांतं कर्तव्यं यत्क्षमं ततः ॥नात्रास्य वचनादद्य स्थातव्यं तत्र गम्यताम् ॥२२॥ ॥ सूत उवाच ॥गौर्या स्तद्वचनं श्रुत्वा सावित्री हर्षवर्जिता ॥मखमण्डपमुद्दिश्य प्रस्खलन्ती पदेपदे ॥२३॥प्रजगाम द्विजश्रेष्ठाः शून्येन मनसा तदा ॥प्रतिभाति तदा गीतं तस्या मधुरमप्यहो ॥२४॥कर्णशूलं यथाऽऽयातमसकृद्द्विजसत्तमाः ॥वन्ध्यवाद्यं यथा वाद्यं मृदंगानकपूर्वकम् ॥२५॥प्रेतसंदर्शनं यद्वन्मर्त्यं तत्सा महासती ॥वीक्षितुं न च शक्रोति गच्छमाना तदा मखे ॥२६॥शृंगारं च तथांगारं मन्यते सा तनुस्थितम् ॥वाष्पपूर्णेक्षणा दीना प्रजगाम महासती ॥२७॥ततः कृच्छ्रात्समासाद्य सैवं तं यज्ञमंडपम् ॥कृच्छ्रात्कारागृहं तद्वद्दुष्प्रेक्ष्यं दृक्पथं गतम् ॥२८॥अथ दृष्ट्वा तु संप्राप्तां सावित्रीं यज्ञमण्डपम् ॥तत्क्षणाच्च चतुर्वक्त्रः संस्थितोऽधोमुखो ह्रिया ॥२९॥तथा शम्भुश्च शक्रश्च वासुदेवस्तथैव च ॥ये चान्ये विबुधास्तत्र संस्थिता यज्ञमंडपे ॥३०॥ते च ब्राह्मणशार्दूलास्त्यक्त्वा वेदध्वनिं ततः ॥मूकीभावं गताः सर्वे भयसंत्रस्तमानसाः ॥३१॥अथ संवीक्ष्य सावित्री सपत्न्या सहितं पतिम् ॥कोपसंरक्तनयना परुषं वाक्यमब्रवीत् ॥३२॥ ॥ सावित्र्युवाच ॥किमेतद्युज्यते कर्तुं तव वृद्ध तमाकृते ॥ऊढवानसि यत्पत्नीमेतां गोपसमुद्भवाम् ॥३३॥उभयोः पक्षयोर्यस्याः स्त्रीणां कांता यथेप्सिताः ॥शौचाचारपरित्यक्ता धर्मकृत्यपराङ्मुखाः ॥३४॥यदन्वये जनाः सर्वे पशुधर्मरतोत्सवाः ॥सोदर्यां भगिनीं त्यक्त्वा जननीं च तथा पराम् ॥३५॥तस्याः कुले प्रसेवंते सर्वां नारीं जनाः पराम् ॥यथा हि पशवोऽश्नंति तृणानि जलपानगाः ॥३६॥विण्मूत्रं केवलं चक्रुर्भारोद्वहनमेव च ॥९तद्वदस्याः कुलं सर्वं तक्रमश्राति केवलम् ॥३७॥कृत्वा मूत्रपुरीषं च जन्मभोगविवर्जितम् ॥नान्यज्जानाति कर्तव्यं धर्मं स्वोदरसं श्रयात् ॥३८॥अन्त्यजा अपि नो कर्म यत्कुर्वन्ति विगर्हितम् ॥आभीरास्तच्च कुर्वंति तत्किमेतत्त्वया कृतम् ॥३९॥अवश्यं यदि ते कार्यं भार्यया परया मखे ॥त्वया वा ब्राह्मणी कापि प्रख्याता भुवनत्रये ॥४०॥नोढा विधे वृथा मुण्ड नूनं धूर्तोऽसि मे मतः ॥यत्त्वया शौचसंत्यक्ता कन्याभावप्रदूषिता ॥४१॥प्रभुक्ता बहुभिः पूर्वं तथा गोपकुमारिका ॥एषा प्राप्ता सुपापाढ्या वेश्याजनशताधिका ॥४२॥अन्त्यजाता तथा कन्या क्षतयोनिः प्रजायते ॥तथा गोपकुमारी च काचित्तादृक्प्रजायते ॥४३॥मातृकं पैतृकं वंशं श्वाशुरं च प्रपातयेत् ॥तस्मादेतेन कृत्येन गर्हितेन धरातले ॥४४॥न त्वं प्राप्स्यसि तां पूजां तथा न्ये विबुधोत्तमाः ॥अनेन कर्मणा चैव यदि मे स्ति ऋतं क्वचित् ॥४४॥पूजां ये च करिष्यंति भविष्यंति च निर्धनाः ॥कथं न लज्जितोसि त्वमेतत्कुर्वन्विगर्हितम् ॥४६॥पुत्राणामथ पौत्राणामन्येषां च दिवौकसाम् ॥अयोग्यं चैव विप्राणां यदेतत्कृतवानसि ॥४७॥अथ वा नैष दोषस्ते न कामवशगा नराः ॥लज्जंति च विजानंति कृत्याकृत्यं शुभाशुभम् ॥४८॥अकृत्यं मन्यते कृत्यं मित्रं शत्रुं च मन्यते ॥शत्रुं च मन्यते मित्रं जनः कामवशं गतः ॥४९॥द्यूतकारे यथा सत्यं यथा चौरं च सौहृदम् ॥यथा नृपस्य नो मित्रं तथा लज्जा न कामिनाम् ॥५०॥अपि स्याच्छीतलो वह्निश्चंद्रमा दहनात्मकः ॥क्षाराब्दिरपि मिष्टः स्यान्न कामी लज्जते ध्रुवम् ॥५१॥न मे स्याद्दुखमेतद्धि यत्सापत्न्यमुपस्थितम् ॥सहस्रमपि नारीणां पुरुषाणां यथा भवेत् ॥५२॥कुलीनानां च शुद्धानां स्वजात्यानां विशेषतः ॥त्वं कुरुष्व पराणां च यदि कामवशं गतः ॥५३॥एतत्पुनर्महद्दुःखं यदाभीरी विगर्हिता ॥वेश्येव नष्टचारित्रा त्वयोढा बहुभर्तृका ॥५४॥तस्मादहं प्रयास्यामि यत्र नाम न ते विधे ॥श्रूयते कामलुब्धस्य ह्रिया परिहृतस्य च ॥५५॥अहं विडंबिता यस्मादत्रानीय त्वया विधे ॥पुरतो देवपत्नीनां देवानां च द्विजन्मनाम् ॥तस्मात्पूजां न ते कश्चित्सांप्रतं प्रकरिष्यति ॥५६॥अद्य प्रभृति यः पूजां मंत्रपूजां करिष्यति ॥तव मर्त्यो धरापृष्ठे यथान्येषां दिवौकसाम् ॥५७॥भविष्यति च तद्वंशो दरिद्रो दुःखसंयुतः ॥ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोपि चालये ॥५८॥एषाऽभीरसुता यस्मान्मम स्थाने विगर्हिता ॥भविष्यति न संतानस्तस्माद्वाक्यान्ममैव हि ॥५९॥न पूजां लप्स्यते लोके यथान्या देवयोषितः ॥६०॥करिष्यति च या नारी पूजा यस्या अपि क्वचित् ॥सा भविष्यति दुःखाढ्या वंध्या दौर्भाग्यसंयुता ॥६१॥पापिष्ठा नष्टचारित्रा यथैषा पंचभर्तृका ॥विख्यातिं यास्यते लोके यथा चासौ तथैव सा ॥६२॥एतस्या अन्वयः पापो भविष्यति निशाचर ॥सत्यशौचपरित्यक्ताः शिष्टसंगविवर्जिताः ॥६३॥अनिकेता भविष्यंति वंशेऽस्या गोप्रजीविनः ॥एवं शप्त्वा विधिं साध्वी गायत्रीं च ततः परम् ॥६४॥ततो देवगणान्सर्वाञ्छशाप च तदा सती ॥भोभोः शक्र त्वयानीता यदेषा पंचभर्तृका ॥६५॥तदाप्नुहि फलं सम्यक्छुभं कृत्वा गुरोरिदम् ॥त्वं शत्रुभिर्जितो युद्धे बंधनं समवाप्स्यसि ॥६६॥कारागारे चिरं कालं संगमिष्यत्यसंशयम् ॥वासुदेव त्वया यस्मादेषा वै पंचभर्तृका ॥६७॥अनुमोदिता विधेः पूर्वं तस्माच्छप्स्याम्यसंशयम् ॥त्वं चापि परभृत्यत्वं संप्राप्स्यसि सुदुर्मते ॥६८॥समीपस्थोऽपि रुद्र त्वं कर्मैतद्यदुपेक्षसे ॥निषेधयसि नो मूढ तस्माच्शृणु वचो मम ॥६९॥जीवमानस्य कांतस्य मया तद्विरहोद्भवम् ॥संसेवितं मृतायां ते दयितायां भविष्यति ॥७०॥यत्र यज्ञे प्रविष्टेयं गर्हिता पंचभर्तृका ॥भवानपि हविर्वह्ने यत्त्वं गृह्णासि लौल्यतः ॥७१॥तथान्येषु च यज्ञेषु सम्यक्छंकाविवर्जितः ॥तस्माद्दुष्टसमाचार सर्वभक्षो भविष्यसि ॥७२॥स्वधया स्वाहया सार्धं सदा दुःखसमन्वितः ॥नैवाप्स्यसि परं सौख्यं सर्वकालं यथा पुरा ॥७३॥एते च ब्राह्मणाः सर्वे लोभोपहतचेतसः ॥होमं प्रकुर्वते ये च मखे चापि विगर्हिते ॥ ७४॥वित्तलोभेन यत्रैषा निविष्टा पञ्चभर्तृका ॥तथा च वचनं प्रोक्तं ब्राह्मणीयं भविष्यति ॥७५॥दरिद्रोपहतास्तस्माद्वृषलीपतयस्तथा ॥वेदविक्रयकर्तारो भविष्यथ न संशयः ॥७६॥भोभो वित्तपते वित्तं ददासि मखविप्लवे ॥तस्माद्यत्तेऽखिलं वित्तमभोग्यं संभविष्यति ॥७७॥तथा देवगणाः सर्वे साहाय्यं ये समाश्रिताः ॥अत्र कुर्वंति दोषाढ्ये यज्ञे वै पांचभर्तृके ॥७८॥संतानेन परित्यक्तास्ते भविष्यंति सांप्रतम् ॥दानवैश्च पराभूता दुःखं प्राप्स्यति केवलम् ॥७९॥एतस्याः पार्श्वतश्चान्याश्चतस्रो या व्यवस्थिताः ॥आभीरीति सप त्नीति प्रोक्ता ध्यानप्रहर्षिताः ॥८०॥मम द्वेषपरा नित्यं शिवदूतीपुरस्सराः ॥तासां परस्परं संगः कदाचिच्च भविष्यति ॥८१॥नान्येनात्र नरेणापि दृष्टिमात्रमपि क्षितौ ॥पर्वताग्रेषु दुर्गेषु चागम्येषु च देहिनाम् ॥वासः संपत्स्यते नित्यं सर्वभोगविवर्जितः ॥८२॥ ॥ सूत उवाच ॥एवमुक्त्वाऽथ सावित्रीकोपोपहतचेतसा ॥विसृज्य देवपत्नीस्ताः सर्वा याः पार्श्वतः स्थिताः ॥८३॥उदङ्मुखी प्रतस्थे च वार्यमाणापि सर्वतः ॥सर्वाभिर्देवपत्नीभिर्लक्ष्मीपूर्वाभिरेवच ॥८४॥तत्र यास्यामि नो यत्र नामापि किल वै यतः ॥श्रूयते कामुकस्यास्य तत्र यास्याम्यहं द्रुतम् ॥८५॥एकश्चरणयोर्न्यस्तो वामः पर्वतरोधसि ॥द्वितीयेन समारूढा तस्यागस्य तथोपरि ॥८६॥अद्यापि तत्पदं वामं तस्यास्तत्र प्रदृश्यते ॥सर्वपापहरं पुण्यं स्थितं पर्वतरोधसि ॥८७॥अपि पापसमाचारो यस्तं पूजयते नरः ॥सर्वपातकनिर्मुक्तः स याति परमं पदम् ॥८८॥यो यं काममभि ध्याय तमर्चयति मानवः ॥अवश्यं समवाप्नोति यद्यपि स्यात्सुदुर्लभम् ॥८९॥ ॥ सूत उवाच ॥एवं तत्र स्थिता देवी सावित्री पर्वता श्रया ॥अपमानं महत्प्राप्य सकाशात्स्वपतेस्तदा ॥९०॥यस्तामर्चयते सम्यक्पौर्णमास्यां विशेषतः ॥सर्वान्कामानवाप्नोति स मनोवांछितां स्तदा ॥९१॥या नारी कुरुते भक्त्या दीपदानं तदग्रतः ॥रक्ततंतुभिराज्येन श्रूयतां तस्य यत्फलम् ॥९२॥यावन्तस्तंतवस्तस्य दह्यंते दीप संभवाः ॥मुहूर्तानि च यावंति घृतदीपश्च तिष्ठति ॥तावज्जन्मसहस्राणि सा स्यात्सौभाग्यभांगिनी ॥९३॥पुत्रपौत्रसमोपेता धनिनी शील मंडना ॥न दुर्भगा न वन्ध्या च न च काणा विरूपिका ॥९४॥या नृत्यं कुरुते नारी विधवापि तदग्रतः ॥गीतं वा कुरुते तत्र तस्याः शृणुत यत्फलम् ॥९५॥यथायथा नृत्यमाना स्वगात्रं विधुनोति च ॥तथातथा धुनोत्येव यत्पापं प्रकृतं पुरा ॥९६॥यावन्तो जन्तवो गीतं तस्याः शृण्वंति तत्र च ॥तावंति दिवि वर्षाणि सहस्राणि वसेच्च सा ॥९७॥सावित्रीं या समुद्दिश्य फलदानं करोति सा ॥फलसंख्याप्रमाणानि युगानि दिवि मोदते ॥९८॥मिष्टान्नं यच्छते यश्च नारीणां च विशेषतः ॥तस्या दक्षिणमूर्तौ च भर्त्राढ्यानां द्विजोत्तमाः ॥स च सिक्थप्रमाणानि युगा नि दिवि मोदते ॥९९॥यः श्राद्धं कुरुते तत्र सम्यक्छ्रद्धासमन्वितः ॥रसेनैकेन सस्येन तथैकेन द्विजोत्तमाः ॥तस्यापि जायते पुण्यं गयाश्राद्धेन यद्भवेत् ॥१००॥यः करोति द्विजस्तस्या दक्षिणां दिशमाश्रितः ॥सन्ध्योपासनमेकं तु स्वपत्न्या क्षिपितैर्जलैः ॥१०१॥सायंतने च संप्राप्ते काले ब्राह्मणसत्तमाः ॥तेन स्याद्वंदिता संध्या सम्यग्द्वादशवार्षिकी ॥१०२॥यो जपेद्ब्राह्मणस्तस्याः सावित्रीं पुरतः स्थितः ॥तस्य यत्स्यात्फलं विप्राः श्रूयतां तद्वदामि वः ॥१०३॥दशभिर्ज्जन्मजनितं शतेन च पुरा कृतम् ॥त्रियुगे तु सहस्रेण तस्य नश्यति पातकम् ॥१०४॥तस्मात्सर्वप्रयत्नेन चमत्कारपुरं प्रति ॥गत्वा तां पूजयेद्देवीं स्तोतव्या च विशेषतः ॥सावित्र्या इदमाख्यानं यः पठेच्छृणुयाच्च वा ॥सर्वपापविनिर्मुक्तः सुखभागत्र जायते ॥१०६॥एतद्वः सर्वमाख्यातं यत्पृष्टोऽहं द्विजोत्तमाः ॥सावित्र्याः कृत्स्नं माहात्म्यं किं भूयः प्रवदाम्यहम् ॥१०७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सावित्रीमाहात्म्यवर्णनंनाम द्विनवत्युत्तरशततमोऽध्यायः ॥१९२॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP