संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २२० नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २२० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२० Translation - भाषांतर ॥ आनर्त उवाच ॥त्रयोदश्यां कृते श्राद्धे कस्माद्वंशक्षयो भवेत् ॥एतन्मे सर्वमाचक्ष्व विस्तरात्त्वं महा मुने ॥१॥भर्तृयज्ञ उवाच ॥एषा मेध्यतमा राजन्युगादिः कलिसंभवा ॥स्नाने दाने जपे होमे श्राद्धे ज्ञेया तथाऽक्षया ॥२॥अस्यां चेत्तु गजच्छाया तिथौ राजन्प्रजायते ॥तदाऽक्षयं मघायोगे श्राद्धं संजायते ध्रुवम् ॥३॥यः क्षीरं मधुना युक्तं तस्मिन्नहनि यच्छति ॥पितॄनुद्दिश्य यो मांसं दद्याद्वाध्रीणसं च यः ॥४॥वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥त्रिःपिबंत्विंद्रियक्षीणं श्वेतं वृद्धमजापतिम् ॥५॥तं तु वाध्रीणसं विद्यात्सर्वयूथाधिपं तथा ॥खड्गमांसं च वा दद्यात्तृप्तिर्द्वादशवार्षिकी ॥संजायते न संदेहस्तेषां वाक्यं न मे मृषा ॥६॥आसीद्रथंतरे कल्पे पूर्वं पार्थिवसत्तमः ॥सिताश्वो नाम पांचालदेशीयःपितृभक्तिमान् ॥७॥मधुना कालशाकेन खड्गमांसेन केवलम् ॥स हि श्राद्धं त्रयोदश्यां कुरु ते पायसेन च ॥८॥सोमवंशं समुद्दिश्य श्राद्धं यच्छति भक्तितः ॥९॥अथ तैर्बाह्मणैः सर्वैः स भूयः कौतुकान्वितैः ॥कस्यचित्त्वथ कालस्य पृष्टो भुक्त्वा यथेच्छया ॥१०॥श्राद्धादनंतरं राजन्दृष्ट्वा तं श्रद्धयाऽन्वितम् ॥पादावमर्द्दनपरं प्रणिपातपुरः सरम् ॥११॥ ॥ ब्राह्मणा ऊचुः ॥कृत्वा श्राद्धं महाराज प्रदातव्याऽथ दक्षिणा ॥ब्राह्मणेभ्यस्ततः श्राद्धं पितॄणां चोपतिष्ठति ॥१२॥सा त्वया कल्पिताऽस्माकं वितीर्णाद्यापि नो नृप ॥कुप्याकुप्यं परित्यज्य तां देहि नृप मा चिरम् ॥१३॥ ॥ भर्तृयज्ञ उवाच ॥तच्छ्रुत्वा च नृपः प्राह संप्रहृष्टेन चेतसा ॥धन्योऽस्म्यनुगृहीतोऽस्मि विप्रैरद्य न संशयः ॥१४॥ये वांछंति ममाभीष्टं श्राद्धे भुक्त्वाऽथ पैतृके ॥तस्माद्ब्रूत महाभागा युष्मभ्यं किं ददाम्यहम् ॥१५॥वर न्नागान्मदोन्मत्तान्भद्रजातिसमुद्भवान् ॥किं वा सप्तिप्रधानांश्च मनोमारुतरंहसः ॥१६॥किं वा स्थानानि चित्राणि ग्रामाणि नगराणि च ॥पितॄनुद्दिश्य यत्किंचिन्नादेयं विद्यते यतः ॥१७॥ ॥ ब्राह्मणा ऊचुः ॥नास्माकं वाजिभिः कार्यं न रत्नैर्न च हस्तिभिः ॥न देशैर्ग्राममुख्यैर्वा नान्येनापि च केनचित् ॥१८॥यदर्थेन महाराज पृष्टोस्माभिर्यतो भवान् ॥तस्मान्नो दक्षिणां देहि संदेहघ्नां तपोत्तम ॥१९॥यां पृच्छामो वयं सर्वे कौतूहलसमाहिताः ॥२०॥ ॥ राजोवाच ॥उपदेशाधिकारोऽस्ति ब्राह्मणानां महात्मनाम् ॥दातुं नैव ग्रहीतुं च नी चजात्यस्य वैदिकाः ॥२१॥सोऽहं राजा न सर्वज्ञो यो यच्छामि द्विजोत्तमाः ॥उपदेशं हि युष्मभ्यं सर्वज्ञेभ्यो विचक्षणाः ॥२२॥ ॥ ब्राह्मणा ऊचुः ॥गुरुशिष्यसमुत्थोऽयमुपदेशो महीपते ॥प्रार्थयामो वयं किंचिन्मा भयं त्वं समाविश ॥२३॥वयं च प्रश्नमेकं हि पृच्छामो यदि भूपते ॥ब्रूषे कौतुकयुक्तानां सर्वेषां च द्विजन्मनाम् ॥२४॥तस्माद्वद महाभाग यदि जानासि तत्त्वतः ॥न चेद्गुह्यतमं किंचित्पृच्छामस्त्वां कुतूहलात् ॥२५॥ ॥ राजोवाच ॥यदि वः संशयो विप्रा युष्मत्प्रश्नमसंशयम् ॥कथयिष्याभि चेद्गुह्यं तद्वद्ध्वं गप्ल? ज्वराः ॥२६॥ ॥ ब्राह्मणा ऊचुः ॥अन्नेषु च विचित्रेषु लेह्येषु विविधेषु च ॥अमृतेष्वेषु सर्वेषु तथा पेयेषु पार्थिव ॥२७॥तस्मादद्य दिने ब्रूहि मधु यच्छसि गर्हितम् ॥वर्तते च यथाऽभक्ष्यं ब्राह्मणानां विशेषतः ॥२८॥तथा विचित्र मासेषु संस्थितेषु नराधिप ॥खङ्गमांसं निरास्वादं कस्माद्यच्छसि केवलम् ॥२९॥संति शाकानि राजेन्द्र पावनीयानि सर्वशः ॥सुष्ठु स्वादु कराण्यत्र व्यञ्जनार्थं महीपते ॥३०॥कालशाकं सकटुकं मुखाऽऽधिजनकं महत् ॥कस्माद्यच्छसि चास्माकं भक्त्या परमया युतः ॥न श्राद्धे प्रतिषेधश्च प्रकर्तव्यः कथंचन ॥३१॥न च त्याज्यं समुच्छिष्टं तेन भुंजामहे ततः ॥तदत्र कारणेनैव गुरुणा भाव्यमेव हि ॥येन त्वं यच्छसि प्राय एतत्सिद्धिर्भवेत्स्थिता ॥३२॥तस्मात्कथय नः सर्वं परं कौतूहलं हि नः ॥निःस्वादितं यथा दद्यादीदृक्छ्राद्धे विगर्हितम् ॥३३॥यथा त्वं नृपशार्दूल श्रद्धया संप्रयच्छसि ॥३४॥तच्छ्रुत्वा वचनं तेषां ब्राह्मणानां महात्मनाम् ॥स वैलक्ष्यस्मितं प्राह सलज्जं पृथिवीपतिः ॥३५॥गुह्यमेतन्महाभागा अस्माकं यदि संस्थितम् ॥अवाच्यमपि वक्ष्यामि शृणुध्वं सुसमाहिताः ॥३६॥अहमासं पुरा पापो लुब्धकश्चान्य जन्मनि ॥निहंता सर्वजंतूनां तथा भक्षयिता पुनः ॥३७॥पर्यटामि तदारण्ये धनुषा मृगयारतः ॥सिंहो व्याघ्रो गजेन्द्रो वा शरभो वा द्विजो त्तमाः ॥३८॥मद्बाणगोचरं प्राप्तो न जीवत्यपि कर्हिचित् ॥कस्यचित्त्वथ कालस्य भ्रममाणो महीतले ॥३९॥संप्राप्तोऽहं महाभागा अग्नि वेशस्य सन्मुनेः ॥आश्रमे समनुप्राप्तो निशीथे क्षुत्पिपासितः ॥४०॥तावत्तत्र सशिष्याणां श्राद्धकर्मविधिं वदन् ॥संस्थितो वेष्टितः शिष्यैः समन्ताद्द्विजसत्तमाः ॥४१॥ ॥ अग्निवेश उवाच ॥ऋक्षे पित्र्ये यदा चन्द्रो हंसश्चापि करे व्रजेत् ॥त्रयोदशी तु सा च्छाया विज्ञेया कुञ्जरोद्भवा ॥४२॥पित्र्ये यदास्थितश्चेन्दुर्हंसश्चापि करे स्थितः ॥तिथिर्वैश्रवणी या च सा च्छाया कुञ्जरस्य च ॥४३॥सैंहिकेयो यदा चंद्रं ग्रसते पर्वसंधिषु ॥हस्तिच्छाया तु सा ज्ञेया तस्यां श्राद्धं समाचरेत् ॥४४॥तस्यां यः कुरुते श्राद्धं जलैरपि प्रभक्तितः ॥यावद्द्वादश वर्षाणि पितरस्तस्य तर्पिताः ॥४५॥वनस्पतिगते सोमे या च्छाया पूर्वतोमुखी ॥गजच्छाया तु सा ज्ञेया पितॄणां दत्तमक्षयम् ॥४६॥सा भवेच्च न सन्देहः पुण्यदा पैतृकी तिथिः ॥तस्यां श्राद्धं प्रकर्तव्यं संभाराः संभृताश्च ये ॥४७॥प्रभाते तु न सन्देहः पितॄणां परितृप्तये ॥शाकैस्तथैंगुदैर्बिल्वैर्बदरैश्चिर्भटैरपि ॥४८॥ यदन्नं पुरुषोऽश्नाति तदन्नास्तस्य देवताः ॥बाढमित्येव ते प्रोच्य गताः स्वंस्वं निकेतनम् ॥४९॥सर्वे शिष्या महाभागाः नारायणपुरोगमाः ॥अग्निवेश्योऽपि सुष्वाप समामन्त्र्य द्विजोत्तमान् ॥५०॥तेन संकथ्यमानं च रात्रौ तच्च श्रुतं मया ॥अहं चापि करिष्यामि प्रातः श्राद्धमसंशयम् ॥५१॥निहत्य खड्गमादाय तस्य मांसं सुपुष्कलम् ॥तथा मधु समादाय कालशाकं विशेषतः ॥५२॥स्वजातीयेभ्य आदाय तर्पयिष्यामि तान्पितॄन् ॥५३॥एवं निश्चित्य मनसा प्रसुप्तोऽहं द्विजोत्तमाः ॥ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥५४॥मधुजालानि भूरीणि गृहीतानि मया ततः ॥कालशाकं तथा लब्धं स्वेच्छया द्विजसत्तमाः ॥५५॥ततः सर्वं समादाय श्रपितं तत्क्षणान्मया ॥स्नात्वा च निजवर्गाणां पितॄनुद्दिश्य चात्मनः ॥प्रदत्तं लुब्धकानां च भक्तिपूर्वं द्विजोत्तमाः ॥५६॥एवं मया पुरा दत्तं पितॄ नुद्दिश्य तान्निजान् ॥नान्यत्किंचिन्मया दत्तं कदाचित्कस्यचिद्विजाः ॥५७॥ततः कालेन महता मृत्युं प्राप्तोऽस्म्यहं द्विजाः ॥तद्दानस्य प्रभावेन पार्थिवीं योनिमाश्रितः ॥५८॥एवं जातिस्मरत्वं च सञ्जातं मे द्विजोत्तमाः ॥ते च मे तर्पितास्तेन खड्गमांसेन माक्षिकैः ॥५९॥संप्राप्ताः परमां प्रीतिं ततो द्वाशवार्षिकीम् ॥एतस्मात्कारणाच्छ्राद्धं प्रकरोमि द्विजोत्तमाः ॥६०॥खड्गमांसेन मधुना कालशाकेन भूरिशः ॥विधिहीनं द्विजैर्हीनं तिलदर्भैर्विवर्जितम् ॥६१॥मया तद्विहितं श्राद्धं तस्यैतत्फलमागतम् ॥सांप्रतं विधिना सम्यग्ब्राह्मणैर्वेदपारगैः ॥६२॥उपविष्टैः करोम्येव यच्छ्राद्धं श्रद्धयान्वितः ॥दर्भैस्तिलैः समोपेतं मन्त्रवच्च द्विजोत्तमाः ॥६३॥नो जानामि फलं किं वा सांप्रतं च भविष्यति ॥तस्मादेवं परिज्ञाय यूयं चैव द्विजोत्तमाः ॥६४॥संतर्पयध्वं च पितॄन्निजान्गजदिने स्थिते ॥छायायां चैव जातायां कुञ्जरस्य द्विजोत्तमाः ॥६५॥येन संजायते तृप्तिः पितॄणां द्वादशाब्दिकी ॥युष्माकं च गतिः श्रेष्ठा यथा जाता ममाधुना ॥६६॥ ॥ भर्तृयज्ञ उवाच ॥तस्य तद्वचनं श्रुत्वा सर्वे ते ब्राह्मणोत्तमाः ॥संतुष्टाः साधुवादांश्च ददुस्तस्य महीपतेः ॥६७॥ततःप्रभृति चक्रुस्ते श्राद्धानि द्विजसत्तमाः ॥त्रयोदश्यां नभस्यस्य कृष्णायां भक्तितत्पराः ॥६८॥मधुना कालशाकेन खड्गमांसेन तर्पिताः ॥प्राप्नुवंति परां सिद्धिं विमानवरमास्थिताः ॥६९॥स्पर्धंते सहिता दैवैः पितरश्च विशेषतः ॥वंशजेन प्रदत्तस्य प्रभावात्सुरसत्तमाः ॥७०॥श्राद्धार्थं संपरिज्ञाय मन्त्रं चक्रुः परस्परम् ॥आदित्या वसवो रुद्रा नासत्यावपि पार्थिव ॥७१॥यथा न भवति श्राद्धं तस्मिन्नहनि भूतले ॥यत्प्रभावाद्वयं सर्वे मानुषैः श्राद्धमाश्रितैः ॥न यामोऽभिभवस्थानं तस्माच्छप्स्यामहे च तान् ॥७२॥अद्यप्रभृति यः श्राद्धं त्रयोदश्यां करिष्यति ॥कन्यासंस्थे सहस्रांशौ तस्य स्याद्वंशसंक्षयः ॥७३॥इति शापेन देवानां निर्दग्धेयं महातिथिः ॥७४॥ततःप्रभृति नैतस्या क्रियते श्राद्धमुत्तमम् ॥यः प्रमादेन कुरुते तस्य स्याद्वंश संक्षयः ॥७६॥येन भीता न कुर्वंति च्छायायां कुञ्जरस्य च ॥विशेषेण गजच्छाये तत्र पिण्डोऽयमाहृतः ॥७३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे गजच्छायामाहात्म्यवर्णनंनाम विंशत्युत्तरद्विशत तमोऽध्यायः ॥२२०॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP