संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १३९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १३९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १३९ Translation - भाषांतर ॥ सूत उवाच ॥धर्मराजेश्वरोत्थं च माहात्म्यं द्विजसत्तमाः ॥यन्मया प्रश्रुतं पुण्यं सकाशात्स्वपितुः पुरा ॥१॥तदहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः ॥त्रैलोक्येऽपि सुविख्यातं सर्व पातकनाशनम् ॥२॥तत्र क्षेत्रे पुरा विप्रः कश्यपान्वयसंभवः ॥उपाध्याय इति ख्यातो वेदविद्यापरायणः ॥३॥पश्चिमे वयसि प्राप्ते तस्य पुत्रो बभूव ह ॥स्वाध्यायनियमस्थस्य प्रभूतविभवस्य च ॥४॥पञ्चवर्षकमात्रस्तु यदा जज्ञे च तत्सुतः ॥तदा मृत्युवशं प्राप्तः पितृमातृसुदुःखकृत् ॥५॥ततः स ब्राह्मणः कोपं चक्रे वैवस्वतोपरि ॥धर्मराजगृहं प्राप्तं दृष्ट्वा निजकुमारकम् ॥६॥आदाय सलिलं हस्ते शुचिर्भूत्वासमाहितः ॥प्रददौ दारुणं शापं धर्मराजाय दुःखितः ॥७॥अपुत्रोऽद्य कृतो यस्मादहं तेन दुरात्मना ॥अतः सोऽपि च दुष्टात्मा यमोऽपुत्रो भविष्यति ॥८॥तथास्य भूतले लोको नैव पूजां विधास्यति ॥कीर्तयिष्यति नो नाम यथान्येषां दिवौकसाम् ॥९॥यः कश्चित्प्रातरुत्थाय नाम चास्य ग्रही ष्यति ॥मंगल्यकरणे चाथ विघ्नं तस्य भविष्यति ॥१०॥तं श्रुत्वा तस्य विप्रस्य यमः शापं सुदारुणम् ॥स्वधर्मे वर्तमानस्तु ततो दुःखा न्वितोऽभवत् ॥११॥एतस्मिन्नंतरे गत्वा ब्रह्मणः सदनं प्रति ॥कृतांजलिपुटो भूत्वा यमः प्राह पितामहम् ॥१२॥पश्य देवेश शप्तोऽहं निर्दोषोपि द्विजन्मना ॥स्वधर्मे वर्तमानस्तु यथान्यः प्राकृतो जनः ॥१३॥तस्मादहं त्यजिष्यामि नियोगं ते पितामह ॥ब्रह्मशापभया द्भीतः सत्यमेतन्मयोदितम् ॥१४॥पुरा मांडव्यशापेन शूद्रयोन्यवतारितः ॥सांप्रतं पुत्ररहितः कृतोऽपूज्यश्च सत्तम ॥१५॥ ॥ सूत उवाच ॥तस्य तद्वचनं श्रुत्वा दीनं वैवस्वतस्य च ॥तत्कालोचितमाहेदं स्वयमेव शतक्रतुः ॥१६॥युक्तमुक्तमनेनैतद्धर्मराजेन पद्मज ॥नियोगे वर्तमानेन तावकीये सुरेश्वर ॥१७॥अवश्यमेव मर्त्ये च मनुष्याः समये स्थिताः ॥बाल्ये वा यौवने वाथ वार्धक्ये वा पितामह ॥संहर्तव्या न संदेहो नाकाले च कथंचन ॥१८॥एतदेव कृतं नाम धर्मराजाख्यमुत्तमम् ॥त्वया च सममित्रस्य समशस्त्रोर्महात्मनः ॥१९॥तस्मादद्य समालोक्य कश्चिदेव विचिंत्यताम् ॥उपायो येन निर्दोषो नियोगं कुरुते तव ॥२०॥ ॥ ब्रह्मोवाच ॥ब्रह्मशापं न शक्तोऽह मन्यथाकर्तुमेवच ॥उपायं च करिष्यामि सांप्रतं त्रिदशाधिप ॥२१॥ततो ध्यानं प्रचक्रे स ब्रह्मा लोकपितामहः ॥तदर्थं सर्वदेवानां पुरतः सुस माहितः ॥२२॥तस्यैवं ध्यानसक्तस्य प्रादुर्भूताः समंततः ॥मूर्ता रोगाः सुरौद्रास्ते वातगुल्मकफात्मकाः ॥अष्टोत्तरशतप्रायाः प्रोचुस्तं च कृतादराः ॥२३॥ ॥ रोगा ऊचुः ॥किमर्थं देवदेवेश त्वया सृष्टा वयं विभो ॥आदेशो दीयतां शीघ्रं प्रसादः क्रियतामिति ॥२४॥ ॥ व्रह्मोवाच ॥व्रजध्वं भूतले शीघ्रं ममादेशादसंशयम् ॥यमादेशान्मनुष्येषु गन्तव्यमविकल्पितम् ॥२५॥एवमुक्त्त्वा तु तान्रोगांस्ततः प्राह पितामहः ॥धर्मराजं समीपस्थं भृशं दीनमधोमुखम् ॥२६एते ते व्याधयः सर्वे मया यम नियोजिताः ॥साहाय्यं च करिष्यंति सर्वकृ त्येषु सर्वदा ॥२७॥यः कश्चिदधुना मर्त्यो गतायुः संप्रपद्यते ॥वधाय तस्य यत्नेन त्वया प्रेष्याः सदैव तु ॥२८॥एतेषां जायते तेन जननाशसमुद्भवः ॥अपवादो धरापृष्ठे न च संजायते तव ॥२९॥तस्माद्गत्वा निजं स्थानं स्वाधिकारपरो भव ॥ममादेशादसंदिग्धं नैवं दोषमवाप्स्यसि ॥३०॥ततस्तान्सकलान्व्याधीन्गृहीत्वा रविनंदनः ॥यमलोकं समासाद्य ततः प्रोवाच सादरम् ॥३१॥पृष्ट्वापृष्ट्वा च गंतव्यं चित्रगुप्तं धरातले ॥गंतव्यं जननाशाय समये समुपस्थिते ॥३२॥परमस्ति मया तत्र स्थापितं लिंगमुत्तमम् ॥हाटकेश्वरजेक्षेत्रे सर्वपातकनाशनम् ॥३३॥यस्तं पश्यति सद्भक्त्या प्रातरुत्थाय मानवः ॥स युष्माभिः सदा त्याज्यो दूरतो वचनान्मम ॥३४॥एवमुक्त्वा स तान्व्याधींस्ततो वैवस्वतः स्वयम् ॥तस्य विप्रस्य तं पुत्रं गृहीत्वा सत्वरं ययौ ॥तस्यैव मंदिरे रम्ये कृत्वा रूपं द्विजन्मनः ॥३५॥अथासौ ब्राह्मणो दृष्ट्वा स्वं पुत्रं गृहमागतम् ॥सहितं विप्ररूपेण धर्मराजेन धीमता ॥३६॥ततः प्रहृष्टचित्तेन सत्वरं सम्मुखो ययौ ॥पुत्रपुत्रेति जल्पन्स निजभार्यासमन्वितः ॥३७॥परिष्वज्य ततो भूयो वाष्पपर्याकुलेक्षणः ॥आघ्राय च ततो मूर्ध्नि वाक्यमेतदुवाच ह ॥३८॥ ॥ ब्राह्मण उवाच ॥कथं पुत्र समायातस्त्वं तस्मा द्यममंदिरात् ॥न कश्चित्पुनरायाति यत्र गत्वाऽपि वीर्यवान् ॥३९॥किं वा चैतत्समुत्पन्नमिन्द्रजालं ममांतिकम् ॥किं वा स्वप्नमिदं किं वा ममायं दृष्टिविभ्रमः ॥४०॥कश्चायं ब्राह्मणः पार्श्वे तव संतिष्ठते सुत ॥दिव्येन तेजसा युक्तस्तं नमाम्यहमात्मज ॥४१॥ ॥ पुत्र उवाच ॥एष ब्राह्मणरूपेण समायातो यमः स्वयम् ॥मामादाय कृपाविष्टो ज्ञात्वा त्वां दुःखसंयुतम् ॥४२॥तस्मात्त्वं कुरु तातास्य शापानुग्रहमद्य वै ॥गृहप्राप्तस्य सुस्नेहाद्यद्यहं तव वल्लभः ॥४३॥ततस्तस्य प्रणामं स कृत्वा ब्राह्मणसत्तमः ॥व्रीडयाऽधोमुखो भूत्वा ततः प्रोवाच सादरम् ॥४४॥ ॥ ब्राह्मण उवाच ॥अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥यत्पुत्रस्य मम प्राप्तिर्गतस्य यमसादनम् ॥ ४५॥त्वं च पुत्रकृते तात सन्तोषं परमं गतः ॥तस्मात्पुत्रेण संयुक्तो यथायं स्यात्तथा कुरु ॥४६॥ ॥ ब्राह्मण उवाच ॥न मे स्यादनृतं वाक्यं कदा चिदपि पुत्रक ॥अपि स्वैरेण यत्प्रोक्तं किं पुनर्दुःखितेन च ॥४७॥तस्मात्तस्य भवेत्पुत्रो दैवयोनिसमुद्भवः ॥न कथंचिदपि प्राज्ञ मम शापवशाद्ध्रुवम् ॥४८॥भविष्यति सुतश्चान्यो मानुषीयोनिसंभवः ॥राजसूयाश्वमेधाभ्यां यश्चैनं तारयिष्यति ॥४९॥कोऽर्थः पुत्रेण जातेन यो न संतारणक्षमः ॥पितृपक्षं शुभं कर्म कृत्वा सर्वोत्तमं भुवि ॥५०॥तथा पूजाकृते योऽस्य शापो दत्तश्च वै पुरा ॥तत्रापि शृणु मे वाक्यं तस्य पुत्रक जल्पतः ॥५१॥वेदोक्तैर्विविधैर्मन्त्रैर्या पूजा चास्य संस्थिता ॥न भविष्यति सा लोके कथंचिदपि पुत्रक ॥५२॥अस्य मानुषसंभूतैर्मन्त्रैः पूजा भविष्यति ॥विशिष्टा सर्वदेवेभ्यः सत्यमेतन्मयोदितम् ॥५३॥ ॥ पुत्र उवाच ॥अहमेनं प्रतिष्ठाप्य द्रिजश्रेष्ठ महीतले ॥सम्यगाराधयिष्यामि किमन्यैर्विबुधैर्मम ॥५४॥तस्मात्संकीर्तयिष्यामि मंत्रान्मानुषसंभवान् ॥तथा पूजाविधानं च त्वत्प्रसादेन पूर्वज ॥५५॥ततः सुगं नः पन्थेति तस्य मंत्रं विधाय सः ॥समाचरत्प्रहृष्टात्मा धर्मराजस्य शृण्वतः ॥५६॥तच्छ्रुत्वाथ यमः प्रोच्चैः सुप्रसन्नेन चेतसा ॥तं ब्राह्मण मुवाचेदं हर्षगद्गदयागिरा ॥५७॥ ॥ यम उवाच ॥कथंचिदपि विप्रेद्र न मे स्याद्दर्शनं वृथा ॥अन्येषामपि देवानां तस्मात्प्रार्थय वांछि तम् ॥५८॥ ॥ ब्राह्मण उवाच ॥तवार्चां मम पुत्रोऽयं स्थापयिष्यति यामिह ॥तामनेनैव मंत्रेण यः कश्चित्पूजयेद्द्विजः ॥५९॥भवेत्संवत्सरं यावत्संप्राप्ते पंचमीदिने ॥मा तस्य पुत्रशोको हि इह लोके कथञ्चन ॥६०॥ ॥ सूत उवाच ॥स तथेति प्रतिज्ञाय संप्रहृष्टमना यमः ॥यमलोकं जगामाथ स्वाधिकारपरोऽभवत् ॥६१॥सोऽपि ब्राह्मणदायादः कृत्वा प्रासादमुत्तमम् ॥यममाराधयामास मध्ये संस्थाप्य भक्तितः ॥पित्रा चोक्तेन मन्त्रेण तेनैव विधिपूर्वकम् ॥६२॥ततश्च क्रमशः प्राप्य पुत्रपौत्राननेकशः ॥कालधर्ममनुप्राप्तश्चिरं स्थित्वा महीतले ॥६३॥एतद्वः सर्वमाख्यातं पुराणेयत्पुरा श्रुतम् ॥यश्चैतत्कीर्तयेद्भक्त्या संप्राप्ते पंचमीदिने ॥नापमृत्युर्भवेत्तस्य न च शोकः सुतोद्भवः ॥६४॥इति श्रीस्कांदे महपुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धर्मराजेश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तर शततमोऽध्यायः ॥१३९॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP