संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ४७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ४७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४७ Translation - भाषांतर ॥ ऋषय ऊचुः ॥महाकालस्य माहात्म्यं विस्तरेण महामते ॥अस्माकं सूतज ब्रूहि सर्वं वेत्ति यतो भवान् ॥१॥ ॥सूत उवाच ॥आसीत्पूर्वं महीपाल इक्ष्वाकुकुलनन्दनः ॥रुद्रसेन इति ख्यातः सर्वशत्रुनिषूदनः ॥२॥समुद्र इव गांभीर्ये सौम्यत्वे शशिसंनिभः ॥वीर्ये यथा सहस्राक्षो रूपे कन्दर्पसन्निभः ॥३॥तस्य कांतीति विख्याता पुरी सर्वगुणान्विता ॥राजधान्यभवच्छ्रेष्ठा प्रोच्चप्राकारतोरणा ॥४॥तथैवासीत्प्रिया तस्य भार्या परमसंमता ॥ख्याता पद्मवतीनाम रूपौदार्य गुणान्विता ॥५॥स तया सहितो राजा वैशाख्या दिवसे सदा ॥समभ्येति निजस्थानात्सैन्येनाल्पेन संवृतः ॥६॥चमत्कारपुरे क्षेत्रे पीठे तत्र द्विजोत्तमाः ॥महाकालस्य देवस्य पुरतो रात्रिजागरम् ॥करोति श्रद्धया युक्तः सभार्यः स महीपतिः ॥७॥उपवासपरो भूत्वा ध्यायमानो महेश्वरम् ॥गीतवाद्येन हृद्येन नृत्येन द्विजसत्तमाः ॥धर्माख्यानेन विप्राणां वेदाध्ययनविस्तरैः ॥८॥ततः प्रातः समुत्थाय स्नात्वा धौतांबरः शुचिः ॥ददौ दानानि विप्रेभ्यस्तपस्विभ्यो विशेषतः ॥९॥दीनांधकृपणेभ्यश्च तथान्येभ्यः सहस्रशः ॥वर्षेवर्षे सदैवं स समभ्येत्य महीपतिः ॥वैशाख्यां जागरं तस्य देवस्य पुरतोऽकरोत् ॥१०॥यथायथा स भूपालः कुरुते रात्रिजागरम् ॥महाकालाग्रतस्तस्य तथा वृद्धिः प्रजायते ॥११॥शत्रवो विलयं यांति लक्ष्मीर्वृद्धिं प्रगच्छति ॥एकदा स समायातस्तत्र यावन्महीपतिः ॥१२॥तत्रैव दिवसे तावन्महाकालस्य चाग्रतः ॥अपश्यद्ब्राह्मणश्रेष्ठान्नानादिग्भ्यः समागतान् ॥१३॥वेदाध्ययनसंपन्नान्व्रतनिष्ठापरायणान् ॥एके तत्र कथाश्चक्रुः सुपुण्या ब्राह्मणोत्तमाः ॥१४॥राजर्षीणां पुराणानां देवर्षीणां तथा परे ॥तीर्थानां च तथा चान्ये ब्रह्मर्षीणां तथा परे ॥यज्ञानां सागराणां च द्वीपानां च मनोहराः ॥१५॥अथ तान्पृथिवीपालः स प्रणम्य यथाक्रमम् ॥उपविष्टः सभामध्ये तैः सर्वैश्चाभिनंदितः ॥१६॥कस्मिंश्चिदथ संप्राप्ते कथांते ते मुनीश्वराः ॥पप्रच्छुर्भूमिपालं तु कौतूहलसमन्विताः ॥१७॥वैशाखीदिवसे राजंस्त्वं सदाभ्येत्य दूरतः ॥वर्षेवर्षेऽस्य देवस्य पुरतो रात्रिजागरम् ॥१८॥प्रकरोषि प्रयत्नेन त्यक्त्वान्याः सकलाः क्रियाः ॥स्नानदानादिका याश्च निर्दिष्टाः शास्त्रचिंतकैः ॥१९॥न ते यदि रहस्यं स्यात्तदाऽशेषं प्रकीर्तय ॥नूनं त्वं वेत्सि तत्सर्वं यत्फलं रात्रिजागरे ॥२०॥ ॥ राजोवाच ॥रहस्यं परमं चैव यत्पृष्टोऽहं द्विजोत्तमाः ॥युष्माभिः कीर्तयिष्यामि तथाप्यखिलमेव हि ॥२१॥अहमासं वणिग्जात्या पुरा वै वैदिशे पुरे ॥निर्धनो बंधुभिर्मुक्तः परिभूतः पदेपदे ॥२२॥कस्यचित्त्वथ कालस्य भगवान्पाकशासनः ॥वैदिशे नाकरोद्वृष्टिं सप्त वर्षाणि पंच च ॥२३॥ततो वृष्टिनिरोधेन सर्वे लोकाः क्षुधार्द्दिताः ॥अन्नाभावान्मृताः केचित्केचिद्देशांतरे गताः ॥२४॥ततोऽहं स्वां समादाय पत्नीं क्षुत्क्षामगात्रिकाम् ॥अश्रुपूर्णमुखीं दीनां प्रस्खलन्तीं पदेपदे ॥२५॥सौराष्ट्रं मनसि ध्यात्वा प्रस्थितस्तदनन्तरम् ॥सुभिक्षं लोकतः श्रुत्वा जीवनाय द्विजोत्तमाः ॥२६॥क्रमेण गच्छमानोऽथ भिक्षान्नकृतभोजनः ॥आनर्तविषयं प्राप्तश्चमत्कारपुरांतिके ॥२७॥तत्र रम्यं मया दृष्टं पद्मिनीखण्डमंडितम् ॥सरः स्वच्छोदकापूर्णं जलपक्षिभिरावृतम् ॥२८॥ततोऽहं तत्समासाद्य स्नातः शीतेन वारिणा ॥क्षुधार्तश्च तृषार्तश्च श्रमार्तश्च विशेषतः ॥२९॥अथाहं भार्यया प्रोक्तो गृहाणेश जलाशयात् ॥जलजानि क्रयार्थाय येन स्यादद्य भोजनम् ॥३०॥एतत्संदृश्यते दूरात्पुरंदरपुरोपमम् ॥पुरश्रेष्ठं समासाद्य विक्रयं कर्तुमर्हसि ॥३॥ततो मया गृहीतानि पद्मानि द्विजसत्तमाः ॥विक्रयार्थं प्रभूतानि वाच्छमानेन भोजनम् ॥३२॥चमत्कारपुरं प्राप्य ततोऽहं द्विजसत्तमाः ॥भ्रांतस्त्रिकेषु सर्वेषु चत्वरेषु गृहेषु च ॥३३॥न कश्चित्प्रतिगृह्णाति तानि पद्मानि मानवः ॥मम भाग्यवशाल्लोको जातः क्रयपराङ्मुखः ॥३४॥अथ क्षुत्क्षामकण्ठस्य श्रांतस्य मम भास्करः ॥अस्ताचलमनुप्राप्तः संध्याकालस्ततोऽभवत् ॥३५॥ततो वैराग्यमापन्नः सुप्तोऽहं भग्नमंदिरे ॥तानि पद्मानि भूपृष्ठे निधाय सह भार्यया ॥ ३६॥अथार्धरात्रे संप्राप्ते श्रुतो गीतध्वनिर्मया ॥ततश्च चिंतितं चित्ते जागरोऽयमसंशयम् ॥३७॥तस्माद्गच्छामि चेत्कश्चित्पद्मान्येतानि मे नरः ॥मूल्येन प्रतिगृह्णाति भोजनं जायते ततः ॥३८॥एवं विनिश्चयं कृत्वा पद्मान्यादाय सत्वरम् ॥सभार्यः प्रस्थितस्तत्र यत्र गीतस्य निःस्वनः ॥३९॥ततश्चायतने तस्मिन्प्राप्तोऽहं मुनिपुंगवाः ॥अपश्यं देवदेवेशं महाकालं प्रपूजितम् ॥अग्रस्थितैर्द्विजश्रेष्ठैर्जपगीतपरायणैः ॥४०॥एके नृत्यं प्रकुर्वंति गीतमन्ये जपं परे ॥अन्ये होमं द्विजश्रेष्ठा धर्माख्यानमथापरे ॥४१॥ततः कश्चिन्मया पृष्टः क्रियते जागरोऽत्र किम् ॥क एते जागरासक्ता लोकाः कीर्तय मे द्रुतम् ॥४२॥तेनोक्तमेष देवस्य महाकालस्य जागरः ॥क्रियते ब्राह्मणैर्भक्त्या उपवासपरायणैः ॥४३॥अद्य पुण्यतिथिर्नाम वैशाखी पुण्यदा परा ॥यस्यामस्य पुरो भक्त्या नरः कुर्यात्प्रजागरम् ॥महाकालस्य देवस्य सौख्यं प्राप्नोत्यसंशयम् ॥४४॥संति पद्मानि मे यच्छ मूल्यमादाय भद्रक ॥भोजनार्थमहं दद्मि कलधौतपलत्रयम् ॥४५॥ततोऽवधारितं चित्ते मया ब्राह्मणसत्तमाः ॥पूजयामि महाकालं पद्मैरेतैः सुरेश्वरम् ॥४६॥न मया सुकृतं किंचिदन्यदेहांतरे कृतम् ॥नियतं तेन संभूत इत्थंभूतोऽस्मि दुर्गतः ॥४७॥परं क्षुत्क्षामकंठेयं भार्या मे प्रियवादिनी ॥अन्नाभावान्न संदेहः प्रातर्यास्यति संक्षयम् ॥४८॥एवं चिंतयमानस्य मम सा दयिता ततः ॥प्रोवाच मधुरं वाक्यं विनयावनता स्थिता ॥४९॥मा नाथ कुरु पद्मानां विक्रयं धनलोभतः ॥कुरुष्व च हितं वाक्यं यत्ते वक्ष्यामि सांप्रतम् ॥५०॥उपवासो बलाज्जातः सस्याभावादसंशयम् ॥अस्माकं जागरं चापि भविष्यति बुभुक्षया ॥५१॥तत्रोभाभ्यां कृतं स्नानं दिवा सरसि शोभने ॥घर्मार्त्ताभ्यां श्रमार्त्ताभ्यां कृतदेवार्चनं तथा ॥५२॥तस्माद्देवं महाकालं पूजयामोऽधुना वयम् ॥पद्मैरेतैः परं श्रेय आवयोर्येन जायते ॥५३॥ ॥ राजोवाच ॥उभाभ्यामथ हृष्टाभ्यां पूजितोऽयं महेश्वरः ॥तैः पद्मैः सत्त्वमास्थाय कृत्वा पूजां द्विजोत्तमाः ॥५४॥क्षुत्पीडया समायाता नैव निद्रा कथंचन ॥स्वल्पापि मंदिरे चात्र स्थितयोर्हरसन्निधौ ॥५५॥ततः प्रभातसमये प्रोद्गते रविमंडले ॥मृतोऽहं क्षुधयाविष्टः स्थानेऽत्रैव द्विजोत्तमाः ॥५६॥अथ सा दयिता मह्यं तदादाय कलेवरम् ॥हर्षेण महताविष्टा प्रविष्टा हव्यवाहनम् ॥५७॥तत्प्रभावादहं जातः कांतीनाथो महीपतिः ॥दशार्णाधिपतेः कन्या सापि जातिस्मरा सती ॥५८॥ततः स्वयंवरं प्राप्ता मां विज्ञाय निजं पतिम् ॥मयापि सैव विज्ञाय पूर्वपत्नी समाहृता ॥५९॥एतस्मात्कारणादस्य महाकालस्य जागरम् ॥वर्षेवर्षे च वैशाख्यां करोमि द्विजसत्तमाः ॥६०॥अनया प्रियया सार्धं पुष्पधूपानुलेपनैः ॥पूजयित्वा महाकालं सत्यमेतन्मयोदितम् ॥६१॥कृतो विप्रा मया त्वेष स तदा रात्रिजागरः ॥यथाप्येतत्फलं जातं देवस्यास्य प्रभावतः ॥६२॥अधुना श्रद्धया युक्तो यथोक्तविधिना ततः ॥यत्करोमि न जानामि किं मे संयच्छते फलम् ॥६३॥एतद्वः सर्वमाख्यातं मया सत्यं द्विजोत्तमाः ॥येन सत्येन तेनैष महाकालः प्रसीदतु ॥६४॥ ॥ सूत उवाच ॥एतच्छ्रुत्वा द्विजश्रेष्ठा विस्मयोत्फुल्ललोचनाः ॥प्रचक्रुर्जपतेस्तस्य साधुवादाननेकशः ॥६५॥ ॥ ब्राह्मणा ऊचुः ॥सत्यमुक्तं महीपाल त्वयैतदखिलं वचः ॥महाकालप्रसादेन न किंचिद्दुर्लभं भुवि ॥६६॥तस्माद्विशेषतः सर्वे वर्षेवर्षे वयं नृप ॥करिष्यामोऽस्य देवस्य श्रद्धया रात्रिजागरम् ॥६७॥ततः स पार्थिवस्ते च सर्व एव द्विजातयः ॥प्रचक्रुर्जागरं तस्य महाकालस्य संनिधौ ॥६८॥विशेषाद्धर्षसंयुक्ता विविधैर्गीतवादनैः ॥धर्माख्यानैश्च नृत्यैश्च वेदोच्चारैः पृथग्विधैः ॥तदारभ्य नृपाः सर्वे प्रचक्रुर्विस्मयान्विताः ॥६९॥ततः प्रभाते विमले समुत्थाय स भूपतिः ॥पूजयित्वा महाकालं तांश्च सर्वान्द्विजोत्तमान् ॥अनुज्ञाप्य ययौ हृष्टः ससैन्यः स्वपुरं प्रति ॥७०॥ततः कालेन संप्राप्य देहान्तं स महीपतिः ॥संप्राप्तः परमं स्थानं जरामरणवर्जितम् ॥७१॥एतद्वः सर्वमाख्यातं महाकालसमुद्भवम् ॥माहात्म्यं ब्राह्मण श्रेष्ठाः सर्वपातकनाशनम् ॥७२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये महाकालेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : December 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP