संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १३४ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १३४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १३४ Translation - भाषांतर ॥ ऋषय ऊचुः ॥यदा दक्षेण क्रुद्धेन पुरा शप्तो हिमद्युतिः ॥तत्सर्वं भवता प्रोक्तं सोमनाथकथानकम् ॥१॥सांप्रतं वद कामस्य यथा कुष्ठोऽभवत्पुरा ॥येन दोषेण शापश्च केन तस्य नियोजितः ॥२॥शिलाखंडा च या देवी तथा सौभाग्यकूपिका ॥यथा तत्र समुत्पन्ना तथाऽस्माकं प्रकीर्तय ॥३॥ ॥ सूत उवाच ॥पुरासीद्ब्राह्मणो नाम हारीत इति विश्रुतः ॥स तपस्तत्र संतेपे वानप्रस्थाश्रमे वसन् ॥४॥तस्य भार्याऽभवत्साध्वी रूपौदार्यसमन्विता ॥त्रैलोक्यसुन्दरी साक्षाल्लक्ष्मीरिव मधुद्विषः ॥५॥ख्याता पूणकलानाम सर्वैः समुदितागुणैः ॥तां दृष्ट्वा पद्मजोऽप्याशु कामस्य वशगोऽभवत् ॥६॥कदाचिदपि स प्राप्तस्तस्मिन्क्षेत्रे मनोभवः ॥सह रत्या तथा प्रीत्या कामेश्वरदिदृक्षया ॥७॥एतस्मिन्नंतरे सापि स्नानार्थं तत्र चागता ॥कृत्वा वस्त्रपरित्यागं विवेश जलाशयम् ॥८॥अथ तां कामदेवोपि समालोक्य शुभाननाम् ॥आत्मीयैरपि निर्विद्धो हृदये पुष्पसायकैः ॥९॥ततो रतिं परित्यक्त्वा प्रीतिं च शरपीडितः ॥विजनं कंचिदासाद्य प्रसुप्तः स तरोरधः ॥१०॥गात्रैः पुलकितैः सर्वैर्निःश्वासान्निःश्वसन्मुहुः ॥अग्निवर्णान्सुदीर्घांश्च बाष्प पूर्णविलोचनः ॥११॥तिष्ठन्स दर्शने तस्या एकदृष्ट्या व्यलोकयत् ॥योगीव सुसमाधिस्थो ध्यायंस्तद्ब्रह्म संस्थितम् ॥१२॥सापि कामं समालोक्य सानुरागं पुरः स्थितम् ॥जृंभाभंगकृतास्यं च वेपमानशरीरकम् ॥१३॥सापि तद्बाणनिर्भिन्ना साभिलाषा बभूव ह ॥कामं प्रति विशेषेण तस्य रूपेण मोहिता ॥१४॥अथ तस्माज्जलात्कृच्छ्राद्विनिष्क्रम्य शुचिस्मिता ॥तीरोपांतं समासाद्य स्थिता तद्दृष्टिगोचरे ॥१५॥ततः कामः समुत्थाय शनैस्तदंतिकं ययौ ॥कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम् ॥१६॥का त्वमत्र विशालाक्षि प्राप्ता स्नातुं जलाशये ॥मम नाशाय चार्वंगि तस्माच्छृणु वचो मम ॥१७॥अहं पुष्पशरो लोके प्रसिद्धश्चारुहासिनि ॥विडंबनां मया नीता देवा अपि निजैः शरैः ॥१८॥मद्बाणेनाहतो रुद्रः स्वशरीरे नितंबिनीम् ॥अर्द्धेन धारयामास त्यक्त्वा लज्जां सुदूरतः ॥१९॥ब्रह्मा मच्छरनिर्भिन्नः स्वसुतां चकमे ततः ॥जनयामास तान्विप्रान्वालखिल्यांस्तथाविधान् ॥२०॥अहिल्यां चकमे शक्रो गौतमस्य प्रियां सतीम् ॥मद्बाणैः पीडितोऽतीव स्वर्गादेत्य धरातलम् ॥२१॥एवं देवा अपि क्षुण्णा मच्छरैर्ये महत्तराः ॥किं पुनर्मानवाः सुभ्रूः कृमिप्रायाः सुचंचलाः ॥२२॥आकीटांतं जगत्सर्वमाब्रह्मांतं तथैव च ॥विडंबनां परां प्राप्तं मच्छरैश्चारुहासिनि ॥२३॥अहं पुनस्त्वया भीरु नीतोऽवस्थामिमां शुभे ॥२४॥तस्माद्देहि महाभागे ममाद्य रतदक्षिणाम् ॥यावन्न यांति संत्यज्य मम प्राणाः कलेवरात् ॥२५॥ ॥ सूत उवाच ॥सापि तद्वचनं श्रुत्वा पतिव्रतपरायणा ॥हन्यमाना विशेषेण तद्बाणैर्हृदये भृशम् ॥२६॥अनभिज्ञा च सा साध्वी कामधर्मस्य केवलम् ॥तापसैः सह संवृद्धा नान्यं जानाति किंचन ॥वक्तुं तद्विषये यच्च प्रोच्यते कामपीडितैः ॥अधोमुखाऽलिखद्भूमिमंगुष्ठेन स्थिता चिरम् ॥२८॥एतस्मिन्नन्तरे भानुः प्राप्तश्चास्तं गिरिं प्रति ॥विहारसमये प्राप्त आहिताग्निर्निवेशने ॥२९॥हारीतोऽपि चिरं वीक्ष्य तन्मार्गं चाकृताशनः ॥ततः स चिंतयामास कस्मात्सा चात्र नागता ॥३०॥स्नात्वा तीर्थवरे तस्मिन्दृष्ट्वा तां चन्द्रकूपिकाम् ॥कामेश्वरं च देवेशं कामदं सुखदं नृणाम् ॥३१॥ततः शिष्यसमायुक्तो वीक्षमाण इतस्ततः ॥तं देशं समनुप्राप्तो यत्र तौ द्वावपि स्थितौ ॥३२॥आलपन्बहुधा कामो हन्यमानो निजैः शरैः ॥सापि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता ॥३३॥स गुल्मांतरितः सर्वं तच्छ्रुत्वा कामजल्पितम् ॥तस्याश्च तद्गतं भावं ततः कोपादुवाच सः ॥३४॥यस्मात्पाप त्वया पत्नी ममैवं शरपीडिता ॥अनभिज्ञा तथा साध्वी पतिधर्मपरायणा ॥कुष्ठव्याधिसमायुक्तस्तस्माद्विप्रियदर्शनः ॥३५॥त्वं भविष्यसि पापात्मन्मुक्तो दारैः स्वकैरपि ॥साऽपि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता ॥३६॥एषापि च शिलाप्राया भविष्यति विचेतना ॥त्वां दृष्ट्वा या सरागाऽभून्निजधर्मबहिष्कृता ॥३७॥ततः प्रसादयामास तं कामः प्रणिपत्य च ॥न ज्ञातेयं मया विप्र तव भार्येति सुन्दरी ॥३८॥तेन प्रोक्ता विरुद्धानि वाक्यानि विविधानि च ॥एतस्या नास्ति दोषोऽत्र मद्बाणैः पीडिता भृशम् ॥३९॥सानुरागा परं जाता नोक्तं किंचिद्वचो मुने ॥तस्मान्नार्हसि शापं त्वं दातुमस्याः कथंचन ॥४०॥ममास्त्येषो ऽपराधोऽत्र तस्मान्मे निग्रहं कुरु ॥भूयोऽपि ब्राह्मणश्रेष्ठ अस्याः शापसमुद्भवम् ॥४१॥अपि रुद्रादयो देवा मद्बाणेभ्यो द्विजोत्तम ॥सोढुं शक्ता न ते यस्मात्तत्कथं स्यादियं शिला ॥४२॥तथात्र त्रिविधं पापं प्रवदंति मनीषिणः ॥मानसं वाचिकं चैव कर्मजं च तृतीयकम् ॥तदस्माकं द्विधा जातमेकं चास्या मुनीश्वर ॥४३॥भार्यायास्ते सुरूपायास्तस्मात्संपूर्णनिग्रहम् ॥करिष्यसि न ते भीतिः काचिदस्ति परत्रजा ॥४४॥मनस्तापाद्व्रजेत्पापं मानसं वाचिकं च यत् ॥तस्य प्रसादनेनैव यस्योपरि विजल्पितम् ॥४५॥प्रायश्चित्तैर्यथोक्तैश्च कर्मजं पातकं व्रजेत् ॥धर्मशास्त्रैः परिप्रोक्तं यतः सर्वैर्महामुने ॥४६॥ ॥ हारीत उवाच ॥अन्यत्र विषये तस्याः पातकं कामदेवते ॥एतस्य तव धर्मस्य प्राधान्यं मनसः स्मृतम् ॥४७॥तस्मादेवंविधा चेयं सदा स्थास्यति चाधम ॥किं पुनः कुरु यत्कृत्यं नाहं वक्ष्यामि किंचन ॥४८॥प्रथमं मनसा सर्वं चिंत्यते तदनंतरम् ॥ततः प्रजल्पते वाचा क्रियते कर्मणा ततः ॥४९॥प्रमाणं हि मनस्तस्मात्सर्वकृत्येषु सर्वदा ॥एतस्मात्कारणात्पूर्णो मयाऽस्या निग्रहः कृतः ॥५०॥ ॥ सूत उवाच ॥एवमुक्त्वा मुनिश्रेष्ठो हारीतः स्वाश्रमं ययौ ॥सापि पूर्णकला जाता शिलारूपा च तत्क्षणात् ॥५१॥कामदेवोऽपि कुष्ठेन ग्रस्तो रौद्रेण च द्विजाः ॥शीर्णनासांघ्रिपाणिश्च नेत्राणामप्रियोऽभवत् ॥५२॥अथ कामे निरुत्साहे संजाते द्विजसत्तमाः ॥व्याधिग्रस्ते जगत्यस्मिन्सृष्टिरोधो व्यजायत ॥५३॥केवलं क्षीयते लोको नैव वृद्धिं प्रगच्छति ॥स्वेदजा येऽपि जीवाः स्युस्तेपि याताः परिक्षयम् ॥५४॥एतस्मिन्नंतरे देवाः सर्वे चिंतासमाकुलाः ॥किमिदं क्षीयते लोको जलस्थैः स्थलजैः सह ॥५५॥न दृश्यते क्वचिद्बालः कोऽपि कश्चित्कथंचन ॥न च गर्भवती नारी कच्चित्क्षेमं स्मरस्य च ॥५६॥ततस्तं व्याधिना ग्रस्तं ज्ञात्वात्र क्षेत्रसंश्रयम् ॥आजग्मुस्त्वरिताः सर्वे व्याकुलेनांतरात्मना ॥५७॥कामेश्वरपुरस्थं च तं दृष्ट्वा कुसुमायुधम् ॥अत्यंतविकृताकारं चिंतयानं महेश्वरम् ॥५८॥ततः प्रोचुः सुदुःखार्ताः किमिदं कुसुमायुध ॥निरुत्साहः समुत्पन्नः कुष्ठव्याधिसमाकुलः ॥५९॥ततश्चाधोमुखो जातो लज्जया परया वृतः ॥प्रोवाच शापजं सर्वं हारीतस्य विचेष्टितम् ॥६०॥ततस्ते विबुधाः प्रोचुः पातकं यद्गिरा कृतम् ॥३तत्तस्याराधनात्सर्वं संक्षयं यात्यसंशयम् ॥६१॥तस्मादेतां शिलारूपां त्वमाराधय चित्तज ॥येन कुष्ठः क्षयं याति ततस्तेजोऽभिवर्धते ॥६२॥जगति स्यान्महासृष्टिर्देवकृत्यं कृतं भवेत् ॥न तेऽस्ति कायजं पापं यतो मुक्त्वा प्रवाचिकम् ॥६३॥अत्र कुण्डे त्वदीयेऽन्यो यः स्नात्वा श्रद्धयान्वितः ॥एनां पापविनिर्मुक्तां शिलां वै मानवः स्पृशेत् ॥६४॥कुष्ठव्याधिसमोपेतः कायोत्थेनापि कर्मणा ॥सोऽपि व्याधिविनिर्मुक्तो भविष्यति गतज्वरः ॥६५॥एतत्सौभाग्यकूपं च लोके ख्यातं जलाशयम् ॥भविष्यति न संदेहः सर्वरोगक्षयावहम् ॥६६॥दद्रूणि दुर्विभूतानि तथान्याश्च विचर्चिकाः ॥अत्र स्नातस्य यास्यंति दृष्ट्वैतां सद्य एव हि ॥६७॥एवमुक्त्वाथ ते देवाः प्रजग्मुस्त्रिदशालयम् ॥कामदेवोऽपि तत्रस्थस्तस्याः पूजामथ व्यधात् ॥६८॥ततश्च समतिक्रांते मासमात्रे द्विजोत्तमाः ॥तादृग्रूपः स संजातो यादृगासीत्पुरा स्मरः ॥६९॥ततश्चायतनं तस्याः कृत्वा श्रद्धासमन्वितः ॥जगाम वांछितं देशं सृष्ट्यर्थं यत्नमास्थितः ॥७०॥सापि नम्रमुखी तादृक्तेन शप्ता तथैव च ॥संजाता खण्डकाकारा तेन खण्डशिला स्मृता ॥७१॥यस्तां पूजयते भक्त्या त्रयोदश्यां तथैव च ॥नापवादो भवेत्तस्य परदारसमुद्भवः ॥७२॥कामिन्याश्च विशेषेण प्राहैतच्छंकरात्मजः ॥कार्तिकेयो द्विजश्रेष्ठाः सत्यमेतन्मयोदितम् ॥७३॥तथा कामेश्वरं देवं कामदेवप्रतिष्ठितम् ॥त्रयोदश्यां समाराध्य सर्वान्कामानवाप्नुयात् ॥७४॥रतिप्रीतिसमायुक्तः स्थितस्तत्र स्मरस्तथा ॥मूर्तो ब्राह्मणशार्दूलाः श्रेष्ठं प्रासादमाश्रितः ॥७५॥विरूपो दुर्भगो यो वा त्रयोदश्यां समाहितः ॥यस्तं कुंकुमजैः पुष्पैः संपूजयति मानवः ॥७६॥स सौभाग्यसमायुक्तो रूपवांश्च प्रजायते ॥या नारी पतिना त्यक्ता सपत्नीजनसंवृता ॥७७॥तं देवं सुकलत्राढ्यं तथैव परिपूजयेत् ॥त्रयोदश्यां द्विजश्रेष्ठाः केसरैः कुंकुमोद्भवैः ॥७८॥सा सौभाग्यवती विप्रा जायते च प्रजावती ॥धनधान्यसमृद्धा च दुःखशोकविवर्जिता ॥दोषैः सर्वैर्विनिर्मुक्ता शंसिता धरणीतले ॥७९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये खंडशिलासौभाग्यकूपिकोत्पत्तिमाहात्म्यवर्णनं नाम चतुस्त्रिंशदुत्तरशततमोध्यायः ॥१३४॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP