संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २१३ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २१३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २१३ Translation - भाषांतर ॥ सूत उवाच ॥रत्नादित्यस्य माहात्म्यमेतद्वः परिकीर्तितम् ॥सर्वकुष्ठहरं यच्च सर्वपातकनाशनम् ॥भूयस्तथैव माहात्म्यं महद्वै श्रूयतां रवेः ॥१॥पुरासीद्ब्राह्मणः कश्चित्कुष्ठव्याधिसमाकुलः ॥तेन चाराधितः सूर्यस्तत्रस्थेन द्विजोत्तमाः ॥२॥पूर्वदक्षिणदिग्भागे समासाद्य ततः परम् ॥रक्त चन्दनजां कृत्वा प्रतिमां भावितात्मना ॥३॥ततो वर्षसहस्रांते तुष्टस्तस्य दिवाकरः ॥वरदोऽस्मीति तं प्राह दृष्टिगोचरमागतः ॥४॥ ॥ ब्राह्मण उवाच ॥यदि तुष्टोऽसि मे देव कुष्ठव्याधिं हर प्रभो ॥नान्येन कारणं मेऽस्ति राज्येनापि त्रिविष्टपे ॥५॥ ॥ श्रीभगवानुवाच ॥सप्तम्यां सूर्यवारेण कुरु विप्र प्रदक्षिणाम् ॥शतमष्टोत्तरं यावत्स्नात्वा पुण्यह्रदे शुभे ॥फलहस्तः पृथक्त्वेन ततः कुष्ठेन मुच्यसे ॥६॥अन्योऽत्र गां गतो योऽपि व्रतमेतत्करिष्यति ॥सर्वरोगविनिर्मुक्तो मम लोकं स गच्छति ॥७॥ ॥ श्रीसूर्य उवाच ॥तच्छ्रुत्वा स तथा चक्रे ब्राह्मणः श्रद्धयाऽन्वितः ॥विमुक्तश्च तदा कुष्ठाद्दिव्यदेहमवाप्तवान् ॥८॥अथ भूयोऽपि तं प्राह नीरोगं भगवान्रविः ॥किं ते प्रियं करोम्यन्यद्वद ब्राह्मणसत्तम ॥९॥सोऽब्रवीत्सर्वदैवात्र स्थातव्यं भगवन्विभो ॥१०॥ ॥ श्रीभगवानुवाच ॥अतः परं ममावासः स्थानेऽत्र च भविष्यति ॥नाम्ना कुहरवासाख्या संज्ञा मम भविष्यति ॥११॥कस्यचित्त्वथ कालस्य विष्णुपुत्रो बभूव ह ॥सांबोनाम सुरूपाढ्यो जांबवत्यां द्विजोत्तमाः ॥१२॥क्षोभसंजननः स्त्रीणां मातॄणामपि स द्विजाः ॥अथ तं राजमार्गेण गच्छंतं यदुसत्तमम् ॥१३॥पुरनार्योऽपि संतुष्टा वीक्षांचक्रुः सुकौतुकात् ॥गृहकार्याणि संत्यज्य समारूढा गवाक्षकान् ॥१४॥तस्य कामात्मदेहस्य दर्शनार्थं समुत्सुकाः ॥काश्चिदर्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः ॥१५॥अर्धसंयमितैः केशैस्तथान्यास्त्यक्तबालकाः ॥एकस्मिंश्चरणे काश्चिन्नियोज्योपानहं द्रुताः ॥१६॥पादुकां च द्वितीये तु पर्यधावन्नितंबिनीः ॥व्रजंतीषु तथान्यासु वनितासु गवाक्षकान् ॥१७॥व्याक्रोशंति क्रुधाविष्टाः शिशवो गुरवस्तथा ॥नीवीबन्धनविश्लेषसमाकुलितचेतसः ॥१८॥ययुरेवापराः स्वेषु गवाक्षेषु वरांगनाः ॥स चकर्ष तदा तासां पतितैर्नेत्ररश्मिभिः ॥१९॥हृदयानि धरापृष्ठे कामदेवसमो युवा ॥काचिद्दृष्ट्वैव तद्रूपं तस्य सांबस्य कामिनी ॥२०॥निश्चला कामतप्तांगी लिखितेव विभाब्यते ॥काचिदग्निसमान्मुक्त्वा निश्वासान्कामपीडिता ॥२१॥एकास्तं च समालोक्य रूपयौवनसंयुतम् ॥गवाक्षात्प्रपतंति स्म निश्चेष्टा धरणीतले ॥२२॥अन्याः परस्परालाप प्रकुर्वंति वरस्त्रियः ॥एका सा कामिनी धन्या यास्य चक्रेवगूहनम् ॥२३निःशेषां रजनीं प्राप्य माघमाससमुद्भवाम् ॥आस्तां तावत्स्त्रियो याश्च नरा अपि निरर्गलम् ॥२४॥जल्पंति चेदृशं सर्वं तस्य रूपेण विस्मिताः ॥अत्रये वदन्ति सेवाम एनमर्थेन वर्जिताः ॥२५॥वीक्ष्यामो वदनं येन नित्यमेवेंदुसंनिभम् ॥कर्णाभ्यां वारिता वृद्धिर्नेत्रयोरप्यसंशयम् ॥नो चेज्जानीमहे नैव कियती सं भविष्यति ॥२६॥एवं संवीक्ष्यमाणस्तु कामिनीभिर्नरैस्तथा ॥निर्ययौ राजमार्गेण पितृदर्शनलालसः ॥२७॥भगिन्यो मातरो याश्च भ्रातृपत्न्यश्च याः स्थिताः ॥अवस्थामीदृशीं प्राप्ता ब्राह्मणानामपि स्त्रियः ॥मातरोऽपि च यास्तस्य भगिन्यश्च विशेषतः ॥२८॥अन्यस्मिन्नहनि प्राप्ते प्रावृट्काले निशागमे ॥कृष्णपक्षे तमोभूते अलक्ष्येऽपि गते पुरः ॥२९॥तन्माता नन्दिनीनाम कामदेवशरार्दिता ॥तत्पत्न्या वेषमाधाय तच्छय्यायामुपस्थिता ॥३०॥सोऽपि तां दयितां ज्ञात्वा सेवयामास कामिनीम् ॥रतोपचारैर्विविधैरश्रद्धेयविनिर्मितैः ॥३१॥तया तत्र यदुश्रेष्ठो विकल्पमकरोत्तदा ॥अंगराजसुता या मे प्राणेभ्योऽपि गरीयसी ॥३२॥नैवंविधं रतं वेद अनया यद्विनिर्मितम् ॥वेश्या अपि न जानंति रतमीदृक्कथञ्चन ॥३३॥ततो गाढं करे धृत्वा दीपमानीय तत्क्षणात् ॥यावत्पश्यति सा माता नन्दिनीति च या स्मृता ॥३४॥ततश्च गर्हयामास रपे किमिदं कृतम् ॥गर्हितं सर्वलोकानां नर कार्तिप्रदं तथा ॥३५॥सापि लज्जासमोपेता महाभयसमाकुला ॥प्रणष्टा तत्क्षणादेव भयेन महताऽन्विना ॥३६॥सांबोऽपि प्रलपन्नार्तो निद्रां लेभे न वै द्विजाः ॥रात्रिशेषमभूत्तस्य तदा वर्षशतोपमम् ॥३७॥अथ रात्र्यां व्यतीतायां प्रोद्गते रविमण्डले ॥दुःखेन महता युक्तः प्रोत्थितः स हरेः सुतः ॥३८॥आवश्यकमपि त्यक्त्वा कंचिद्ब्राह्मणसत्तमम् ॥धर्मशास्त्रविधानज्ञं समानीयाथ चाब्रवीत् ॥३९॥रहस्ये विनयोपेतः कृतांजलिपुटः स्थितः ॥ ॥ सांब उवाच ॥मात्रा स्वस्रा दुहित्रा वा स्वयं स्याद्यदि मोहनम् ॥४०॥कथं शुद्धिर्भवेत्तस्य परमार्थेन मे वद ॥धर्मशास्त्राणि संवीक्ष्य सर्वाणि च यथाक्रमम् ॥४१॥ ॥ ब्राह्मण उवाच ॥परनार्याः कृते वत्स प्रायश्चित्तं विनिर्मितम् ॥धर्म द्रोणेषु सर्वेषु वर्णानां च पृथग्विधम् ॥४२॥आसां च तिसृणां चैव त्रयाणां परिकीर्तितम् ॥एवमेवं विनिर्दिष्टं प्रायश्चित्तं विशुदये ॥४३॥मात्रा मोहनमासाद्य भगिन्या वाथ यादव ॥दुहित्रा वा प्रमादाच्च कार्यं संशोधनं बुधैः ॥शुद्ध्यर्थं तिंगिनीमेकां नान्यज्जानाम्यहं यतः ॥४४॥धर्मद्रोणेषु सर्वेषु निर्णयोऽयमुदाहृतः ॥यो मया तव संदिष्टो नान्योस्ति यदुपुंगव ॥४५॥अन्यथा यो वदेत्पृष्टः प्रायाश्चित्तं स्वच्छन्द तः ॥तस्य पापस्य भागी स्याद्यथा कर्ता तथैव सः ॥४६॥ ॥ सांब उवाच ॥तिंगिन्याः किं स्वरूपं च किं प्रमाणं द्विजोत्तम ॥सर्वं विस्तरतो ब्रूहि ममास्त्यत्र प्रयोजनम् ॥४७॥ ॥ ब्राह्मण उवाच ॥गोवाटचूर्णमादाय गर्तां भृत्वा स्वमानजाम् ॥शयनं तत्र कर्तव्यं यावद्वक्त्रेण यादव ॥४८॥उपरिष्टात्तच्च चूर्णं धार्यं गोवाटसंभवम् ॥यावद्वक्त्रप्रमाणं च वर्जयित्वा स्वमाननम् ॥४९॥ततः पादप्रदेशे तु ज्वालयेद्धव्यवाहनम् ॥यथा शनैः शनैर्दाहः शरीरस्य प्रजायते ॥५०॥न चैव चालयेदंगं कथंचित्तत्र संस्थितः ॥नैवाक्रंदं तथा कुर्याद्ध्यायेदेकं जनार्दनम् ॥५१॥ततो जीवितनाशेन गात्रशुद्धिः प्रजायते ॥५२॥तिंगिन्या यत्स्वरूपं च तन्मया परिकीर्तितम् ॥प्रायश्चित्तमिदं सम्यङ्महापातकनाशनम् ॥५३॥तच्छ्रुत्वा वचनं तस्य सांबो जांबवतीसुतः ॥हृदये निश्चयं कृत्वा तिंगिनीसाधकोद्भवम् ॥५४॥ततः प्रोवाच विजने वासुदेवं घृणान्वितः ॥ताताहं विप्रलब्धस्तु नंदिन्या तव भार्यया ॥५५॥भार्याया रूपमाधाय पापया तमसि स्थिते ॥सा मया निजभार्येयमिति मत्वा निषेविता ॥५६॥ततस्तु चेष्टितैर्ज्ञात्वा गर्हयित्वा विसर्जिता ॥ततःप्रभृति गात्रे मे कुष्ठव्याधिरयं स्थितः ॥५७॥मयाथ धर्मशास्त्रज्ञः कश्चित्पृष्टो द्विजोत्तमः ॥प्रायश्चित्तं यथोक्तं मे वद मातृनिषेवणात् ॥५८॥तेनोक्तं साधनं सम्यक्तिंगिन्या मम शुद्धये ॥सोऽहं तां साधयिष्यामि तस्य पापस्य शुद्धये ॥५९॥अनुज्ञां देहि मे शीघ्रं कार्यं येन करोम्यहम् ॥क्षंतव्यं च मया बाल्ये यत्किंचित्कुकृतं कृतम् ॥६०॥मम माता यथा दुःखं न कुर्यात्त्वं तथा कुरु ॥६१॥तच्छ्रुत्वा वचनं तस्य वज्रपातोपमं हरिः ॥बाष्पपूर्णेक्षणो दीनस्ततः प्रोवाच गद्गदम् ॥६२॥न त्वया कामतः पुत्र कृत्यमेतदनुष्ठितम् ॥न ज्ञानेन कृतं यस्मात्तत्स्मात्स्वल्पं हि पातकम् ॥६३॥जानता यत्कृतं पापं तच्चैवाक्षयतां व्रजेत् ॥न करोति महीपालो यदि तस्य विनिग्रहम् ॥६४॥तस्मात्ते कीर्तयिष्यामि प्रायश्चित्तं विशुद्धये ॥दानं चैव महाभाग येन कुष्ठं प्रणश्यति ॥६५॥उक्तानि प्रतिषिद्धानि पुनः संभावितानि च ॥सापेक्षनिरपेक्षाणि मुनिवाक्यान्यशेषतः ॥६६॥तदत्र विषये पुत्र मम वाक्यं समाचर ॥भविष्यति महच्छ्रेय इह लोके परत्र च ॥६७॥हाटकेश्वरजे क्षेत्रे विश्वामित्रप्रतिष्ठितः ॥मार्तण्डोऽस्ति सुविख्यातः सर्वकुष्ठविनाशकः ॥६८॥सूर्यवारेण सप्तम्यां संप्राप्ते मासि माधवे ॥नक्षत्रे पितृदैवत्ये शुक्लपक्षे समागते ॥६९॥भास्करस्योदये प्राप्ते श्रद्धापूतेन चेतसा ॥शतमष्टोत्तरं यावत्कुरुते च प्रदक्षिणाम् ॥७०॥फलैः श्रेष्ठतमैश्चैव तत्प्रमाणैः पृथक्पृथक् ॥तस्य कुष्ठं विनिर्याति सद्य एव न संशयः ॥७१॥नीरोगः कुरुते यस्तु रवेस्तस्य प्रदक्षिणाः ॥तावद्युगं पुमानेष सूर्यलोके महीयते ॥७२॥सूर्यवारेण यो मर्त्यस्तस्य कृत्वा ण्दक्षिणाम् ॥नमस्करोति सद्भक्त्या सोऽपि रोगैः प्रमुच्यते ॥७३॥तस्मात्त्वं हि महाराज तमाराधय भास्करम् ॥देवं वै विधिनानेन यो मयोक्तोऽखिलस्तव ॥७४॥अविकल्पेन मनसा समाराधय सत्वरम् ॥मुक्तरोगे विपाप्माथ दिब्यदेहमवाप्स्यसि ॥७५॥मा कुरुष्व विषादं त्वं कुष्ठव्याधिसमुद्रवम् ॥तस्मिन्क्षेत्रे स्थिते देवे कुहराश्रयसंज्ञिते ॥७६॥अथ तद्वचनं श्रुत्वा प्रस्थितो विष्णुनन्दनः ॥७७॥ ॥ सूत उवाच ॥एतच्छ्रुत्वा वचस्तस्य देवदेवस्य चक्रिणः ॥चकार गमने बुद्धियोगं सांबोऽर्बुदं प्रति ॥७८॥ततः शुभेऽहनि प्राप्ते हस्त्यश्वरथसंयुतः ॥प्रतस्थे स सुतो विष्णोः सेनया परिवारितः ॥७९॥अनुयातः सुदूरं च कृष्णेनाक्लिष्टकर्मणा ॥बाष्पपूर्णे क्षणेनैव सर्वमातृजनेन च ॥८०॥बलभद्रेण वीरेण चारुदेष्णेन धीमता ॥युयुधानानिरुद्धाभ्यां प्रद्युम्नेन च धीमता ॥८१॥ततो जांबवती पुत्रं दृष्ट्वा तीर्थोन्मुखं तदा ॥गच्छमानं प्रचक्रेऽथ प्रलापान्कुररी यथा ॥८२॥हा हतास्मि विनष्टास्मि मंदभाग्या ह्यभागिनी ॥एकोपि तनयो यस्या ममाप्येनां दशां गतः ॥८३॥अथ तां रुदतीं दृष्ट्वा प्रोवाच मधुसूदनः ॥किममंगलमेतस्य प्रस्थितस्य करिष्यसि ॥८४॥बाष्पपूर्णेक्षणा दीना मुक्तकेशी विशेषतः ॥एष व्याधिविनिर्मुक्तस्तीर्थयात्राफलान्वितः ॥कुष्ठव्याधिपरित्यक्तः पुनरेष्यति तेंऽतिकम् ॥८५॥एतस्मिन्नंतरे यानादवतीर्य त्वरान्वितः ॥सांबोऽसौ प्रस्थितस्तत्र यत्र जांबवती स्थिता ॥८६॥स तां प्रणम्य हृष्टात्मा कृतांजलिपुटः स्थितः ॥प्रणिपत्य विहस्यो च्चैर्वाक्यमेतदुवाच ह ॥८७॥मा त्वं मातर्वृथा दुःखमस्मदर्थे करिष्यसि ॥आगमिष्याम्यहं शीघ्रं तीर्थयात्रां विधाय वै ॥८८॥ ॥ जांबवत्युवाच ॥रक्षतु त्वां वने वत्स सर्वास्ता वनदेवताः ॥श्वापदेभ्यः पिशाचेभ्यो दुष्टेभ्यः पुत्र सर्वतः ॥८९॥शिरस्ते पातु गोविंदः कण्ठं च मधुसूदनः ॥बाहुदेशं हृषीकेशो हृदयं दैत्यनाशनः ॥९०॥जठरं पुंडरीकाक्षः कटिं पातु गदाधरः ॥जानुनोर्युगलं कृष्णः पादौ च धरणीधरः ॥९१॥एवं संस्पृश्य हस्तेन निजेनांगानि तस्य सा ॥समालिंग्य समाघ्राय मूर्धदेशे मुहुर्मुहुः ॥९२॥प्रेषयामास तं पुत्रं कृतरक्षं यशस्विनी ॥सा सर्वांतःपुरीयुक्ता निवृता तदनन्तरम् ॥९३॥अश्रुपूर्णेक्षणा दीना निःश्वसन्ती यथोरगी ॥तथा च भगवान्विष्णुर्यादवैः सकलैः सह ॥९४॥प्रविष्टो द्वारकापुर्या सांबं प्रोष्य ततः परम् ॥अश्रुपूर्णेक्षणो दीनो बलभद्रपुरःसरः ॥९५॥पुत्रैः पौत्रैस्तथा मित्रैर्बांधवैरपरैरपि ॥द्वारकाया विनिष्क्रम्य सांबोऽपि द्विजसत्तमाः ॥९६॥संप्राप्तश्च क्रमेणाथ सिंधुसागरसंगमे ॥यत्र योगीश्वरः साक्षादंबरीषप्रतिष्ठितः ॥९७॥अद्यापि तिष्ठते विष्णुर्जंतूनां पापनाशनः ॥तत्र स्नात्वा समभ्यर्च्य देवं योगीश्वरं ततः ॥९८॥ददौ दानानि विप्रेभ्यो नानारूपाणि शक्तितः ॥दीनांधकृपणेभ्यश्च तथैवान्येभ्य एव च ॥९९॥यानानि वस्त्ररत्नानि यद्यच्च येन वांछितम् ॥स त्रिरात्रं हरेः पुत्रः स्थित्वा तत्र समाहितः ॥१००॥च्यवनस्याश्रमं पुण्यं जगामाथ ततः परम् ॥यत्र संतिष्ठते विष्णुश्च्यवनेन प्रतिष्ठितः ॥१॥सिंधोस्तटे च पुण्ये च सर्वपातकनाशनः ॥तत्रापि विप्रमुख्येभ्यो ददौ दानानि यादवः ॥२॥वांछितानि यथोक्तानि शास्त्रदृष्टेन कर्मणा ॥तत्रापि संयतः सांब स स्थित्वा श्रद्धयान्वितः ॥३॥त्रिरात्रं प्रजगामाथ स्नात्वा सिंधूदके शुभे ॥ततस्तु पुष्करादीनि समुद्दिश्य शनैः शनैः ॥४॥पुष्करावासिनं देवं ध्यायमानो ह्यहर्निशम् ॥तस्तु पुष्करं प्राप्य क्रमेण यदुसत्तमः ॥५॥पुण्ये कुण्डजले स्नातः संतर्प्य पितृदेवताः ॥सप्तम्यां सूर्यवारेण गृहीत्वाथ फलानि च ॥गतः संतिष्ठते यत्र देवो वै विष्णु सूचितः ॥६॥पूजयित्वा ततो भक्त्या देवं कुहरवासिनम् ॥वस्त्रानुलेपनैर्धूपैर्नैवेद्यैस्तु पृथग्विधैः ॥७॥ततः प्रदक्षिणाश्चक्रे फलहस्तः शनैःशनैः ॥प्रपठन्सूर्यगायत्रीं श्रद्धया परया युतः ॥८॥यथायथा करोत्येष रवेस्तस्य प्रदक्षिणाम् ॥तथातथा च संयाति तस्य कुष्ठं द्विजोत्तमाः ॥९॥तत्र क्षणेऽभवत्तस्य चित्ते सांबस्य धीमतः ॥मुक्तोऽहं कुष्ठरोगेण निर्विकल्पं द्विजोत्तमाः ॥१०॥ततश्च सहितं तेन यत्किंचित्तत्र चागतम् ॥हस्त्यश्वरथरत्नाढ्यं तत्सर्वं भक्तिपूर्वकम् ॥११॥नागराणां ददौ सर्वं तथान्यद्ग्रामपंचकम् ॥सांबाऽऽदित्यं प्रतिष्ठाप्य ततः संप्रस्थितो गृहम् ॥१२॥किंचिदुर्वरितं यच्च तत्सर्वं भक्तिसंयुतम् ॥प्रददौ सूर्यविप्रेभ्यः पूजयित्वा दिवाकरम् ॥१३॥अष्टौ वाजिसहस्राणि नागानां च शतत्रयम् ॥रथानां षट्शतान्येव अश्वैर्युक्तानि वाजिभिः ॥अनंतानि च रत्नानि दत्त्वा सांबो गृहं गतः ॥१४॥य एतत्पठते भक्त्या सांबाख्यानमनुत्तमम् ॥शृणोति वाऽन्वये तस्य न कुष्ठं संप्रजायते ॥१५॥ ॥ सूत उवाच ॥एतद्वः सर्वमाख्यातं विश्वामित्रीयमुत्तमम् ॥चतुर्थं च पुण्यतीर्थं स्त्रीणां चैव शुभावहम् ॥११६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रीयमाहात्म्ये कुहरवासिसांबादित्यप्रभाववर्णनंनाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥२१३॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP